| YouTube Channel

कृष्णः (kRSNaH)

 
Hindi
Hindi
अंधेरे चाँद के पखवाड़े
Wordnet
Sanskrit
Synonyms:
कृष्णः
noun
छन्दोविशेषः।
"कृष्णे 22 गुरुवर्णाः, 104लघुवर्णाः, 148 मात्राः भवन्ति।"
Synonyms:
कृष्णः
noun
चतुर्णाम् अक्षराणां वर्णवृत्तविशेषः।
"कृष्णस्य प्रत्येकस्मिन् चरणे तगणः लघुश्च भवति।"
Synonyms:
कृष्ण-उपनिषद्, कृष्णः
noun
एका उपनिषद्।
"कृष्ण-उपनिषद् अथर्ववेदेन सम्बन्धिता।"
Synonyms:
मरीचम्, मल्लजम्, उल्लाघःउषणम्, ऊषणम्, औषणशौण्डी, कफविरोधि, कृष्णः, केवलद्रव्यम्, कोलम्, कोलकम्, चन्द्रकम्, तीक्ष्णः, द्वारवृत्तम्, धार्मपत्तनम्, पवितम्, मरिचम्, लोहाख्यम्, विरावृत्तम्, वृत्तफलम्, वेणुनम्, वेल्लजम्, वेल्लनम्, शनिजम्, शुद्धम्, श्यामम्
noun
लताप्रकारकः यस्याः कटुः कृष्णवर्णीया लघुगुलिका या भोजने उपस्कररूपेण उपयुज्यते।
"कृषकः कृषीक्षेत्रात् मरीचम् आमूलात् उद्गृह्णाति।"
Synonyms:
कृष्णः, श्यामः
noun
सः पुरुषः यः कृष्णवर्णीयः अस्ति।
"कृष्णानां विवाहे बाधा उत्पद्यते।"
Synonyms:
कृष्णः, कृष्णवर्णः, श्यामवर्णः
noun
कज्जलस्य अङ्गारस्य वा रङ्गः।
"अस्य चित्रस्य उत्तरभागं कृष्णवर्णेन वर्णय।"
Synonyms:
शिखिग्रीवम्, शिखिकण्ठम्, कृष्णः, वितुन्नकः, तूतकम्, हेमसारम्, नीलम्, कांस्यनीली, अमृतासङ्गम्, हेमतारम्, तुत्थकम्
noun
ताम्रस्य लवणम्।
"शिखिग्रीवम् रञ्जने तथाच मुद्रणे उपयुज्यते।"
Synonyms:
करमर्दः, करमर्दी, कराम्बुकः, कृष्णः, कृष्णपाकः, क्षीरफलः, डिण्डिमः, नलिनदलः, पाककृष्णः, पाकफलः, पाणिमर्दः, फलकृष्णः, फलपाकः, वनामलः, वरालकः, वराम्रः, वारिवरः, वशः, विघ्नः, सुषेणः
noun
कण्टकयुक्तः वृक्षः यस्य फलानि लघूनि तथा अम्लानि सन्ति।
"मातुः करमर्दस्य व्यञ्जनं निर्माति।"
Synonyms:
करमर्दः, करमर्दी, कराम्बुकः, कृष्णः, कृष्णपाकः, क्षीरफलः, डिण्डिमः, नलिनदलः, पाककृष्णः, पाकफलः, पाणिमर्दः, फलकृष्णः, फलपाकः, वनामलः, वरालकः, वराम्रः, वारिवरः, वशः, विघ्नः, सुषेणः
noun
कण्टकयुक्तः वृक्षः यस्य फलानि लघुनि तथा अम्लानि सन्ति।
"तेन करमर्दः उन्मूलितः।"
Synonyms:
अर्जुनः, धनञ्जयः, पार्थः, शक्रनन्दनः, गाण्डिवी, मध्यमपाण्डवः, श्वेतवाजी, कपिध्वजः, राधाभेदी, सुभद्रेशः, गुडाकेशः, बृहन्नलः, ऐन्द्रिः, फाल्गुनः, जिष्णुः, किरीटी, श्वेतवाहनः, बीभत्सुः, विजयः, कृष्णः, सव्यसाची, कृष्णः, जिष्णुः
noun
कुन्तेः तृतीयः पुत्रः।
"अर्जुनः महान् धनुर्धरः आसीत्।"
Synonyms:
व्यासः, वेदव्यासः, महर्षिव्यासः, कृष्णद्वैपायनः, पाराशरः, बादरायणः, वासवेयः, सात्यवतः, कृष्णः
noun
एकः ऋषिः येन वेदाः संगृहीताः तथा सम्पादिताः।
"व्यासेन महाभारतं लिखितुं श्रीगणेशः आमन्त्रितः।"
Synonyms:
