कृष (kRSa)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
In this section, you'll find information about the dhatus (verbal roots) related to your search. This includes details like dhatu information, forms, and any available commentaries.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
शब्दसागरः
Englishकृष r. 1st. cl. (आ) औकृश (कर्षति) and 6th cl (कृषति-ते)
1. To draw or make
furrows.
2. To plough. With अप, 1. To draw down.
2. To debase.
3.
To disregard. with अव, 1. To draw out or off.
2. To disregard or
contemn. With आङ्, To attract, to draw to. With उत्, 1. To raise,
to draw up.
2. To raise, to excite, to make high, proud, loud, &c.
With सम्, To draw together. With सम and नि, To bring near or
close to.
Spoken Sanskrit
English कृष kRSa husbandry
कृष kRSa ploughing
कृष kRSa ploughshare
कृष kRSa agriculture
Wilson
Englishकृष r. 1st cl. (आ) औकृश (कर्षति) and 6th cl.
(कृषति-ते)
1 To draw or make furrows.
2 To plough.
With अप,
1 To draw down.
2 To debase.
3 To disregard.
With अव,
1 To draw out or off.
2 To disregard or contemn.
With आङ्, To attract, to draw to.
With उत्,
1 To raise, to draw up.
2 To raise, to excite, to make high, proud, loud, &c.
With सम, To draw together.
With सम and नि, To bring near or close to.
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Shabdartha Kaustubha
Kannadaकृष - विलेखने (भ्वा० पर० सक० अनि०) कर्षति ।
पदविभागः - > धातुः
कन्नडार्थः - > ಸೆಳೆ /ಎಳೆ
कृष - विलेखने (तुदा० उभ० सक० अनि०) कृषति ।
पदविभागः - > धातुः
कन्नडार्थः - > ಆಕರ್ಷಿಸು /ಎಳೆ /ಸೆಳೆ
कृष - विलेखने (तुदा० उभ० सक० अनि०) कृषति ।
पदविभागः - > धातुः
कन्नडार्थः - > ಉಳು /ನೇಗಿಲು ಹೊಡೆ
धातुपाठः (Krishnacharya)
Sanskrit कृष्
कृष
विलेखने (विलेखनमाकर्षणम्)
तुदादिः
द्विकर्मकः
सेट्
परस्मैपदी
कृषति-ते
कृष्
कृष
विलेखने (विलेखनमाकर्षणम्)
तुदादिः
सकर्मकः
अनिट्
उभयपदी
कृषति-ते
धातुप्रदीपः
Sanskritकृषँ कृष विलेखने
- कर्षति । चकर्ष । चकृषतुः । कर्ष्टा ।क्रष्टा । अक्राक्षीत् । अकार्क्षीत् । अकृक्षत् ।कृषते। कृषतीति तु तुदादिपाठात् ।। 998 ।।
कृषँ कृष विलेखने
