कृपू (kRpU)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
In this section, you'll find information about the dhatus (verbal roots) related to your search. This includes details like dhatu information, forms, and any available commentaries.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Shabdartha Kaustubha
Kannadaकृपू - सामर्थ्ये (भ्वा० आत्म० अक० से०) कल्पते ।
पदविभागः - > धातुः
कन्नडार्थः - > ಕಲ್ಪಿಸು /ಏರ್ಪಡಿಸು /ಸಿದ್ಧಪಡಿಸು
प्रयोगाः - > "कल्पिष्यसे हरेः प्रीतिर्लङ्कां चोपहनिष्यते"
उल्लेखाः - > भट्टि० १६-१२
धातुपाठः (Krishnacharya)
Sanskrit कृप्
कृपू
सामर्थ्ये (कल्पने)
भ्वादिः
अकर्मकः
वेट्
परस्मैपदी
कल्पते
ऊदित्
टिप्पनी: कृप, ऊ ङ व ऌ कल्पने । इति कविकल्पद्रुमः ॥ (भ्वां--आत्मं--अकं--सेट् ।) सप्तमस्वरी । कल्पनं सामर्थ्यम् । ऊ, अकल्पिष्ट अक्लप्त । ङ, कल्पते कल्पवृक्षवदिति हलायुधः ॥ व, कल्प्स्यति चिकॢप्सति । ऌ, अकॢपत् । हते तस्मिन् प्रियं श्रुत्वा कल्प्ता प्रीतिं परां प्रभुरिति अनेकार्थत्वेऽन्तर्भूतञ्यर्थत्वात् जनयितेत्यर्थः । इति दुर्गादासः ॥
धातुप्रदीपः
Sanskritकृपूँ कृपू सामर्थ्ये
- कल्पते । चक्लृपे । कल्पितासे ।कल्प्तासे । कल्प्तासि । कल्प्स्यति । कल्पिष्यते । कल्प्स्यते । अक्लृपत् । अकल्पिष्ट ।अक्लृप्त । चिक्लृप्सते चिकल्पिषते । चिक्लृप्सति ।चलीक्लृप्यते । क्लृप्तः । प्रक्लृप्तिः । कल्पः । प्रकल्पना ।। 765 ।।
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
क्षीरतरङ्गिणी
Sanskritकृपूँ कृपू सामर्थ्ये
- कृपे रो लः (कातन्त्र 3898) कल्पते अत् अकल्पिष्ट कल्प्स्यति कल्पिष्यते चिक्लृप्सति चिकल्पिषते लुटि च क्लृपः (1393) इति वा परस्मैपदम् तासि च क्लृपः (7260) इति नेट्-कल्प्ततासि कल्पितासे कल्प्तुम् कल्पितुम् क्लुप्तम् ऋदुपधाच्चाक्लृपिचृतेः (31117) इति निषेधाण्ण्यत-कल्प्यम् कॄतॄकृपिभ्यः कीटन् (उ0 4189) कृपीटं वारि चुरादौ कृपेस्तादर्थ्ये (10 186) आगर्वीयः-कल्पयते 740
धातुवृत्तिः
Sanskritकृपूँ कृपू (अर्थः) सामर्थ्ये
