| YouTube Channel

कृत्याकृत्य (kRtyAkRtya)

 
Monier Williams Cologne
English
कृत्याकृत्य
n.
what is to be done and what is not to be done, right and wrong,
Suśr.
Pañcat.
Sāh.
Apte Hindi
Hindi
कृत्याकृत्यम्
नपुं*
कृत्यः-अकृत्यम् -
कर्तव्य अकर्तव्य में (विवेक करना)
Shabdartha Kaustubha
Kannada
कृत्याकृत्य
पदविभागः - > नपुंसकलिङ्गः
कन्नडार्थः - > ಮಾಡಬೇಕಾದ ಮತ್ತು ಮಾಡಬಾರದ ಕೆಲಸ
व्युत्पत्तिः - > कृत्यं अकृत्यं अनयोः समाहारः
Edgerton Buddhist Hybrid
English
kṛtyākṛtya (= Pali kiccākicca
〔§ 23.12〕), all kinds of duties: Mv 〔i.279.18〕
〔280.18〕.
वाचस्पत्यम्
Sanskrit
कृत्याकृत्य
न०
द्वि० द्वन्द्व० कर्त्तव्याकर्त्तव्ययोः सुश्रुतोक्ते२ व्रणचिकित्साङ्गे कर्त्तव्याकर्त्तव्यविशेषे ते चकृत्याकृत्ये सुश्रुतेन दर्शिते यथा“अथातः कृत्याकृत्यविधिमध्यायं व्याख्यास्यामः तत्रवयस्थानां दृढानां प्राणवतां सत्ववताञ्च सुचिकित्स्या व्रणाएकस्मिन् वा पुरुषे यत्रैतद्गुणचतुष्टयं तस्य सुखसाधनी-यतमाः तत्र वयस्थानां प्रत्यग्रधातुत्वादाशु व्रणारो-हन्ति दृढानां स्थिरबहुमांसत्वाच्छस्त्रमवचार्य्यमाणंसिरास्नाय्वादिविशेषान्न प्राप्नोति प्राणवतां वेदनाभिघा-ताहारयन्त्रणादिभिर्न ग्लानिरुत्पद्यते सत्ववतां दारुणै-रपि क्रियाविशेषैर्न व्यथा भवति तस्मादेतेषां सुखसाध-नीयतमाः तएव विपरीतगुणा वृद्धकृशाल्पप्राणभीरुषुद्रष्टव्याः स्फिक्पायुप्रजननललाटगण्डौष्ठपृष्ठकर्णफल-कोषोदरजत्रु मुखाभ्यन्तरसंस्थाः सुखरोपणीया व्रणाः ।अक्षिदन्तनासापाङ्गश्रोत्रनाभिजठरसेवनीनितम्बपार्श्वकु-क्षिवक्षःकक्षास्तनसन्धिभागगताः सफेनपूयरक्तानिलवा-हिनोऽन्तःशल्याश्च दुश्चित्किस्याः अधोभागाश्चोर्द्ध्वभा-गनिर्वाहिनो रोमान्त्रोपनखमर्म्मजङ्घास्थिसंश्रिताश्च ।भगन्दरमपि चान्तर्मुखं सेवनीकुटकास्थिसंश्रितम् ।भवति चात्र कुष्ठिनां विषजुष्टानां शोषिणां मधु-मेहिनाम् व्रणाः कृच्छ्रेण सिध्यन्ति येषां चापि व्रणेव्रणाः अवपाटिकानिरुद्धप्रकाशसन्निरुद्धगुदजठरग्रन्थि-क्षतक्रिमयः प्रतिश्यायजाः कोष्ठजाश्च त्वग्दोषिणां प्रमे-हिनां वा ये परिक्षतेषु दृश्यन्ते शर्करासिकतामेहवात-कुण्डलिकाष्ठीलादन्तशर्करोपकुशकण्ठशालूकनिष्कोषणदू-षिताश्च दन्तवेष्टाविसर्पास्थिक्षतोरःक्षतव्रणग्रन्थिप्रभृत-यश्च याप्याः साध्या याप्यत्वमायान्ति याप्याश्चासाध्यतांतथा घ्नन्ति प्राणानसाध्यास्तु नराणामक्रियावताम् ।यापनीयं विजानीयात् क्रिया धारयते तु यम् क्रिया-यान्तु निवृत्तायां सद्य एव विनश्यति प्राप्ता क्रियाधारयति याप्यव्याधितमातुरम् प्रपतिष्यदिवागारं वि-ष्क्रम्भः साधुयोजितः अतऊर्द्ध्वमसाध्यान् वक्ष्यामः ।मांसपिण्डवदुद्गताः प्रसेकिनोऽन्तःपूयवेदनावन्तोऽश्वापा-नवदुद्धृतौष्ठाः केचित्कठिना गोशृङ्गवदुन्नतमृदुमां-सप्ररोहाः अपरे दुष्टरुधिरास्राविणस्तनुपिच्छिलास्राविणो वा मध्योन्नताः केचिदवसन्नशुषिरपर्य्यन्ताः ।शणतूलवत्स्नायुजालवन्तो दुर्दर्शा वसामेदोमज्जमस्तुलु-ङ्गस्राविणश्च दोषसमुत्थाः पीताऽसितमूत्रपुरीषवातवा-हिनश्च कोष्ठस्थाः क्षीणमांसानाञ्च सर्वतोगतयश्चाणुमुखामांसबुद्बुंदवन्तः सशब्दवातवाहिनश्च शिरःकण्ठस्याः ।क्षीणमांसानाञ्च पूयरक्तनिर्वाहिणोऽरोचकाविपाकका-सश्वासोपद्रवयुक्ताः भिंन्ने वा शिरः कपाले यत्र मस्तु-लुङ्गदर्शनं त्रिदोषलिङ्गप्रादुर्भावः कासश्वासौवा यत्रेति ।भवन्ति चात्र वसां मेदोऽथ मज्जानं मस्तुलुङ्गञ्च यःस्रवेत् आगन्तुस्तु व्रणः सिध्येन्न सिध्येद्दोषसम्भवः ।स मर्म्मोपहिते देशे सिरासन्ध्यस्थिवर्जिते विकारो योऽ-नुपर्य्येति तदसाध्यस्य लक्षणम् क्रमेणोपचयं प्राप्यधातूननुगतः शनैः शक्यडन्मूलयितुं वृद्धो वृक्षइवामयः स्थिरत्वान्महत्त्वाच्च धात्वनुक्रमणेन ।निहन्त्यौषधवीर्य्याणि मन्त्रान् दुष्टग्रहो यथा अतो योविपरीतः स्यात्सुखसाध्यः उच्यते अबद्धमूलः क्षुपकोयद्वदुत्पाटने सुखः त्रिभिर्दोषैरनाक्रान्तः श्यावौष्ठःपिडकीसमः अवेदनो निरास्रावो व्रणः शुद्ध इहो-च्यते कपोतवर्ण्णपतिमा यस्यान्ताः क्लेदवर्जिताः ।स्थिराश्चिपिटिकावन्तो रोहन्तीति तमादिशेत् रूढवर्त्मा-नमग्रन्थिमशूनमरुजं व्रणम् त्वक्सवर्ण्णं समतलं स-म्यग्रूढं विनिर्द्दिशेत् दोषप्रकोपाद्व्यायामादभिवाता-दजीर्णतः हर्षात्क्रोधाद्भयाद्वापि व्रणो रूढोऽपिदीर्य्यति”