- कृषति कृषते क्रष्टा कर्ष्टा अकार्क्षीत् अक्राक्षीत् अकृक्षत् अकृक्षत अकृष्ट कर्षतीति भौवादिकस्य 6
शब्दकल्पद्रुमः
Sanskritकृष, औ आकृषि । विलेखने । इति कविकल्प-द्रुमः । (भ्वां-परं-सकं-अनिट् ।) औ, अकार्क्षीत्अकृक्षत् अक्राक्षीत् । आकृषि आकर्षणे । क-र्षन्ति तुरगा रथम् । इति दुर्गादासः ॥
(यथा, मनुः ३ । ६६ ।“मन्त्रतस्तु समृद्धानि कुलान्यल्पधनान्यपि ।कुलसङ्ख्याञ्च गच्छन्ति कर्षन्ति च महद्यशः” ॥
आखुकर्णीशब्दे ऽस्या विशेषो ज्ञेयः ॥
)
वाचस्पत्यम्
Sanskritकृष विलेखने आकर्षणे च तुदा० आ० अनिट् । कृषते ।अकृक्षत--अकृष्ट । चकृषे चकृषिषे । क्रष्टा क्रक्षीष्टक्रक्ष्यते । कर्षणम् । प्रनिकृषते ।
कृष विलेखने आकर्षणे च अनिट् । कर्षतिअक्राक्षीत्--अकार्क्षीत्--अकृक्षत् । चकर्ष चकर्षिथ चकृ-षिव । क्रष्टा कृष्वात् क्रक्ष्यति । कर्म्मणि कृष्यते अकर्षिअकृक्षाताम् अकृषाताम् । कृष्यः कर्षणीयः क्रष्टव्यः । क्रष्टाकर्षकः कर्षी कर्षन् कृष्यमाणः । क्रक्ष्यन् क्रक्ष्यमाणः ।कृष्टः कृष्टिः कृष्ट्वा अनुकृष्य । कर्षः कर्षणम् ।अनु + पूर्वस्थितस्य पदादेः उत्तरवाक्ये योजनार्थे अनुसन्धानेअनुषङ्गे अनुकर्षति । अनुकर्षशब्दे विवृतिःअप + हीनताकरणे स्वकालात् पूर्व्वत्र काले करणे च अपकर्षति अपकर्षसपिण्डनम् । अपकृष्टः । अप-कर्षशब्दे विवृतिःअप + आ + निवर्त्तने । “तमशक्यमपाक्रष्टुं निदेशात्स्वर्गिणः पितुः” रषुः ।अभि + आभिमुख्येन कर्षणे अभिकर्षति ।अव + अधःस्थतया कर्षणे । अवकर्षतिआ + विषयान्तरतोनयने । आकर्षतिउद् + अतिशायने प्राधान्यप्रापणे स्वकालात् उत्तरकालकरणेआकर्षणे च । उत्कर्षन्त्यां च रशनां क्रुद्धायांमयि पक्षिणे” रामा० ल० ३८, १४ । उत्कर्षशब्दे विवृतिःनिस् + निर् + निस्मारणे निश्चये च । निष्कर्षति “नि-क्रष्टुमर्थं चकमे कुबेरात्” रघुः । तदयं निष्वर्षःप्र + अतिशयेन कर्षणे उत्तमतावाने प्रकर्षति प्रकृष्टःप्रकर्षः पाधान्थभवने अक० “इदं तु मम दीनस्य मनोभूयःप्रकर्षति” रामा० सु० १, १, सम् + सम्यक्र्षणे सङ्कर्षणम् ।सम् + आ + सम्यक्तया दूरपर्य्यन्तनयने । समाकर्षति समाकर्षी ।कृषधातुर्न्यादिपाठात् द्विकर्म्मकः । कर्षणञ्च भूमिसंयो-जनेन बलेन देशान्तरसंयोगानुकूलव्यापारानुकूलव्यापारःतेनास्य द्विव्यापारबोधकतया द्विकर्म्मकत्वम् । ग्राम-मजां कर्षति इत्यादौ अकथितञ्चेत्यादि पा० अजादेःकर्म्मत्वम् । अत्र प्रधाने कर्म्मण्येव वाच्ये लकारादयः ।“प्रधाने नीकृष्वहाम्” भर्त्तृहर्य्युक्तेः । अजा ग्रामं कृष्य-ते । विलेखनञ्च विदारणं तत्रार्थे न द्विकर्म्मकतेति भेदः
