| YouTube Channel

कृष्णकर्म्मा (kRSNakarmmA)

 
शब्दकल्पद्रुमः
Sanskrit
कृष्णकर्म्मा, [न्] त्रि, (कृष्णं अशुभं कर्म्म यस्य ।)पापाचारयुक्तः तत्पर्य्यायः शिश्विदानः इत्य-मरः ४६
(श्वेतितुमिच्छति श्वितावर्णेइत्यस्य श्वितेर्दश्चेत्यानच् दत्वं सनो लुक् इतिशिश्विदानः केचित्तु अकृष्णकर्म्मा इति पठन्ति ।अकृष्णं निष्पापत्वात् शुक्लं कर्म्मास्य अकृष्ण-कर्म्मा शुक्लकर्म्मा इत्यर्थः इति व्याचक्षते ।इति भरतः
“शिश्विदानः कृष्णकर्म्मा शुक्लकर्म्मेति कस्यचित्”
इति जटाधरः
क्ली,
व्रणानां कृष्णत्वसम्पादक-क्रियाविशेषः यथा, सुश्रुतोक्तौ “अथ व्रणस्योप-क्रमा भवन्तीत्युपक्रम्य दारुणकर्म्मक्षारकर्म्माग्नि-कर्म्म कृष्णकर्म्मपाण्डुकर्म्म” इति
)