| YouTube Channel

कृत्तिवासाः (kRttivAsAH)

 
Wordnet
Sanskrit
Synonyms:
शिवः, शम्भुः, ईशः, पशुपतिः, पिनाकपाणिः, शूली, महेश्वरः, ईश्वरः, सर्वः, ईशानः, शङ्करः, चन्द्रशेखरः, फणधरधरः, कैलासनिकेतनः, हिमाद्रितनयापतिः, भूतेशः, खण्डपरशुः, गिरीशः, गिरिशः, मृडः, मृत्यञ्जयः, कृत्तिवासाः, पिनाकी, प्रथमाधिपः, उग्रः, कपर्दी, श्रीकण्ठः, शितिकण्ठः, कपालभृत्, वामदेवः, महादेवः, विरूपाक्षः, त्रिलोचनः, कृशानुरेताः, सर्वज्ञः, धूर्जटिः, नीललोहितः, हरः, स्मरहरः, भर्गः, त्र्यम्बकः, त्रिपुरान्तकः, गङ्गाधरः, अन्धकरिपुः, क्रतुध्वंसी, वृषध्वजः, व्योमकेशः, भवः, भौमः, स्थाणुः, रुद्रः, उमापतिः, वृषपर्वा, रेरिहाणः, भगाली, पाशुचन्दनः, दिगम्बरः, अट्टहासः, कालञ्जरः, पुरहिट्, वृषाकपिः, महाकालः, वराकः, नन्दिवर्धनः, हीरः, वीरः, खरुः, भूरिः, कटप्रूः, भैरवः, ध्रुवः, शिविपिष्टः, गुडाकेशः, देवदेवः, महानटः, तीव्रः, खण्डपर्शुः, पञ्चाननः, कण्ठेकालः, भरुः, भीरुः, भीषणः, कङ्कालमाली, जटाधरः, व्योमदेवः, सिद्धदेवः, धरणीश्वरः, विश्वेशः, जयन्तः, हररूपः, सन्ध्यानाटी, सुप्रसादः, चन्द्रापीडः, शूलधरः, वृषाङ्गः, वृषभध्वजः, भूतनाथः, शिपिविष्टः, वरेश्वरः, विश्वेश्वरः, विश्वनाथः, काशीनाथः, कुलेश्वरः, अस्थिमाली, विशालाक्षः, हिण्डी, प्रियतमः, विषमाक्षः, भद्रः, ऊर्द्धरेता, यमान्तकः, नन्दीश्वरः, अष्टमूर्तिः, अर्घीशः, खेचरः, भृङ्गीशः, अर्धनारीशः, रसनायकः, उः, हरिः, अभीरुः, अमृतः, अशनिः, आनन्दभैरवः, कलिः, पृषदश्वः, कालः, कालञ्जरः, कुशलः, कोलः, कौशिकः, क्षान्तः, गणेशः, गोपालः, घोषः, चण्डः, जगदीशः, जटाधरः, जटिलः, जयन्तः, रक्तः, वारः, विलोहितः, सुदर्शनः, वृषाणकः, शर्वः, सतीर्थः, सुब्रह्मण्यः
noun
देवताविशेषः- हिन्दूधर्मानुसारं सृष्टेः विनाशिका देवता।
"शिवस्य अर्चना लिङ्गरूपेण प्रचलिता अस्ति।"
शब्दकल्पद्रुमः
Sanskrit
कृत्तिवासाः, [स्]
पुं,
(कृत्तिर्गजासुरस्य चर्म्म वासो-ऽस्य ।) शिवः इत्यमरः ३३
(यथा महादेवस्य चर्म्मवसनत्वं जातं तथाकाशीखण्डे ६४ अध्याये वर्णितं यथा, --“कोलाहलो महानासीत् त्रात त्रातेति सर्व्वतः ।महिषासुरपुत्त्रोऽसौ समायाति गजासुरः
प्रमघ्नन् प्रमथान् सर्व्वान् निजबीर्य्यमदोद्धतः ।यत्र यत्र धरायां चरणं प्रमिणोति हि
अचलान् दोलयाञ्चक्रे तत्र तत्रास्य भारतः ।उरुवेगेण तरवः पतन्ति शिखरैः सह