क्षीरतरङ्गिणी
Sanskritकृषँ कृष विलेखने
- (अर्थविवरणम्) विलेखनं हलोत्किरणम्
कर्षति तुदादौ (66) कृषति स्पृशमृषकृषतृपदृपां सिज्वा (3144 वा0) अक्राक्षीत्, अकार्क्षीत्, पक्षे क्सः अकृक्षत् उरृद् (747) वा अचकर्षत् अचीकृषत् नन्द्यादौ (गण0 31134) संकर्षणः अचि (द्र0 31134) कर्षः, आकर्षो द्यूतफलकम् सप्तम्यां चोपपीडरुधकर्षः (3449) भ्राष्ट्रोपकर्षं धानाः खादति कृषिचमितनि (उ0180) इत्यूः-कर्षूः इक् कृष्यादिभ्यः (2108 वा0) कृषिः कृषेर्वृद्धिश्चोदीनाम् (उ0 238) कर्षकः कार्षकः व्रश्चिकृषोः किकन् (द0 उ0 312) कृषिकः कृषेरादेश्च चः (द0उ0 14) चर्षणिर्वेश्या कृषेर्वर्णे (उ0 34) नक् कृष्णः 961
कृषँ कृष विलेखने
- कृषति, कृषते अनुदात्तस्य चर्दु पधस्यान्यतरस्याम् (6159) अम्-कर्क्ष्यति क्रक्ष्यति स्पृशमृशकृषतृपदृपः सिज्वा (3144 वा0)-अकृक्षत् अक्राक्षीत्, अकार्क्षीत् भ्वादौ (1717) कर्षति तत्रैव ग्रहणान्युक्तानि कृश तनूकरणे तु दिवादिः (4120) तालव्यान्तः 6
धातुवृत्तिः
Sanskritकृषँ कृष (अर्थः) विलेखने
(अर्थविवरणम्) विलेखनमिहाकर्षणं
, तथा च पुरुषकारे कर्षतिश्चाकर्षणे प्रसिद्ध इति द्विकर्मकोऽयं, कर्षति शाखां ग्रामम् ( चकर्ष चकृषतुः चकर्षिथ चकृषिव क्रष्टा कर्ष्टा) "अनुदात्तस्य चर्दुपधस्य'' इत्यत्राम्विकल्पः ( कर्क्ष्यति क्रक्ष्यति कर्षतु अकर्षत् कर्षेत् कृष्यात् अकृक्षत् अकृक्षताम् ) "शल इगुपधा'' इति क्सः यदा"स्पृशमृशकृषतृपदृपां सिज्वा'' इति सिच् तदा पूर्वमेवामागमविकल्पे हलन्तलक्षणायां वृद्धौ ( आकार्क्षीत् आकार्ष्टाम् अक्राक्षीत् अक्राष्टामित्यादि चिकृक्षति ) "हलन्ताच्च'' इति सनः कित्त्वान्न गुणो नाप्यमागमः ( चरिकृष्यते चरिकर्ष्टि चरिक्रष्टि चरिकृषीति चरीकृष्टः चरिक्रष्ट इत्यादि ) लोटि हेर्धित्वष्टुत्वजश्त्वयोरमागमपक्षे ( चरीक्रष्टि ) लङि तिप्सिपोः हल्ङ्यादिलोपे च अचरीकर्ट् अमागमपक्षे अचरीक्रट् एवं वचनान्तरेषु सर्वेषु रिक्रीकोश्च उदाहार्यम् कर्षयति शाखां ग्रामं देवदत्तं यज्ञदत्तः ( अचीकृषत् अचकर्षत् ) "उरृद्वा'' अत्र कृषेः प्रापणार्थत्वेऽपि अस्ति फलतया गतेः प्रतीतिरिति गत्यर्थत्वात् "गतिबुद्धि'' इति प्रयोज्यस्य कर्मत्वम्, अत्र ग्रहणमुपसर्जनीभूतयापि गत्या तदर्थत्वे लिङ्गम्, अन्यथा ण्यन्तस्य गमनार्थ इति किं णिग्रहणेन