कृष्णः, नारायणः, दामोदरः, हृषीकेशः, केशवः, माधवः, अच्युतः, गोविन्दः, जनार्दनः, गिरिधरः, दैवकीनन्दनः, माधवः, शौरिः, अहिजितः, योगीश्वरः, वंशीधरः, वासुदेवः, कंसारातिः, वनमाली, पुराणपुरुषः, मुकुन्दः, कंसारिः, वासुः, मुरलीधरः, जगदीशः, गदाधरः, नन्दात्मजः, गोपालः, नन्दनन्दनः, यादवः, पूतनारिः, मथुरेशः, द्वारकेशः, पाण्डवायनः, देवकीसूनुः, गोपेन्द्रः, गोवर्धनधरः, यदुनाथः, चक्रपाणिः, चतुर्भुजः, त्रिविक्रमः, पुण्डरीकाक्षः, गरुडध्वजः, पीताम्बरः, विश्वम्भरः, विश्वरुजः, सनातनः, विभुः, कान्तः, पुरुषः, प्रभुः, जितामित्रः, सहस्रवदनः
noun
यदुवंशीय वसुदेवस्य पुत्रः यः विष्णोः अवतारः इति मन्यते।
"सूरदासः कृष्णस्य परमो भक्तः।"
Synonyms:
विष्णुः, नारायणः, कृष्णः, वैकुण्ठः, विष्टरश्रवाः, दामोदरः, हृषीकेशः, केशवः, माधवः, स्वभूः, दैत्यारिः, पुण्डरीकाक्षः, गोविन्दः, गरुडध्वजः, पीताम्बरः, अच्युतः, शार्ङ्गी, विष्वक्सेनः, जनार्दनः, उपेन्द्रः, इन्द्रावरजः, चक्रपाणिः, चतुर्भुजः, पद्मनाभः, मधुरिपुः, वासुदेवः, त्रिविक्रमः, दैवकीनन्दनः, शौरिः, श्रीपतिः, पुरुषोत्तमः, वनमाली, बलिध्वंसी, कंसारातिः, अधोक्षजः, विश्वम्भरः, कैटभजित्, विधुः, श्रीवत्सलाञछनः, पुराणपुरुषः, वृष्णिः, शतधामा, गदाग्रजः, एकशृङ्गः, जगन्नाथः, विश्वरूपः, सनातनः, मुकुन्दः, राहुभेदी, वामनः, शिवकीर्तनः, श्रीनिवासः, अजः, वासुः, श्रीहरिः, कंसारिः, नृहरिः, विभुः, मधुजित्, मधुसूदनः, कान्तः, पुरुषः, श्रीगर्भः, श्रीकरः, श्रीमान्, श्रीधरः, श्रीनिकेतनः, श्रीकान्तः, श्रीशः, प्रभुः, जगदीशः, गदाधरः, अजितः, जितामित्रः, ऋतधामा, शशबिन्दुः, पुनर्वसुः, आदिदेवः, श्रीवराहः, सहस्रवदनः, त्रिपात्, ऊर्ध्वदेवः, गृध्नुः, हरिः, यादवः, चाणूरसूदनः, सदायोगी, ध्रुवः, हेमशङ्खः, शतावर्त्ती, कालनेमिरिपुः, सोमसिन्धुः, विरिञ्चिः, धरणीधरः, बहुमूर्द्धा, वर्धमानः, शतानन्दः, वृषान्तकः, रन्तिदेवः, वृषाकपिः, जिष्णुः, दाशार्हः, अब्धिशयनः, इन्द्रानुजः, जलशयः, यज्ञपुरुषः, तार्क्षध्वजः, षड्बिन्दुः, पद्मेशः, मार्जः, जिनः, कुमोदकः, जह्नुः, वसुः, शतावर्तः, मुञ्जकेशी, बभ्रुः, वेधाः, प्रस्निशृङ्गः, आत्मभूः, सुवर्णबिन्दुः, श्रीवत्सः, गदाभृत्, शार्ङ्गभृत्, चक्रभृत्, श्रीवत्सभृत्, शङ्खभृत्, जलशायी, मुरमर्दनः, लक्ष्मीपतिः, मुरारिः, अमृतः, अरिष्टनेमः, कपिः, केशः, जगदीशः, जनार्दनः, जिनः, जिष्णुः, विक्रमः, शर्वः
noun
देवताविशेषः हिन्दुधर्मानुसारं जगतः पालनकर्ता।
"एकादशस्तथा त्वष्टा द्वादशो विष्णुरुच्यते जघन्यजस्तु सर्वेषामादित्यानां गुणाधिकः।"
Synonyms:
कृष्णः
noun
शूद्रविशेषः
"कृष्णाः शाल्मलद्वीपे निवसन्ति"
Synonyms:
कृष्णः
noun
एकः नरकः
"कृष्णस्य वर्णनं वायुपुराणे वर्तते"
Synonyms:
कृष्णः
noun
हीरभट्टस्य पिता
"कृष्णेन चरकभाष्यं लिखितम्"
Synonyms:
कृष्णः
noun
वारुणेन्द्रस्य पुत्रः
"कृष्णः लक्ष्मणस्य पिता आसीत्"
Synonyms:
कृष्णः
noun
मदनस्य पिता
"कृष्णस्य उल्लेखः कोशे वर्तते"
Synonyms:
कृष्णः
noun
प्रभूजीकस्य पिता
"कृष्णः विद्याधरस्य पितृव्यः आसीत्"
Synonyms:
कृष्णः
noun
दामोदरस्य पिता
"कृष्णः मल्हणस्य पितृव्यः आसीत्"
Synonyms:
कृष्णः
noun
तानभट्टस्य पिता