तस्य दोर्दण्डवातेन चूर्णाः स्युश्च शिलोच्चयाः ।यस्य मौलिजसंघर्षात् घना व्योम त्यजन्त्यलम्
नीलिमानं चाद्यापि जहुस्तत्केशसङ्गजम् ।यस्य निःश्वाससम्भारैरुत्तरङ्ग महाब्धयः
नाद्याप्यमन्दकल्लोला भवन्ति तिमिभिः सह ।योजनानां सहस्राणि नव यस्य समुच्छ्रयः
तावानेव हि विस्तारस्तनोर्मायाविनोऽस्य हि ।यन्नेत्रयोः पिङ्गलिमा तथा तरलिमा पुनः
विद्युता नोह्यतेऽद्यापि सोऽयमायाति सत्वरः ।यां यां दिशं समभ्येति सोयं दुःसहदानवः
नाद्य समीभवेदस्य साध्वसादिव दिग्भयम् ।ब्रह्मलव्धवरश्चायं तृणीकृतजगत्त्रयः
अवध्योऽहं भवामीति स्त्रीपुंभिः कामनिर्जितैः ।ततस्त्रिशूलहेतिस्तमायान्तं दैत्यपुङ्गवम्
विज्ञायावध्यमन्येन शूलेनाभिजघान तम् ।प्रोतस्तेन त्रिशूलेन दैत्यो गजासुरः
छत्रीकृतमिवात्मानं मन्यमानो जगौ हरम्
गजासुर उवाच ।त्रिशूलपाणे ! देवेश ! जाने त्वां स्मरहारिणम्
तव हस्ते मम वधः श्रेयानेव पुरान्तक ! ।किञ्चिद्विज्ञप्तुमिच्छामि अवधेहि ममेरितम्
सत्यं ब्रवीमि नासत्यं मृत्युञ्जय ! विचारय ।त्वमेको जगतीबन्धो ! विश्वस्योपरि संस्थितः
अहत्वदुपरिष्टाच्च स्थितोस्मीति जितं मया ।धन्योस्म्यनुगृहीतोस्मि त्वत्त्रिशूलाग्रसंस्थितः
कालेन सर्व्वैर्मर्त्तव्यं श्रेयसे मृत्युरीदृशः ।इति तस्य वचः श्रुत्वा देवदेवः कृपानिधिः ।प्रोवाच प्रहसन् शम्भुर्घटोद्भवगजासुरम्
ईश्वर उवाच ।गजासुर ! प्रसन्नोस्मि महापौरुषसेवधे ! ।स्वानुकूलं वरं ब्रूहि ददामि सुमते ऽसुर !
इत्याकर्ण्य दैत्येन्द्रः प्रत्युवाच महेश्वरम्
गजासुर उवाच ।यदि प्रसन्नो दिग्वासस्तदा नित्यं वसान मे ।इमां कृत्तिं विरूपाक्ष ! त्वत्त्रिशूलाग्निपाविताम् ।सुप्रमाणां सुखस्पर्शां रणाङ्गणपणीकृताम्
इष्टगन्धिः सदैवास्तु सदैवास्त्वतिकोमला ।सदैव निर्म्मला चास्तु सदैवास्त्वतिमङ्गलम्
महातपानलज्वालां प्राप्यापि सुचिरं विभो ! ।न दग्धा कृत्तिरेषा मे पुण्यगन्धनिधिस्ततः
यदि पुण्यवती नैषा मम कृत्तिर्दिगम्बर ! ।तदा त्वदङ्गसङ्गोऽस्याः कथं जातो रणाङ्गने
अन्यञ्च मे वरं देहि यदि तुष्टोऽसि शङ्कर ! ।नामास्तु कृत्तिवासास्ते प्रारभ्याद्यतनं दिनम्
इति तस्य वचः श्रुत्वा तथेत्युक्त्वा शङ्करः ।पुनः प्रोवाच तं दैत्यं मक्तिनिर्म्मलमानसम्
ईश्वर उवाच ।शृणु पुण्यनिधे ! दैत्य ! वरमन्यं सुदुर्लभम् ।अविमुक्ते महाक्षेत्रे रणत्यक्तकलेवर !