अत एव तत्र नीवह्योः प्रतिषेधः कृतः कर्मणि लादयो नयत्यादिवन्नेयाः ( कृष्यम् ) "ऋदुपधाच्च'' इति क्यप्कर्षतीति कृषः इगुपधलक्षणः कः पाण्युपकर्षं पयः पिबति, पाणिना उपकृष्य, पाणावुपकृष्य वा पयः पिबतीत्यर्थः "सप्तम्यां चोपपीडरुधकर्ष'' इति सप्तम्यरन्ते चशब्दात् तृतीयान्ते च उपपदे उपपूर्वात् अस्मात् णमुल् तृतीयाप्रभृतित्वात् समासविकल्पनात् पाणावुपकर्षम्, पाणिनोपकर्षमित्यपि भवति क्रियाभेदेन वासरूपेण क्त्वापि भवतीति प्रागेवोक्तम् अत्र णमुल्विधावुपसर्गग्रहणं पीडेरेव विशेषणमिति भाववृत्तौ, भट्टिकारस्त्वतन्त्रं मन्यते यदाह धनु ररिभिरसह्यमुष्टिपीडं दधान इति इदं तावत् साहसमात्रं, यदाचार्येण प्रयुक्तस्यातन्त्रत्वादङ्गीकरणं, यदपि पीडिनैव संबंधकथनं तदपि न न्याय्यं, बहूच्कस्यास्य पूर्वनिपातायोगात्, अत एव वृत्तिन्यासपदमञ्जर्यादिषु संबुन्धोऽङ्गीकृतः कर्ष्टा शाखां, क्रष्टा शाखाम् अत्र तृनि "ञ्नित्यादेर्नित्यम्'' इति प्रकृतेराद्युदात्तत्वेऽप्युपदेशावस्थायां कृषेरनुदात्तत्वात् अमागमविधौ चोपदेशग्रहणानुवर्त्तनात् पक्षे ऽमागमो भवत्येव अयं तुदादावपि 970
कृषँ कृष (अर्थः) विलेखने
( कृषति कृषते चकर्ष चकर्षतुः चकर्षिथ चकर्ष चकृषिव चकृषे चकृषाते चकृषिष ) इत्यादि क्रष्टा कर्ष्टा1 क्रक्ष्यति कर्क्ष्यति क्रक्ष्यते कर्क्ष्यते )झल्यकिति "अनुदात्तस्य चर्दुपधस्य'' इति पाक्षिके अमागमे यणादेशः ( कृषतु कृषताम् अकृषत् अकृषत कृषेत् कृषेताम् कृषेत कृषेयाताम् आशिषि (कृष्यात् कृक्षीष्ट) "लिङ्सिचावात्मनेपदेषु'' इति कित्त्वान्नामागमो नापि गुणः (अकृक्षत् अकृक्षताम् अकृक्षन् अकृक्षत अकृक्षाताम् अकृक्षन्त) "क्सस्याचि'' इत्यल्लोपः अजादौ "शल इगुपधात्'' इति क्सः अकार्क्षीत् अकार्ष्टाम् अकार्क्षुः अकृष्ट अकृक्षाताम् अकृक्षत) "स्पृशमृषकृष'' इति पक्षे सिच् झलि तस्य लोपः"वदव्रज'' इति परस्मैपदे वृद्धिः पूर्ववदमागमविकल्पः आत्मनेपदे तु "लिङ्सिचौ'' इति कित्वान्नामागमः अत एव न गुणः (चिकृक्षति) "हलन्ताच्च'' इति सनः कित्वान्नामागमो नापि गुणः ( चरीकृष्यते चरीकृष्टि ) इत्यादि ( कर्षयति अचकर्षत् अचीकृषत् ) उरृद्वा ( कृषिः ) "इक्कृष्यादिभ्यः'' इति इक् ( कृषीवलः) "रजःकृष्यासुति'' इति मत्वर्थे वलच् "वले'' इति दीर्घः'' ( सङ्कर्षणः ) नन्द्यादित्वात् ल्युः ( कृषकः ) "क्वुन् शिल्पिसंज्ञयोः'' इति क्वुन् "सप्तम्यां चोपपीङ'' इत्यत्र कर्षेरिदंग्रहणं