"कृष्णः रङ्गनाथस्य पितृव्यः आसीत्"
Synonyms:
कृष्णः
noun
केशवार्कस्य पुत्रः
"कृष्णः जयादित्यस्य पौत्रः आसीत्"
Synonyms:
कृष्णः
noun
एकः टीकाकारः
"कृष्णेन दयाभागे कृता टीका ख्याता"
Synonyms:
कृष्णः
noun
अन्ध्राणां नेता
"कृष्णस्य उल्लेखः वायुपुराणे वर्तते"
Synonyms:
कृष्णः
noun
एकः टीकाकारः
"कृष्णेन महाभारते टीका विरचिता"
Synonyms:
कृष्णः
noun
असमञ्जसः दत्तकपुत्रः
"कृष्णस्य उल्लेखः कोशे वर्तते"
Synonyms:
कृष्णः
noun
एकः हविर्धानः
"कृष्णस्य उल्लेखः हरिवंशे वर्तते"
Synonyms:
कृष्णः
noun
अर्जुनस्य पुत्रः
"कृष्णस्य उल्लेखः हरिवंशे वर्तते"
Synonyms:
कृष्णः
noun
भरद्वाजस्य शिष्यः
"कृष्णस्य वर्णनं कथासरित्सागरे वर्तते"
Synonyms:
कृष्णः
noun
पीवरीशुकयोः पुत्रः
"कृष्णस्य वर्णनं हरिवंशे वर्तते"
Synonyms:
कृष्णः
noun
एकः नागराजः
"कृष्णस्य वर्णनं महाभारते वर्तते"
Synonyms:
कृष्णः
noun
एकः असुरः
"कृष्णस्य वर्णनं हरिवंशे वर्तते"
Synonyms:
कृष्णः
noun
एकः परिचरः
"कृष्णस्य उल्लेखः महाभारते वर्तते"
Synonyms:
कृष्णः
noun
एकः कविः
"कृष्णस्य उल्लेखः ऋग्वेदे वर्तते"
वैजयन्तीकोषः
Sanskrit
Word: कृष्णः
Root: कृष्ण
Gender: पुं
Number: all
अर्थः विष्णोः कृष्णावतारः
Meaning(s):
Avatara of Visnu
as son of Vasudeva
Shloka(s):
1|1|25|1 सौनन्दमस्य मुसलं कृष्णो दामोदरोऽद्रिधृत्। (स्वर्गकाण्डः/आदिदेवाध्यायः)
1|1|25|2 दशार्हो नरकारातिर्वनमाली गदाग्रजः॥ (स्वर्गकाण्डः/आदिदेवाध्यायः)
1|1|26|1 शैनिः कंसरिपुः शौरिः सारथिस्तस्य दारुकः। (स्वर्गकाण्डः/आदिदेवाध्यायः)
Synonym(s):
1|1|25|1 कृष्णः (कृष्ण) (पुं) Avatara of Visnu
as son of Vasudeva विष्णोः कृष्णावतारः
1|1|25|1 दामोदरः (दामोदर) (पुं) Epithet of Kṛṣṇa विष्णोः कृष्णावतारः
1|1|25|1 अद्रिधृत् (अद्रिधृत्) (पुं) Epithet of Kṛṣṇa विष्णोः कृष्णावतारः
1|1|25|2 दाशार्हः (दाशार्ह) (पुं) Epithet of Kṛṣṇa विष्णोः कृष्णावतारः
1|1|25|2 नरकारातिः (नरकाराति) (पुं) Epithet of Kṛṣṇa विष्णोः कृष्णावतारः
1|1|25|2 वनमाली (वनमालिन्) (पुं) Epithet of Kṛṣṇa विष्णोः कृष्णावतारः
1|1|25|2 गदाग्रजः (गदाग्रज) (पुं) Epithet of Kṛṣṇa विष्णोः कृष्णावतारः
1|1|26|1 शैनिः (शैनि) (पुं) Epithet of Kṛṣṇa विष्णोः कृष्णावतारः
1|1|26|1 कंसरिपुः (कंसरिपु) (पुं) Epithet of Kṛṣṇa विष्णोः कृष्णावतारः
1|1|26|1 शौरिः (शौरि) (पुं) Epithet of Kṛṣṇa विष्णोः कृष्णावतारः
Related word(s):
परा_अपरासंबन्धः देवः
जन्य_जनकसंबन्धः वसुदेवः
अवतारः विष्णुः
जातिः देवता
अन्यसंबन्धाः बलभद्रः
शब्दकल्पद्रुमः
Sanskrit
कृष्णः,
पुं,
(कर्षत्यरीन् महाप्रभावशक्त्या यद्वा, कर्षति आत्मसात् करोति आनन्दत्वेन परिण-मयतीति मनो भक्तानां इति यावत् “कृषेर्व्वर्णे” उणां इति बाहुलकात् वर्णंविनापि नक् णत्वञ्च यद्वा, कर्षति सर्व्वान्स्वकुक्षौ प्रलयकाले “कर्षणात् कृष्णो रमणात्रामो व्यापनात् विष्णुः” इति श्रुते स्तथात्वम्