इदं पुण्यशरीरं ते क्षेत्रेऽस्मिन् मुक्तिसाधने ।मम लिङ्गं भवत्वत्र सर्वेषां मुक्तिदायकम्
कृत्तिवासेश्वरं नाम महापातकनाशनम् ।सर्व्वेषामेव लिङ्गानां शिरोभूतमिदं वरम्
यावन्ति सन्ति लिङ्गानि वारानस्यां महान्त्यपि ।उत्तमं तावतामेतदुत्तमाङ्गवदुत्तमम्”
*
यदि चात्र गजासुरचर्म्मणाच्छादकत्वं वर्णितंतथापि कार्य्यावस्थाविशेषेण व्याध्रचर्म्मणाप्यस्यपरिधेयकत्वं दृश्यते यथा व्याघ्रकृत्तिं वसानमितिध्यानादौ स्फुटमेव वस्तुतस्तु नचैतत् वाह्य-चर्म्मादिविषय एव ग्रन्थकारेण भगवता मह-र्षिणा वर्णितः त्रिगुणात्मिका प्रकृतिरेव तस्या-च्छादिका इति आध्यात्मिकी स्वरूपोक्तिः यथा, “गुणमयी मायैषा वावह तस्य परमस्य आच्छा-दनी” व्याध्रहस्त्यादेरुक्तिस्तु मायाया वैचित्रप्रदर्श-नायैव अपि कटिदेशपर्य्यन्तोक्तिरेकपाद एवमायाच्छादितत्वात् यथा, श्रुतिः ।“पादोऽस्य विश्वाभूतानि त्रिपादोऽस्ति स्वयंप्रभः”
)
कृदन्तरूपमाला
Sanskrit
1 {@“वस आच्छादने”@} 2 ‘वस्यति स्तम्भने वस्ते छादने वसयेत् वसेत्।।’ 3 इति देवः।
‘-- स्मृतौ’ इति वोपदेवः।
वासकः-सिका, वासकः-सिका, विवसिषकः-षिका, वावसकः-सिका
वसिता-त्री, वासयिता-त्री, विवसिषिता-त्री, वावसिता-त्री
-- वासयन्-न्ती, वासयन् वासयमानो वा वस्त्रं देवदत्तेन, वासयिष्यन्-न्ती-ती, 4 5 वसानः, वासयमानः, विवसिषमाणः, वावस्यमानः
वसिष्यमाणः, वासयिष्यमाणः
विवसिषिष्यमाणः, वावसिष्यमाणः
6 चर्मवः-चर्मवसौ-चर्मवसः
-- -- -- वसितम्-तः, वासितम्, विवसिषितः, वावसितः-तवान्
वसः, 7 वसा, सुवासी, 8 वसनः, 9 वसिता, वासः, विवसिषुः, वावसः
वसितव्यम्, वासयितव्यम्, विवसिषितव्यम्, वावसितव्यम्
वसनीयम्, वासनीयम्, विवसिषणीयम्, वावसनीयम्
वास्यम्, वास्यम्, विवसिष्यम्, वावस्यम्
वस्यमानः, वास्यमानः, विवसिष्यमाणः, वावस्यमानः
ईषद्वसः-दुर्वसः-सुवसः
-- -- -- वासः, आवासः, 10 कृत्तिवासाः, वासः, विवसिषः, वावसः
वसितुम्, वासयितुम्, विवसिषितुम्, वावसितुम्
वस्तिः, 11 वसा, वासना, विवसिषा, वावसा
वसनम्, वासनम्, विवसिषणम्, वावसनम्
वसित्वा, वासयित्वा, विवसिषित्वा, वावसित्वा