न कृषेरिति वृत्तिः आत्रेयस्तु व्याख्यानकृन्मतमेतत्, विशेषाभावादिति हरदत्तस्तु विशेषमाह यदाह यद्यप्युभयोरपि विलेखने पाठस्तथापि तौदादिकस्य क्षेत्रविषये विलेखने वृत्तिः, तेन क्षेत्रे उपकृष्य हलेनोपकृष्य, तौदादिकात् कृत्वाप्रत्यय एव भवति न णमुलिति न्यासकारोऽपि कर्ष इति शपा निर्देशाद्भौवादिकस्य ग्रहणमित्याह तुदादयोऽनुदात्ताः स्वरितेतः 6
कृदन्तरूपमाला
Sanskrit1 {@“कृष विलेखने”@} 2 विलेखनम् = आकर्षणम्।
हलोत्किरणमिति क्षीरस्वामी।
‘कर्षत्याकर्षणे, शे तु कृषते कृषतीत्युभे।’ 3 इति देवः।
कर्षकः-र्षिका, कर्षकः-र्षिका, 4 चिकृक्षकः-क्षिका, चरीकृषकः-षिका
5 क्रष्टा-कर्ष्टा-ष्ट्री, कर्षयिता-त्री, चिकृक्षिता-त्री, चरीकृषिता-त्री
कर्षन्-न्ती, कर्षयन्-न्ती, चिकृक्षन्-न्ती
-- क्रक्ष्यन्-कर्क्ष्यन्-न्ती-ती, कर्षयिष्यन्-न्ती-ती, चिकृक्षिष्यन्-न्ती-ती
6 व्यतिकर्षमाणः, कर्षयमाणः, -- चरीकृष्यमाणः
व्यतिक्रक्ष्यमाणः व्यतिकर्क्ष्यमाणः, कर्षयिष्यमाणः, -- चरीकृषिष्यमाणः
कृट्-कृड्-कृषौ-कृषः
-- -- कृष्टः-ष्टम्-ष्टवान्, कर्षितः, चिकृक्षितः, चरीकृषितः-तवान्
7 8 कृषः-कर्षः, 9 अमन्दकर्षी, 10 कर्षः, 11 सङ्कर्षणः, चिकृक्षुः, चरीकृषः
क्रष्टव्यम्-कर्ष्टव्यम्, कर्षयितव्यम्, चिकृक्षितव्यम्, चरीकृषितव्यम्
कर्षणियम्, कर्षणीयम्, चिकृक्षणीयम्, चरीकृषणीयम्
12 कृष्यम्, कर्ष्यम्, चिकृक्ष्यम्, चरीकृष्यम्
ईषत्कर्षः-दुष्कर्षः-सुकर्षः
-- -- कृष्यमाणः, कर्ष्यमाणः, चिकृक्ष्यमाणः, चरीकृष्यमाणः
कर्षः, निष्कर्षः, कर्षः, चिकृक्षः, चरीकृषः
क्रष्टुम्-कर्ष्टुम्, कर्षयितुम्, चिकृक्षितुम्, चरीकृषितुम्
कृष्टिः, 13 कृषिः, कर्षणा, चिकृक्षा, चरीकृषा
कर्षणम्, कर्षणम्, चिकृक्षणम्, चरीकृषणम्
कृष्ट्वा, कर्षयित्वा, चिकृक्षित्वा, चरीकृषित्वा
विकृष्य-आकृष्य, सङ्कर्ष्य, सञ्चिकृक्ष्य, सञ्चरीकृष्य
14 पाण्युपकर्षं-पाणावुपकर्षं-पाणिनोपकर्षं 15
16 द्व्यङ्गुलोत्कर्षं 17, द्व्यङ्गुलेनोत्कर्षं18द्व्यङ्गुले उत्कर्षं, कर्षम् २, कृष्ट्वा २, कर्षम् २, कर्षयित्वा २, चिकृक्षम् २, चिकृक्षित्वा २, चरीकृषम् २
चरीकृषित्वा २। 19 नक् प्रत्ययः।
‘रषाभ्यां नो णः समानपदे’ 20 इति णत्वम्।
भक्तानामार्तिं कर्षतीति कृष्णः इति व्युत्पत्तिः।]] कृष्णः, 21 22
01 (२५५)
02 (१-भ्वादिः-९९०। सक। अनि। पर।)
03 (श्लो। १७८)