अपरा व्युत्पत्तिर्यथा, --“कृषिर्भूवाचकः शब्दो णश्च निर्वृतिवाचकः ।तयोरैक्यात् परं ब्रह्म कृष्ण इत्यभिधीयते”
इति श्रीधरस्वामी
तथा च, महाभारते ५यानसन्धिपर्व्वणि ७० ।“कृषिर्भूवाचकः शब्दो णश्चनिर्वृतिवाचकः ।कृष्णस्तद्भावयोगाच्च कृष्णो भवति सात्त्वतः”
)भगवदवतारविशेषः भूभारहरणार्थं द्वाप-रयुगशेषे भाद्रकृष्णाष्टम्यां रोहिणीनक्षत्रे निशीथेदेवकीगर्भे आविर्भूतः तस्य जन्मसमयो यथा, “उच्चस्थाः शशिभौमचान्द्रिशनयो लग्नं वृषोलाभगो जीवः सिंहतुलालिषु क्रमवशात् पूषो-शनोराहवः नैशीथः समयोऽष्टमी बुधदिनंब्रह्मर्क्षमत्रक्षणे श्रीकृष्णाभिधमम्बुजेक्षणमभू-दाविः परं ब्रह्म तत्”
इति खमाणिक्यनाम-ज्योतिर्ग्नन्थः
(यदि भगवतो विष्णोः कृष्णाव-तारकालः क्वचित् द्वापरयुगशेषे इत्ययं पाठोलक्ष्यते तथापि कलावेव कृष्णावतार इत्येव भूरि-सम्मतमिति बोध्यम् तत्र भूरि भूरिप्रमाणानिच सन्ति तेषां कानिचिदत्रोद्धृतानि ।तद्यथा, ब्रह्मपुराणे, --“अथ भाद्रपदे मासि कृष्णाष्टम्यां कलौ युगे ।अष्टाविंशतिमे जातः कृष्णोऽसौ देवकीसुतः”
परं कस्मिन्नेव कलौ प्रादुर्बभूव भगवानिति जि-ज्ञासायां वैवस्वतमन्वन्तरीयाष्टाविंशतिमे युगेइत्युक्त्या वर्त्तमानकलेः प्रथम एव निर्णीयते तथाच उच्चस्थाः शशिभौमचान्द्रिशनय इति ।खमाणिक्यनामज्योतिर्ग्रन्थोक्तेः कलियुगस्य ६४७वर्षेषु गतेषु एतत्समयस्य सम्भवः ततः पूर्व्वंकलौ तादृशसमयासम्भवात् किञ्च राजतरङ्गि-ण्याम् ५१ ।“शतेषु षट्सु सार्द्धेषु त्र्यधिकेषु भूतले ।कलेर्गतेषु वर्षाणामभवन् कुरुपाण्डवाः”
इत्यनेन कलियुगस्य ६५३ वर्षेषु गतेषु तत्सम-कालीनयोः कुरुपाण्डवयोरुत्पत्तिः कथिता अतोभगवतः कृष्णस्यापि तत्कालोत्पत्तिकत्वं सूचितम् ।अपि कृष्णस्य नामकरणे यच्च गर्गर्षिराहततोऽपि कलेरादावेव भगवदाविर्भावः सूच्यते ।यथा, भागवते १० ।“आसन् वर्णास्त्रयोह्यस्य गृह्णतोऽनुयुगं तनूः ।शुक्लो रक्तस्तथाऽपीत इदानीं कृष्णतां गतः”
इदानीं कलावित्यर्थः तथा, पुराणान्तरे, --“कृते शुक्लं हरिं विद्याद् त्रेतायां रक्तवर्णकम् ।द्वापरे पीतवर्णञ्च कलौ कृष्णत्वमागतः”
तथा तत्रैव ११ अध्याये यगावतारकथने ।“कृते शुक्लश्चतुर्बाहुर्जटिलो वल्कलाम्बरः ।कृष्णाजिनोपवीताक्षान् बिभ्रद्दण्डकमण्डलुम्
हिरण्यकेशस्त्रय्यात्मा स्रुक्स्रुवाद्युपलक्षणः ।त्रेतायां रक्तवर्णोऽसौ चतुर्बाहुस्त्रिमेखलः
द्वापरे भगवान् श्यामः पीतवासा निजायुधः ।श्रीवत्सादिभिरङ्कैश्च लक्षणैरुपलक्षितः
नानातन्त्रविधानेन कलावपि यथा शृणु
कृष्णवर्णं त्विषाऽकृष्टं साङ्गोपाङ्गास्त्रपार्श्वदम् ।यज्ञैः संकीर्त्तनप्रायैर्यजन्ति हि सुमेधसः”
अपि चकृते शुक्ल इत्यादयो ये ये वर्णा निर्णीताःनतु केवलं तेषां वाह्यवर्णत्वेन पर्य्यवसीतत्वं किन्तुयुगभेदानुसारेण लोकानां गुणधर्म्मत्वमेव निश्ची-यते यथा, कृते शुक्लं इति कथनात् सत्वगुणःप्रदर्शितः सत्वस्य हि शुक्लत्वं प्रसिद्धं यथा, --“तत्र सत्त्वं निर्म्मलत्वात् प्रकाशकमनामयम् ।सुखसङ्गेन बध्नाति ज्ञानसङ्गेन चानघ !”
