| YouTube Channel

कृन्तनं (kRntanaM)

 
शब्दकल्पद्रुमः
Sanskrit
कृन्तनं,
क्ली,
(कृत्यते इति कृत् + भावे ल्युट् ।)छेदनम् यथा, कर्म्मलोचने नारदवचनम्
“कृन्तनं नखकेशानां छेदनञ्च वनस्पतेः ।शावाशौचे कर्त्तव्यं पाठनं पठनन्तथा”
(तथा गीतगोविन्दे, ३२ ।“विगलितलज्जितजगदवलोकनतरुणकरुणकृतहा-से विरहिनिकृन्तनकुन्तमुखाकृतिकेतकिदन्तुरिताशे”
)