| YouTube Channel

कृत्रिमपुत्त्रः (kRtrimaputtraH)

 
शब्दकल्पद्रुमः
Sanskrit
कृत्रिमपुत्त्रः,
पुं,
(कृत्रिमश्चासौ पुत्त्रश्चेति ।) द्वादश-पुत्त्रमध्ये पुत्त्रविशेषः तथा मनुः ।“सदृशन्तु प्रकुर्य्याद्यं गुणदोषविचक्षणम् ।पुत्त्रं पुत्त्रगुणैर्युक्तं विज्ञेयश्च कृत्रिमः”
अस्यार्थः “यः पुनः समानजातीयं पित्रोःपार-लौकिकश्राद्धादिकरणाकरणाभ्यां गुणदोषौ भवतइत्येवमादिज्ञं पुत्त्रगुणैश्च मातापित्रोराराधनादि-भिर्युक्तं पुत्त्रं कुर्य्यात् कृत्रिमाख्यः पुत्त्रो बोध्यः” ।इति कुल्लूकभट्टः
पुत्तलिका यथा कुमारे २९ ।“सा कन्दुकैः कृत्रिमपुत्त्रकैश्चरेमे मुहुमध्यगता सखीनाम्”