त्रेतायां रक्तवर्णकं इत्युक्त्या रजस एव निर्द्देशःकृतः यथा, --“रजो रागात्मकं विद्धि तृष्णासङ्गसमुद्भवम्तन्निबध्नाति कौन्तेय ! कर्म्मसङ्गेन देहिनम्”
द्वापरे पीतवर्णं इत्युक्त्या रजोमिश्रिततमसोनिर्देशः यथा, --“वावह रजो वै यदा अन्धकारात्मकेन तमसासंगच्छते तदा ऽस्य घोरमौढ्यादिबहवो दोषाप्रकाशन्ते”
तथा, हरिवंशे वर्णभेदकथने वैश्य-त्वप्राप्तिहेतुमाह ।“गोभ्योवृत्तिं समास्थाय पीताः कृष्यनुजीविनः ।स्वधर्म्मान्नानुतिष्ठन्ति ते द्विजा वैश्यतां गताः”
पीताः रजस्तमःप्रधाना इति तट्टीका
कलौ कृष्णतामागत इत्युक्त्या तु केवलं तमःप्राधान्यनिर्द्देशः यथा, --“तमस्त्वज्ञानजं विद्धि मोहनं सर्व्वदेहिनाम् ।निद्रा तन्द्रा तथालस्यं प्रमादो दीर्घसूत्रिता”
इत्यतः दुरात्माक्रान्तायाः पृथिव्या भारहरणायतमःप्रधानां मायामधिष्ठायैव कलावेव भगवतःप्रादुर्भावः सम्भवति
यदा तु शालिवाहनस्य शकाब्दाख्याः प्रचलितु-मारब्धास्तदा वै पाण्डुकुलनन्दनमहाराजयुधि-ष्ठिरप्रवर्त्तिताब्दानां षड्विंशाधिकसार्द्धद्विस-हस्राण्येवातीतानि महाभारतभागवतादिशा-स्त्रोक्त्या भगवतः कृष्णस्य तृतीयपाण्डवेनार्ज्जुनेनतुल्यवयस्कत्वात् उपर्य्युक्तराजतरङ्गिणीमतानुसा-रेण कलेः त्रिपञ्चाशदधिकषट्शतेषु वर्षेषुगतेषु युधिष्ठिराविर्भावकालः तद्गणनया हिकलेः सप्तपञ्चाशदधिकेषु षट्शतेषु वर्षेषु गतेष्वेवकथञ्चित् कृष्णावतारसमयो निश्चीयते किञ्च, एतावदपि निर्द्धारितं यत् विक्रमादित्याब्दा यिषु-ख्रीष्टाविर्भावादेकोनाशीतिवर्षोत्तरकाल एव प्रव-र्त्तितुमारब्धाः अतः षड्विंशाधिकचतुर्व्विंशति-शतवर्षेभ्य एकोनाशीतिवर्षेषु वियुक्तेषु यिष-ख्रीष्टाविर्भावात् सप्तचत्वारिंशदधिकशतवर्षपूर्व्व-मेव युधिष्ठिराविर्भावकालः ततो नितरामेवयिषुखीष्टात् सप्तचत्वारिंशदधिकषड्विंशतिशत-वर्षेभ्यः प्राग्भगवतः कृष्णस्य प्रादुर्भावः कथमपिनिरूप्यते
)अधुना अस्य ध्यानम् कथ्यते यथा, --“स्मरेद्वृन्दावने रम्ये मोहयन्तमनारतम् ।गोविन्दं पुण्डरीकाक्षं गोपकन्याः सहस्रशः
आत्मनो वदनाम्भोजे प्रेषिताक्षिमधुव्रताः ।पीडिताः कामवाणेन चिरमाश्लेषणोत्सुकाः
मुक्ताहारलसत्पीनतुङ्गस्तनभरानताः ।स्रस्तधम्मिल्लवसना मदस्खलितभाषणाः
दन्तपङ्क्तिप्रभोद्भासिस्पन्दमानाधराञ्चिताः ।विलोभयन्ती विविधैर्विभ्रमैर्भावगर्व्वितैः
फुल्लेन्दीवरकान्तिमिन्दुवदनं वर्हावतंसप्रियंश्रीवत्साङ्कमुदारकौस्तुभधरं पीताम्बरं सुन्दरम् ।गोपीनां नयनोत्पलाच्चिततनुं गोगोपसंघावृतंगोविन्दं कलवेणुवादनपरं दिव्याङ्गभूषं भजे”
इति तन्त्रसारः
*
