| YouTube Channel

कृमिकर्ण्णक (kRmikarNNaka)

 
वाचस्पत्यम्
Sanskrit
कृमिकर्ण्ण(क)
पु०
कृमियुक्तः कर्ण्णोयत्र वा कप् सुश्रुतोक्तेकर्ण्णरोगभेदे “यदा तु मूर्च्छन्त्यथवापि जन्तवःसृजन्त्यपत्यान्यथवापि मक्षिकाः तदञ्जनत्वात् श्रवणोनिरुच्यते भिषग्भिराद्यैः कृमिकर्ण्णकस्तु सः” “कृमि-कर्ण्णप्रतीनाहौ विद्रधिर्द्विविधस्तथा” “कृमिकर्ण्णक-नाशार्थं कृमिघ्नं योजयेद्विधिम्” इति सुश्रु०