( कल्पते चक्लृपे चक्लृपिषे चक्लप्से ) इत्यादि स्यन्दिवत् विशेषस्तु "लुटि च क्लृप'' इति लुटि स्यसनोरित्यत्र परस्मैपदं तदा "तासि चक्लृपः'' इति लुटि सकारादावनिट्त्वं च ( कल्प्ता कल्पतासीति ) पूर्ववदिदमूदिल्लक्षणं विकल्पं बाधते अत्र चात्मनेपदेन सन्पदस्थस्येति स्थितमिति सन्नन्तात्कृति परस्मैपदे लुकि च निषेधो भवति ( चिक्लृप्सिता चिक्लृप्सेत्यादि ) "हलन्ताच्च'' इति सनः कित्त्वान्न गुणः तथा यदा लिङ्सिचोरात्मनेपदे इडभावस्तदा "लिङ्सिचावात्मनेपदेषु'' इति कित्त्वान्न गुणः ( क्लृप्सीष्ट अक्लृप्ता अक्लृप्सातामित्यादि ) इद्पक्षे ( कल्पिषीष् ) अकल्पिष्टेत्यादि ) "कृपो रो लः'' इति रेफस्य लत्वम् तत्र वर्णात्मकस्य रेफस्य वर्णात्मको लकारः, यस्त्ववर्णात्मक ऋकारस्तस्यावर्णात्मक लृकारस्तत्र स्थान्यादेशयोः वर्णैकदेशयोः निर्देष्टुमशक्यत्वात् ऋकारस्य लृकारः सम्बध्ये चल्कलिप्त च्लिकलिप्त चलीक ) इत्यादौ रिग्रीग्रुकामपि कृपो भक्ततृर्वेन तद्रुत्वाल्लत्वं भवति तथा ह्मुक्तम् "अदसोद्रेः पृथङ् मुत्वं केचिदिच्छन्ति लत्ववतिति द्दुतादीनां यङ्लुगन्तानां लुङ्यङ् नास्ति "पुषदिद्यु तादि'' इति गणनिर्देशात् तेन (अदोद्योतीत्) इत्येव भवति सिजपेक्षोत्र गुणो नाजादिपिदपेक्षः तथा यङ्लुगन्तानां "न वृद्भ्यः'' इति हण्निषेधोपि गणनिर्देशान्न्भवति ( वरीवर्त्तिष्यतीत्यादेव) कृपेस्तु गुणनिर्देशाभावात् "तासि च क्लृप'' इति इण्निषेधो भवत्त्येव ( च ल्क्लृप्तासीत्यादि ) द्युतादय उदात्ता अनुदात्तेतः 750
कृदन्तरूपमाला
Sanskrit1 {@“कृपू सामर्थ्ये”@} 2 वृतादिः।
सामर्थ्यम् = शक्तिः, योग्यता वा।
‘कल्पते शपि सामर्थ्ये, कल्पयत्यवकल्कने।
अदन्तस्य कृपेर्णौ तु दौर्बल्ये कृपयेदिति।।’ 3 इति देवः।
4 कल्पकः-ल्पिका, कल्पकः-ल्पिका, 5 चिकॢप्सकः-प्सिका, 6 चलीकॢपकः-पिका
7 कल्पिता-कल्प्ता-त्री, कल्पयिता-त्री, चिकॢप्सिता-त्री, चलीकॢपिता-त्री
-- कल्पयन्-न्ती, 8 चिकॢप्सन्-न्ती
-- 9 कल्प्स्यन्-न्ती-ती, कल्पयिष्यन्-न्ती-ती, चिकॢप्सिष्यन्-न्ती-ती
-- कल्पमानः, कल्पयमानः, 10 चिकल्पिषमाणः-चिकॢप्समानः, चलीकॢप्यमानः
कल्पिष्यमाणः कल्प्स्यमानः कल्पयिष्यमाणः, चिकल्पिषिष्यमाणः चिकॢप्सिष्यमाणः चलीकॢपिष्यमाणः
सुकॢप्-सुकॢपौ-सुकॢपः
-- -- -- 11 12 कॢप्तम् 13 -कॢप्तः-कॢप्तवान्, कल्पितः, चिकॢप्सितः, चलीकॢपितः-तवान्
14 कॢपः, 15 कल्पनः, कल्पः, चिकॢप्सुः, चलीकॢपः
कल्पितव्यम्-क्ल्प्तव्यम्, कल्पयितव्यम्, चिकॢप्सितव्यम्, चलीकॢपितव्यम्
कल्पनीयम्, कल्पनीयम्, चिकॢप्सनीयम्, चलीकॢपनीयम्
16 कल्प्यम्, कल्प्यम्, चिकॢप्स्यम्, चलीकॢप्यम्
ईषत्कल्पः-दुष्कल्पः-सुकल्पः
-- -- -- कॢप्यमानः, कल्प्यमानः, चिकॢप्स्यमानः-चिकल्पिष्यमाणः, चलीकॢप्यानः
कल्पः विकल्पः, कल्पः, चिकॢप्सः, चलीकॢपः
कल्पितुम्-कल्प्तुम्, कल्पयितुम्, चिकॢप्सितुम्, चलीकॢपितुम्