अस्य पादचिह्नानि यथा, “चन्द्रार्द्धं कलसं त्रिकोणधनुषी खं गोष्पदं प्रोष्ठिकांशङ्खं सव्यपदेऽथ दक्षिणपदे कोणाष्टकं स्वस्तिकम् ।चक्रं छत्रयवाङ्कशं ध्वजपवीजम्बूर्द्धरेखाम्बुञंविभ्राणं हरिमूनविंशतिमहालक्ष्मार्च्चिताङ्घ्रिं भजे”
इति रूपचिन्तामणिः
*
अस्यावतारा ह्यसं-ख्येयाः तत्र युगावताराश्चत्वारः यथा, --“कृते शुक्लश्चतुर्ब्बाहुर्जटिलो वल्कलाम्बरः ।कृष्णाजिनोपवीताक्षान् बिभ्रद्दण्डकमण्डलुम्
त्रेतायां रक्तवर्णोऽसौ चतुर्ब्बाहुस्त्रिमेखलः ।हिरण्यकेशस्त्रय्यात्मा स्रुक्स्रुवाद्युपलक्षणः
द्वापरे भगवान् श्यामः पीतवासा निजायुधः ।श्रीवत्सादिभिरङ्कैश्च लक्षणैरुपलक्षितः
नानातन्त्रविधानेन कलावपि यथा शृणु ।कृष्णवर्णं त्विषाऽकृष्णं साङ्गोपाङ्गास्त्रपार्श्वदम्
यज्ञैः संकीर्त्तनप्रायैर्यजन्ति हि सुमेधसः”
*
अस्य कल्पावतारा दश यथा मत्स्यः कूर्म्मः २वराहः नृसिंहः वामनः परशुरामः ६रामः कृष्णः बुद्धः कल्की १० इतिश्रीभागवतम्
*
अस्य गुणाश्चतुःषष्टिर्यथा ।“अयं नेता सुरम्याङ्गः सर्व्वसल्लक्षणान्वितः ।रुचिर -३ स्तेजसा युक्तो बलीयान् वयसा-न्वितः
विविधाद्भुतभाषावित् सत्यवाक्यः ८प्रियम्बदः वावदूकः १० सुपाण्डित्यो ११ बुद्धि-मान् १२ प्रतिभान्वितः १३
विदग्ध -१४ श्च-तुरो १५ दक्षः १६ कृतज्ञः १७ सुदृढव्रतः १८ ।देशकालसुपात्रज्ञः १९ शास्त्रचक्षुः २० शुचि -२१र्व्वशी २२
स्थिरो २३ दान्तः २४ क्षमाशीलो २५गम्भीरो २६ घृतिमान् २७ समः २८ वदान्यो२९ धार्म्मिकः ३० शूरः ३१ करुणो ३२ मान्य-मानकृत् ३३
दक्षिणो ३४ विनयी ३५ ह्रीमान्३६ शरणागतपालकः ३७ सुखी ३८ भक्तसुहृत्३९ प्रेमवश्यः ४० सर्व्वशुभङ्करः ४१
प्रतापी ४२कीर्त्तिमान् ४३ रक्तलोकः ४४ साधुसमाश्रयः ४५ ।नारीगणमनोहारी ४६ सर्व्वाराध्यः ४७ समृद्धि-मान् ४८
वरीया -४९ नीश्वर -५० श्चेति गुणा-स्तस्यानुकीर्त्तिताः सदास्वरूपसम्प्राप्तः ५१सव्वज्ञो ५२ नित्यनूतनः ५३
सच्चिदानन्दसान्द्राङ्गः५४ सर्व्वसिद्धिनिषेवितः ५५ अविचिन्त्यमहाशक्तिः५६ कोटिब्रह्माण्डविग्रहः ५७
अवतारावलीःवीजं ५८ हतारिगतिदायकः ५९ आत्माराम-गणाकर्षी -६० त्यमी कृष्णे किलाद्भुताः
सर्व्वा-द्भुतचमत्कारलीलाकल्लोलवारिधिः ६१ अतुल्य-मधुरप्रेममण्डितप्रियमण्डलः ६२
त्रिजगन्मानसाकर्षी मुरलीकलकूजितः ६३ असमानोर्द्ध-रूपश्रीविस्मापितचराचरः ६४
लीलाप्रेम्नाप्रियाधिक्यं माधुर्य्ये वेणुरूपयोः ।इत्यसाधारणं प्रोक्तं गोविन्दस्य चतुष्टयम् ।एवं गुणाश्चतुर्भेदाश्चतुःषष्ठिरुदाहृताः”
*
