| YouTube Channel

कृत्यादूषणी (kRtyAdUSaNI)

 
वाचस्पत्यम्
Sanskrit
कृत्यादूषणी स्त्री कृत्या दूषतेऽनया दूषि--ल्युट् ङीप् ।१ ओषधिभेदे “अथो वलासनाशनाः कृत्यादूषणीश्चयास्त्वा इहायान्त्वोषधीः” अथ० ८, ७, १० “अनयाऽहमो-षध्या सर्वाः कृत्या अदूदुषम्” १०, १, ४, आङ्गिरसे२ जङ्गिडे ऋषिभेदे
पु०
“अङ्गिरा असि जङ्गिड!रक्षितासि जङ्गिड!” इत्युपक्रमे “अक्षकृत्यास्त्रिपञ्चा-शीः शतं कृत्याकृतश्च ये सर्वान् विनष्टतेजसोऽरसांजङ्गिडस्करत्” इत्याद्युक्त्वा “कृत्यादूषण एवायमतोअरातिदूषणः” इत्युक्तम् अथ० १९, ३४, १,