| YouTube Channel

कृमिजं (kRmijaM)

 
शब्दकल्पद्रुमः
Sanskrit
कृमिजं,
क्ली,
(कृमिभ्यो जायते इति अन्येभ्योपीतिडः ।) अगुरु
इत्यमरः १२६
(कृमि-जातमात्रे, त्रि यथा, पञ्चतन्त्रे १०३ ।“कौषेयं कृमिजं सुवर्णमुपलाद्दूर्व्वापि गोरोमतः ।पङ्कात्तामरसं शशाङ्क उदधेरिन्दीवरं गोमयात्”
अस्य पर्य्याया यथा ।“अगुरु प्रवरं लोहं राजार्हं योगजन्तथा ।वंशिकं कृमिजं वापि कृमिजग्धमनार्य्यकम्”
इति भावप्रकाशस्य पूर्व्वखण्डे प्रथमे भागे
गुणाश्चास्यागुरुशब्दे ज्ञातव्याः
)