अस्य गदा कौमोदकी खङ्गः नन्दकः धनुःशार्ङ्गम् शङ्खः पाञ्चजन्यः चक्रं सुदर्शनः मणिःकौस्तुभः वाहनं गरुडः रथः गरुडध्वजः ।रथस्याश्वाः शैव्यसुग्रीवमेघवाहनपुष्कराः इतिश्रीभागवतम्
*
अस्य पत्न्यः गोलोके वृन्दा-वने श्रीराधा वैकुण्ठे लक्ष्मीः इति ब्रह्म-वैवर्त्तम्
द्वारकायां रुक्मिणी जाम्बवती २सत्यभामा कालिन्दी मित्रविन्दा नाग्न-जिती भद्रा लक्ष्मणा एताः प्रधानाः ।अन्या अपि शताधिकषोडशसहस्राणि स्थिताः ।इति श्रीभागवतम्
*
व्रजस्थितस्यास्य सखाय-श्चतुर्व्विधाः तत्र किञ्चिद्वयसाधिकाः सुहृदोयथा सुभद्रः मण्डलीभद्रः भद्रवर्द्धनः ३गोभटः यक्षेन्द्रभटः भद्राङ्गः वीरभद्रः ७महागुणः विजयः बलभद्रः १० इत्याद्याः
वयसा न्यूनाः सखायो यथा विशालः वृषभः२ ओजस्वी देवप्रस्थः वरूथपः मणिबन्धः६ करन्धमः इत्याद्याः
वयसा तुल्याः प्रिय-सखायो यथा श्रीदामा सुदामा वसुदामकः३ किङ्किणी स्तोककृष्णः अंशुः भद्रसेनः ७विलासी पुण्डरीकविटङ्काक्षः कलविङ्कः १०इत्याद्याः
पूर्व्वतः श्रेष्ठा आत्यन्तिकरहस्येषु युक्ताःभावविशेषविशिष्टाः प्रियनर्म्मसखायो यथा ।सुवलः अर्ज्जुनः गन्धर्व्वः वसन्तः उज्ज्वलः५ इत्याद्याः
इति भक्तिरसामृतसिन्धुः
*
वृन्दावनस्थितस्य अस्य सख्यः शतकोटयः तत्रवेदमुनिदेवस्त्रियोऽपि कृष्णाराधानार्थं गोपाङ्गनारूपेण जाताः व्रजे अस्य नित्यप्रिया यथा ।राधा चन्द्रावली विशाखा ललिता ४श्यामा पद्मा शैव्या भद्रिका तारा ९विचित्रा १० गोपाली ११ धनिष्ठा १२ पालिका१३ खञ्जनाक्षी १४ मनोरमा १५ मङ्गला १६विमला १७ लीला १८ कृष्णा १९ शारी २०विशारदा २१ तारावली २२ चकोराक्षी २३शङ्करी २४ कुङ्कुमादयः २५ एतासां मध्येविशाखा ललिता पद्मा शैव्या एताश्चतस्रः सख्यः ।अन्या यूथाधिपाः तासां मध्ये राधादयोऽष्टौसुभगाः आसां राधात्रन्द्रावल्यौ श्रेष्ठे अनयो-रपि राधाधिका इत्युज्ज्वलनीलमणिः
*
अपि चन्द्रावली सुशीला तस्याः सह-चर्य्यः चतुर्द्दशसहस्राणि शशिकला अस्याःसहचर्य्यः षोडशसहस्राणि चन्द्रमुखी अस्याःसहचर्य्यः षोडशसहस्राणि माधवी अस्याःसहचर्य्यः एकादशसहस्राणि कदम्बमाला ६अस्याः सहचर्य्यः त्रयोदशसहस्राणि कुन्ती ७अस्याः सहचर्य्यः दशसहश्राणि यमुना अस्याःसहचर्य्यः चतुर्दशसहस्राणि जाह्ववी अस्याःसहचर्य्यः नवसहस्राणि पद्ममुखी १० अस्याःसहचर्य्यः नवसहस्राणि सावित्री ११ अस्याःसहचर्य्यः पञ्चदशसहस्राणि सुधामुखी १२अस्याः सहचर्य्यः चतुर्दशसहस्राणि शुभा १३अस्याः सहचर्य्यः चतुर्दशसहस्राणि पद्मा १४अस्याः सहचर्य्यः चतुर्दशसहस्राणि गौरी १५अस्याः सहचर्य्यः चतुर्द्दशसहस्राणि सर्व्वमङ्गला१६ अस्याः सहचर्य्यः षोडशहस्राणि सरस्वती१७ अस्याः सहचर्य्यः त्रयोदशसहस्राणि ।