04 [[२। ‘हलन्ताच्च’ (१-२-१०) इति सनः कित्त्वम्। ‘षढोः कः सि’ (८-२-४१) इति कः। सनः कित्त्वात्, अमागमविधायके ‘अकिति’ इत्युक्तेः अमागमो न। एवं सन्नन्ते सर्वत्र ज्ञेयम्।]]
05 [[३। ‘अनुदात्तस्य चर्दुपधस्यान्यतरस्याम्’ (६-१-५९) इत्यङ्गस्यामागमः। यण्।]]
06 [[४। ‘कर्तरि कर्मव्यतीहारे’ (१-३-१४) इति शानच्।]]
07 [पृष्ठम्०२५५+ २४]
08 [[१। पचदिषु (३-१-१३४) पाठत् ‘कर्षः’ इति क्षीरतरङ्गिणी। इगुपधलक्षणे (३-१-१३५) कप्रत्यये ‘कृषः’ इति माधवधातुवृत्तौ।]]
09 [[२। ‘सुप्यजातौ णिनिस्ताच्छील्ये’ (३-२-७८) इति णिनिः।]]
10 [[आ। ‘तान् लक्ष्मणः सन्नतवामजङ्घो जघान शुद्धेषुरमन्दकर्षी।।’ भ। का। २-३१।]]
11 [[३। नन्द्यादिपाठात् (३-१-१३४) ण्यन्ताम् कर्तरि ल्युः।]]
12 [[४। ‘ऋदुपधात्--’ (३-१-११०) इति क्यप्।]]
13 [[५। ‘इक् कृष्यादिभ्यः’ (वा। ३-३-१०८) इति भावे इक् प्रत्ययः।]]
14 [[६। ‘सप्तम्यां चोपपीडरुधकर्षः’ (३-४-४९) इति णमुल्। ‘तृतीयाप्रभृतीन्यन्यतर- स्याम्’ (२-२-२१) इति समासविकल्पः।]]
15 (धानाः संगृह्णाति)
16 [[७। ‘प्रमाणे च’ (३-४-५१) इति णमुल्। पूर्ववत् समासविकल्पः।]]
17 [इक्षुखण्डं च्छिनत्ति]
18 [वा]
19 [[८। औणादिकः [द। उ। ५-३७]
20 (८-४-१)
21 [[B। ‘कृत्वा स कृत्यं दशनांशुगौरं कृष्णं ययौ दैत्यनिदाघमेघम्।।’ धा। का। २-४०।]]
22 [पृष्ठम्०२५६+ २५]
1 {@“कृष विलेखने”@} 2 ‘कर्षत्याकर्षणे, शे तु कृषते कृषतीत्युभे।’ 3 इति देवः।
कर्षकः-र्षिका, कर्षकः-र्षिका, चिकृक्षकः-क्षिका, चरीकृषकः-षिका
इत्यादीनि सर्वाण्यपि रूपाणि भौवादिककृषधातुवत् 4 ज्ञेयानि।
5 कृषन् 6 -न्ती-ती, 7 क्रक्ष्यन्-कर्क्ष्यन्-न्ती-ती, कृषमाणः, इति रूपाणीति विशेषः।
‘सप्तम्यां चोपपीडरुधकर्षः’ 8 इति णमुलस्य धातोर्न
तत्र सूत्रे शपा निर्देशात् इति न्यासकारधातुवृत्तिकारादयः।
क्षीरस्वामी तु उभयोरपि ग्रहणं मन्यते।
01 (२५६)
02 (६-तुदादिः-१२८६। सक। अनि। उभ।)
03 (श्लो। १७८)
04 (२५५)
05 [[१। ‘तुदादिभ्यः शः’ (३-१-७७) इति शः विकरणप्रत्ययः। शस्य ङिद्वद्भावात् अङ्गस्य गुणो न। स्त्रियाम्, ‘आच्छीनद्योर्नुम्’ (७-१-८०) इति नुम् विकल्पेन।]]
06 [[आ। ‘तुदन् कुचरितान् शुभे प्रणुदमान इष्टं दिशन् प्रमृष्टपललान् क्षिपन् अरिमतिं कृषन् माधवः।’ धा। का। २-७२।]]
07 [[२। ‘अनुदात्तस्य च ऋदुपधस्यान्यतरस्याम्’ (६-१-५९) इति अकिति झलादौ प्रत्यये अमागमः सर्वत्र विकल्पेन।]]
08 (३-४-४९)
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
