कृत्तिवासस् (kRttivAsas)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
शब्दसागरः
EnglishHelp us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Wilson
EnglishMonier Williams Cologne
EnglishApte Hindi
Hindiकृत्तिवासस्
कृत्ति-वासस् -
शिव का विशेषण
Shabdartha Kaustubha
Kannadaकृत्तिवासस्
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ಗಜಚರ್ಮವೇ ವಸ್ತ್ರವಾಗಿ ಉಳ್ಳ ಪರಮೇಶ್ವರ /ಪರಶಿವ
व्युत्पत्तिः - > कृत्तिः वासो यस्य
प्रयोगाः - > "एकैश्वर्ये स्थितोऽपि प्रणतबहुफले यः स्वयं कृत्तिवासाः कान्तासम्मिश्रदेहोऽप्यविषयमनसां यः परस्ताद्यतीनाम्"
उल्लेखाः - > माल० १-१
अभिधानचिन्तामणिः
Sanskritशंभुः शर्वः स्थाणुरीशान ईशो रुद्रोड्डीशौ वामदेवो वृषाङ्कः ।
कण्ठेकालः शंकरो नीलकण्ठः श्रीकण्ठोग्रौ धूर्जटिर्भीमभर्गौ ॥ १९५ ॥
मृत्युंजयः पञ्चमुखोऽष्टमूर्तिः श्मशानवेश्मा गिरिशो गिरीशः ।
षण्ढः कपर्दीश्वर ऊर्ध्वलिङ्ग एकत्रिदृग्भालदृगेकपादः ॥ १९६ ॥
मृडोऽट्टहासी घनवाहनोऽहिर्बुध्नो विरूपाक्षविषान्तकौ च ।
महाव्रती वह्निहिरण्यरेताः शिवोऽस्थिधन्वा पुरुषास्थिमाली ॥ १९७ ॥
स्याव्द्योमकेशः शिपिविष्टभैरवौ दिक्कृत्तिवासा भवनीललोहितौ ।
सर्वज्ञनाट्यप्रियखण्डपर्शवो महापरा देवनटेश्वरा हरः ॥ १९८ ॥
पशुप्रमथभूतोमापतिः पिङ्गजटेक्षणः ।
पिनाकशूलखट्वाङ्गगङ्गाहीन्दुकपालभृत् ॥ १९९ ॥
गजपूषपुरानङ्गकालान्धकमखासुहृत् ।
शम्भु (पुं), शर्व (पुं), स्थाणु (पुं), ईशान (पुं), ईश (पुं), रुद्र (पुं), उड्डीश (पुं), वामदेव (पुं), वृषाङ्क (पुं), कण्ठेकाल (पुं), शङ्कर (पुं), नीलकण्ठ (पुं), श्रीकण्ठ (पुं), उग्र (पुं), धूर्जटि (पुं), भीम (पुं), भर्ग (पुं), मृत्युञ्जय (पुं), पञ्चमुख (पुं), अष्टमूर्ति (पुं), श्मशानवेश्मन् (पुं), गिरिश (पुं), गिरीश (पुं), षण्ढ (पुं), कपर्दिन् (पुं), ईश्वर (पुं), ऊर्ध्वलिङ्ग (पुं), एकदृश् (पुं), त्रिदृश् (पुं), भालदृश् (पुं), एकपाद् (पुं), मृड (पुं), अट्टहासिन् (पुं), घनवाहन (पुं), अहिर्बुध्न (पुं), विरूपाक्ष (पुं), विषान्तक (पुं), महाव्रतिन् (पुं), वह्निरेतस् (पुं), हिरण्यरेतस् (पुं), शिव (पुं), अस्थिधन्वन् (पुं), पुरुषास्थिमालिन् (पुं), व्योमकेश (पुं), शिपिविष्ट (पुं), भैरव (पुं), दिग्वासस् (पुं), कृत्तिवासस् (पुं), भव (पुं), नीललोहित (पुं), सर्वज्ञ (पुं), नाट्यप्रिय (पुं), खण्डपर्शु (पुं), महादेव (पुं), महानट (पुं), महेश्वर (पुं), हर (पुं), पशुपति (पुं), प्रमथपति (पुं), उमापति (पुं), पिङ्गजट (पुं), पिङ्गेक्षण (पुं), पिनाकभृत् (पुं), शूलभृत् (पुं), खट्वाङ्गभृत् (पुं), गङ्गाभृत् (पुं), अहिभृत् (पुं), इन्दुभृत् (पुं), कपालभृत् (पुं), गजासुहृद् (पुं), पूषासुहृद् (पुं), अनङ्गासुहृद् (पुं), कालासुहृद् (पुं), अन्धकासुहृद् (पुं), मखासुहृद् (पुं)
अभिधानरत्नमाला
Sanskritईशान
ईशान, शशिशेखर, पशुपति, शूली, शिव, शङ्कर, शर्व, शम्भु, उमापति, गिरिश, श्रीकण्ठ, उग्र, हर, सर्वज्ञ, त्रिपुरान्तक, त्रिनयन, रुद्र, कपर्दिन्, भव, भूतेश, परमेश्वर, अन्धकरिपु, दक्षाध्वरध्वंसकृत्, स्थाणु, स्रष्टृ, धूर्जटि, वामदेव, कामध्वंसिन्, व्योमकेश, कपालिन्, नीलग्रीव, वह्निरेतस्, पिनाकिन्, भीम, भर्ग, कृत्तिवासस्, वृषाङ्क, अहिर्बुध्न, विरूपाक्ष, शिपिविष्ट, गणाधिप, गङ्गाधर, महादेव, मृड, नीललोहित
ईशानः शशिशेखरः पशुपतिः शूली शिवः शङ्करः,
शर्वः शम्भुरुमापतिश्च गिरिशः श्रीकण्ठ उग्रो हरः ।
सर्वज्ञस्त्रिपुरान्तकस्त्रिनयनो रुद्रः कपर्दी भवो,
भूतेशः परमेश्वरोऽन्धकरिपुर्दक्षाध्वरध्वंसकृत् ॥ ११ ॥
स्थाणुः स्रष्टा धूर्जटिर्वामदेवः,
कामध्वंसी व्योमकेशः कपाली ।
नीलग्रीवो वह्निरेताः पिनाकी,
भीमो भर्गः कृत्तिवासा वृषाङ्कः ॥ १२ ॥
अहिर्बुध्नो विरूपाक्षः शिपिविष्टो गणाधिपः ।
गङ्गाधरो महादेवो मृडः स्यान्नीललोहितः ॥ १३ ॥
verse 1.1.1.11
page 0003
Mahabharata
EnglishKṛttivāsas = Śiva, q.v.