प्रवस्य, प्रवास्य, प्रविवसिष्य, प्रवावस्य
वासम् २, वसित्वा २, वासम् वासयित्वा विवसिषम् विवसिषित्वा वावसम्
वावसित्वा
12 13 वसु, 14 नप्रत्यये रूपम्।
वस्तेऽनेनेति वस्नम् = वासः।]] वस्नम्, 15 सरन्प्रत्ययः।
संवत्सरः = क्षण- लवमुहूर्त्ताहोरात्रपक्षमासायनानि इत्यर्थः।
एवं परिवत्सरः, विवत्सरः, इद्वत्सरः, इडावत्सरः, उद्वत्सरः इत्यादिषु बोध्यम्।
वस्त्रेण समाच्छादयति इत्यर्थे संवस्त्रयन् इत्यत्र ‘मुण्डमिश्र--’ 16 इत्यादिनाणिच्।
‘वस्त्रात्स- माच्छादने’ इति काशिकावृत्तिः।]] संवत्सरः, 17 ष्ट्रन्प्रत्यये वस्त्रमिति रूपम्।
वस्ते शरीरमिति वस्त्रम्।]] वस्त्रम्।
18
प्रासङ्गिक्यः
01
=>
(१५७७)
02
=>
(२-अदादिः-१०२३। अक। सेट्। आत्म।)
03
=>
(श्लो। १८७)
04
=>
[पृष्ठम्१२१५+ २५]
05
=>
[[आ। ‘पिशङ्गमौञ्जीयुजमर्जुनच्छविं वसानमेणाजिनमञ्जनद्युति।’ शि। व। १-६।]]
06
=>
[[१। चर्म वस्ते इति चर्मवः इति क्विप्प्रत्यये रूपमेवम्। ‘अत्वसन्तस्य चाधातोः’ (६-४-१४) इत्यत्र काशिकायां प्रत्युदाहरणत्वेन प्रदर्शितम्।]]
07
=>
[[२। पचाद्यजन्तात स्त्रियां टाप्। वसा = शरीरान्तर्गतस्नेहद्रव्यम्।]]
08
=>
[[३। वस्ते आच्छादयति इत्यर्थे ‘अनुदात्तेतश्च--’ (३-२-१४९) इति युचि रूपमेवम्।]]
09
=>
[[४। ‘तृन्’ (३-२-१३५) इति तच्छीलादिषु कर्तृषु तृन्प्रत्यये रूपम्। ‘वसिता वस्त्रमित्येवं साधुकारिणि कर्तरि।।’ इति ‘तृन्’ सूत्रे प्रक्रियासर्वस्वश्लोकः।]]
10
=>
[[५। औणादिकेऽसुन्प्रत्यये वासश्शब्दः। कृत्तिर्वासोऽस्येति ‘अत्वसन्तस्य--’ (६-४-१४) इति असंबुद्धौ सौ परतः दीर्घो भवति। तेन रूपमेवम्।]]
11
=>
[[६। भिदादिपाठात् (३-३-१०४) अङ्प्रत्ययः।]]
12
=>
[पृष्ठम्१२१६+ २७]
13
=>
[[१। ‘शॄस्वृस्निहित्रप्यसिवसि--’ (द। उ। १-९५) इति उप्रत्यये रूपमेवम्। वस्ते भाग्यवतो जनानिति वसु = धनम्।]]
14
=>
[[२। औणादिके [द। उ। ५-३९]
15
=>
[[३। संपूर्वात् वसधातोः औणादिकः [द। उ। ८-५२]
16
=>
(३-१-२१)
17
=>
[[४। औणादिके [द। उ। ८-७९]
18
=>
[[आ। ‘वैतानवेदिजनितं पवमानबन्धुं वस्त्रेण बद्धुमविनीत कथं यतेथाः।।’ चम्पूरामायणे ५-४८]]