| YouTube Channel

कृपयमाणः (kRpayamANaH)

 
कृदन्तरूपमाला
Sanskrit
1 {@“कृप दौर्बल्ये”@} 2 अदन्तः।
‘कल्पते शपि सामर्थ्ये, कल्पयत्यवकल्कने।
अदन्तस्य कृपेर्णौ तु दौर्बल्ये कृपयेदिति।।’ 3 इति देवः।
4 कृपकः 5 -पिका, 6 चिकृपयिषकः-षिका
कृपयिता-त्री, चिकृपयिषिता-त्री
कृपयन्-न्ती, चिकृपयिषन्-न्ती
कृपयिष्यन्-न्ती-ती, चिकृपयिषिष्यन्-न्ती-ती
कृपयमाणः, चिकृपयिषमाणः
कृपयिष्यमाणः, चिकृपयिषिष्यमाणः
कृप्-कृपौ-कृपः
-- कृपितम्-तः, चिकृपयिषितः-तवान्
कृपः, चिकृपयिषुः
कृपयितव्यम्, चिकृपयिषितव्यम्
कृपणीयम्, चिकृपयिषणीयम्
कृप्यम्, चिकृपयिष्यम्
ईषत्कृपः-दुष्कृपः-सुकृपः
-- कृष्यमाणः, चिकृपयिष्यमाणः
कृपः, चिकृपयिषः
कृपयितुम्, चिकृपयिषितुम्
कृपणा, चिकृपयिषा
कृपणम्, चिकृपयिषणम्
कृपयित्वा, चिकृपयिषित्वा
7 प्रकृपय्य, प्रचिकृपयिष्य
8 कृपम् २, कृपयित्वा २, चिकृपयिषम्
चिकृपयिषित्वा २।
प्रासङ्गिक्यः
01
=>
(२५१)
02
=>
(१०-चुरादिः-१८७०। अक। सेट्। उभ।)
03
=>
(श्लो। १३५)
04
=>
[[१। अदन्तत्वेनातो लोपस्य स्थानिवद्भावात् लघूपधगुणो न।]]
05
=>
[[आ। ‘चहकमहितं नन्दं बद्ध्वाऽस्य सारयतो धनं हरत कृपकस्यारेस्तातं हत श्रथयत्तमम्।।’ धा। का। ३-५४।]]
06
=>
[[२। ण्यन्तात् सनि णेरयादेशः। अनेकाच्त्वात् यङ् न।]]
07
=>
[[३। ‘ल्यपि लघुपूर्वात्’ (६-४-५६) इति णेरयादेशः।]]
08
=>
[पृष्ठम्०२५०+ २६]