भारती १८ अस्याः सहचर्य्यः दशसहस्राणि ।अपर्णा १९ अस्याः सहचर्य्यः चतुर्दशसहस्राणि ।रतिः २० अस्याः सहचर्य्यः दशसहस्राणि गङ्गा२१ अस्याः सहचर्य्यः चतुर्दशसहस्राणि ।अम्बिका २२ अस्याः सहचर्य्यः षोडशसहस्राणि ।सती २३ अस्याः सहचर्य्यः त्रयोदशसहस्राणि ।नन्दिनी २४ अस्याः सहचर्य्यः दशसहस्राणि ।सुन्दरी २५ अस्याः सहचर्य्यः त्रयोदशसहश्राणि ।कृष्णप्रिया २६ अस्याः सहचर्य्यः षोडशसह-स्राणि मधुमती २७ अस्याः सहचर्य्यः चतु-र्दशसहस्राणि चम्पा २८ अस्याः सहचर्य्यःत्रयोदशसहस्राणि चन्दना २९ अस्याः सहचर्य्यःचतुर्दशसहस्राणि इति ब्रह्मवैवर्त्तपुराणम्
*
*
(महादेवः यथा, महाभारते १३ १७ ४४ ।“दीर्घश्च हरिकेशश्च सुतीर्थः कृष्ण एव च”
)व्यासः (अयन्तु द्वैपायनः वासव्यां सत्यवत्यां महर्षेःपराशराज्जातः कृष्णवर्णत्वात् कृष्णकलावतीर्णत्वाद्वा कृष्ण इत्यभिधीयते ।यथा, महाभारते १०५ १४ ।“यो व्यस्य वेदांश्चतुरस्तपसा भगवानृषिः ।लोके व्यासत्वमापेदे कार्ष्णात् कृष्णत्वमेव च”
)अर्ज्जुनः (अयन्तु तृतीयपाण्डवः अस्य दशनाम-स्वन्यतमं नाम यथा, महाभारते ४२ २२ ।“कृष्ण इत्येव दशमं नाम चक्रे पिता मम ।कृष्णावदातस्य सदा प्रियत्वाद् बालकस्य वै”
कृष्णो वर्णोऽस्यास्तीति नगन्ताद् गुणवचनेभ्योमतुपो लुगिति लुक्
) कोकिलः इति विश्वः
काकः इति मेदिनी
करमर्दकः इति शब्द-रत्नावली
वर्णविशेषः कालवर्णः तत्पर्य्यायः ।नीलः असितः श्यामः कालः श्यामल६ मेचकः बहुलः रामः शितिः १० इतिजटाधरः
तद्वति, त्रि इत्यमरः
(कर्षतिपापानि शरणागतानां बाहुलकात् कृषेर्नक् वर्णंविनापि णत्वञ्च परब्रह्म यथा, पौराणिकी-गाथायाम् ।“कृष्णेति मङ्गलं नाम यस्य वाचि प्रवर्त्तते ।मस्मीभवन्ति राजेन्द्र ! महापातककोटयः”
चन्द्रह्रासकरप्रथमादिपञ्चादशकलाक्रियारूपःप्रतिपदादिदर्शान्तात्मकपञ्चदशतिथ्यात्मकः का-लभेदोऽर्द्धमासः यथा, तिथितत्त्वे ३६ ।“चन्द्रवृद्धिकरः शुक्लः कृष्णश्चन्द्रक्षयात्मकः”
कृष्णपक्षाभिमानिदेवताविशेषः यथा, गीतायाम् ।“धूमो रात्रिस्तथाकृष्णः षण्मासा दक्षिणायनम्”
कृष्णसारमृगः यथा, महाभारते १३० १५ ।“धनुश्च सशरं दृष्ट्वा तथा कृष्णाजिनानि च”
अशुभकर्म्म वेदोक्तासुरविशेषः अयन्तु इन्द्रेणसगणो निहतः ऋषिविशेषः अयन्तु ऋग्वेदस्यअष्टममण्डलस्य ८५ -- ८७ सूक्तानि, तथा दशममण्डलस्य ४२ -- ४४ सूक्तानि प्रणिनाय
अथर्व्व-वेदान्तर्गतोपनिषद्विशेषः यथा, मुक्तिकोप-निषदि “गोपालतापनकृष्णहयग्रीवदत्तात्रेयगा-रुडानामथर्व्ववेदगतानामेकत्रिशत्सङ्ख्यकानां उप-निषदां भद्रं कर्णेभिरिति शान्तिः”
)