वाचस्पत्यम्
Sanskritकृत्तिवासस् कृत्तिर्गजासुरचर्म्म वासोयस्य । महादेवेयथाच तस्य तद्वसनत्वं तथा काशी० ६८ अ० वर्ण्णितं यथा“कोलाहलो महानासीत् त्रात त्रातेति सर्वतः । महिषा-सुरपुत्रोऽसौ समायाति गजासुरः । प्रमथ्नन् प्रम-थान् सर्वान् निजवीर्य्यमदोद्धतः । यत्र यत्र ध-रायां स चरणं प्रमिणोति हि । अचलान् दोलया-ञ्चक्रे तत्र तत्रास्य भारतः । उरुवेगेन तरवः पतन्तिशिखरैः सह । तस्य दोर्दण्डवातेन चूर्ण्णाः स्युश्चशिलोच्चयाः । यस्य मौलिजसंधर्धात् वना व्योम त्यज-न्त्यलम् । नीलिमानं न चाद्यापि जहुस्तत्केशसङ्ग-जम् । यस्य निःश्वाससम्भारैरुत्तरङ्गा महाब्धयः । ना-द्याप्यमन्दकल्लोला भवन्ति तिमिभिः सह । योज-नानां सहस्राणि नव यस्य समुच्छ्रयः । तावानेव हिविस्तारस्तनोर्मायाविनोऽस्य हि । यन्नेत्रयोः पिङ्गलिमातथा तरलिमा पुनः । विद्युता नोह्यते ऽद्यापि सोऽयमा-यति सत्वरः । यां यां दिशं समभ्येति सोऽयं दुःसहदानवः । नाद्य शमीभवेदस्य साध्वसादिव दिग्भयम् ।ब्रह्मलब्धवरश्चायं तृणीकृतजगत्त्रयः । अबध्योऽहंभवामीति स्त्रीपुंभिः कामनिर्जितैः । ततस्त्रिशूलहेतिस्तमायान्तं दैत्यपुङ्गवम्! विज्ञायाबध्यमन्येन शूले-नाभिजवान तम् । प्रोतस्तेन त्रिशूलेन स च दैत्यःगजासुरः । छत्रीकृतमिवात्मानं मन्यमानो जगौ हरम् ।गजासुरौवा च । त्रिशूलपाणे! देवेश! जाने त्वां स्मर-हारिणम् । तव हस्ते मम बधः श्रेयानेव पुरान्तक! ।किञ्चिद्विज्ञप्तु मिच्छामि अवधेहि ममेरितम् । सत्यंब्रवीमि नासत्यं मृत्युञ्जय! विचारय । त्वमेको जगती-बन्धो! विश्वस्योपरि संस्थितः । अहं तदुपरिष्टाच्चस्थितोऽस्मीति जितं मया । धन्योऽस्म्यनुगृहीतोऽस्मि-त्वत्त्रिशूलाग्रसंस्थितः । कालेन सर्व्वैर्मर्त्तव्यं श्रेयसेमृत्युरीदृशः । इति तस्य वचः श्रुत्वा देवदेव कृपा-निधिः । प्रोवाच प्रहसन् शम्भुर्वटोद्भव! गजासुरम् ।ईश्वर उवाच । गजासुर । प्रसन्नोऽस्मिमहापौरुषशेबधे! ।स्वानुकूलं परं ब्रूहि ददामि सुमतेऽसुर!” इत्याकर्ण्ण्यस दैत्येन्द्रः प्रत्युवाच महेश्वरम् । गजासुर उवाच ।यदि प्रसन्नोदिग्वासस्तदा नित्यं वसान मे । इमां कृत्तिंविरूपाक्ष! त्वत्रिशूलाग्निपाविताम् । सुप्रमाणां सुख-स्पर्शां रणाङ्गणपणीकृताम् । इष्टगन्धिः सदैवास्तुसदैवास्त्वतिकोमला । सदैव निर्म्मला चास्तु सदैवा-स्त्वतिसङ्गलम् । महातपानलज्वालां प्राप्यापि सुचिरंविभो! । न दुग्धा कृत्तिरेषा मे पुण्यगन्धनिधिस्ततः ।यदि पुण्यवती नैषा नम कृत्तिर्दिगम्बर । तदा त्वदङ्गस-ङ्गीऽस्याः कथं जातो रणाङ्गणे । अन्यञ्च मेवरं देहि यदितुष्टोऽसि शङ्कर! । नामास्तु कृत्तिवासास्ते प्रारभ्याद्य-तनं दिनम्” इतऊर्द्ध्वं कीत्तिवासश्वरशब्दे दृश्यम् ।
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