कॢप्तिः, कल्पना, चिकॢप्सा, चलीकॢपा
कल्पनम्, कल्पनम्, चिकॢप्सनम्, चलीकॢपनम्
17 कल्पित्वा-कॢप्त्वा, कल्पयित्वा, चिकॢप्सित्वा, चलीकॢपित्वा
प्रकॢप्य, प्रकल्प्य, प्रचिकॢप्स्य, प्रचलीकॢप्य
कल्पम् २, कल्पित्वा-कॢप्त्वा २, कल्पम् २, कल्पयित्वा, २, चिकॢप्सम् २, चिकॢप्सित्वा २, चलीकॢपम् २
चलीकॢपित्वा २
18 कृपणः।
01 (२५२)
02 (१-भ्वादिः-७६२-अक। वेट्। आत्म।)
03 (श्लो। १३५)
04 [[१। ‘कृपो रो लः’ (८-२-१८) इति लत्वम्।]]
05 [[२। ऊदिल्लक्षणमिड्विकल्पं बाधित्वा, ‘तासि च कॢपः’ (७-२-६०) इति नित्यमि- ण्णिषेधः। ‘हलन्ताच्च’ (१-२-१०) इति सनः कित्त्वान्न गुणः। यद्यपि धातु- रूपप्रकाशिकायां अस्माद् धातोः सन्नन्तात् तव्यदादिषु ‘चिकल्पिषितव्यम् चिकॢप्सितव्यम्’ इति वैकल्पिकेड्घटितानि रूपाणि प्रदर्शितानि
\n\n तथापि ‘तासि च कॢपः’ (७-२-६०) इत्यत्र ‘परस्मैपदेषु’ इत्यनुवर्तमानस्य पदस्य ‘तङानयोरभावे’ इत्यर्थकतया नित्यमिण्णिषेधेन भाव्यम्। ‘स्वरतिसूति--’ (७-२-४४) इत्यादिना प्राप्तं वैकल्पिकेडागमं ‘तासि च कॢपः’ (७-२-६०) इति निषेधः बाधत एवेति, इडभावघटितरूपमेव साधु--इति प्रतिभाति। एवं सन्नन्ते सर्वत्र ज्ञेयम्।]]
06 [[३। ‘रीगृदुपधस्य च’ (७-४-९०) इति अभ्यासस्य रीगागमः। उभयत्र लत्वम्।]]
07 [[४। ‘स्वरतिसूतिसूयतिधूञूदितो वा’ (७-२-४४) इति ऊदित्त्वादिड्विकल्पः।]]
08 [[५। ‘लुटि च कॢपः’ (१-३-९३) इति परस्मैपदविकल्पः।]]
09 [[६। ‘लुटि च कॢपः’ (१-३-९३) इति स्यप्रत्यये विवक्षिते परस्मैपदविकल्पः।]]
10 [[७। ‘तासि च कॢपः’ (७-२-६०) इत्यत्र ‘परस्मैपदेषु’ इत्यस्य, ‘तङानयोरभावे’ इत्यर्थकत्वात्, अत्र ‘स्वरतिसूति--’ (७-२-४४) इत्यादिना इड्विकल्पः। एवं सन्नन्तात् यक्यपि ज्ञेयम्।]]
11 [पृष्ठम्०२५१+ २०]
12 [[१। ऊदित्त्वादिटो वैकल्पिकत्वेन, ‘यस्य विभाषा’ (७-२-१५) इति निष्ठायामिण्णिषेधः।]]
13 [[आ। ‘अशर्धनैर्गोपकुलैस्सहासौ ययौ कृवास्यन्दसुकॢप्तमोदैः।।’ धा। का। २-३।]]
14 [[२। ‘इगुपधज्ञा--’ (३-१-१३५) इति कर्तरि कः।]]
15 [[३। ‘अनुदात्तेतश्च हलादेः’ (३-२-१४९) इति तच्छीलादिषु कर्तृषु युच्।]]
16 [[४। ‘ऋदुपधाच्चाकॢपि--’ (३-१-११०) इति पर्युदासात् ण्यत्प्रत्यय एव।]]
17 [[५। इट्पक्षे, ‘न क्त्वा सेट्’ (१-२-१८) इति कित्त्वनिषेधाद् गुणः।]]
18 [[६। बाहुलकादौणादिके क्युन्प्रत्ययेऽनादेशे रूपम्। कित्त्वान्न गुणः। किञ्चिदपि यो न ददाति स एवमुच्यते।]]
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
