| YouTube Channel

कृती (kRtI)

 
Monier Williams Cologne
English
कृती in comp. for °ति.
Shabdartha Kaustubha
Kannada
कृती- छेदने (तुदा० पर० सक० से०) कृन्तति
पदविभागः - > धातुः
कन्नडार्थः - > ಕತ್ತರಿಸು /ತುಂಡು ಮಾಡು
कृती- वेष्टने (रुधा० पर० सक० से०) कृणत्ति
पदविभागः - > धातुः
कन्नडार्थः - > ಆವರಿಸು /ಸುತ್ತುಗಟ್ಟು
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
कृत्
मूलधातुः:
कृती
धात्वर्थः:
छेदने
गणः:
तुदादिः
कर्मकत्वं:
सकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
परस्मैपदी
रूपम्:
कृन्तति
अनुबन्धादिविशेषः:
ईदित्, मुचादिः
धातुः:
कृत्
मूलधातुः:
कृती
धात्वर्थः:
वेष्टने
गणः:
रुधादिः
कर्मकत्वं:
सकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
परस्मैपदी
रूपम्:
कृणत्ति
अनुबन्धादिविशेषः:
ईदित्
धातुप्रदीपः
Sanskrit
कृतीँ कृती छेदने
- कृन्तति चकर्त कर्त्तिता कर्त्स्यति कर्त्तिष्यति, कृत्सीष्ट कर्त्तिषीष्ट (30) अकर्त्तीत् चरीकृत्यते कर्त्तयति अचीकृतत् अचकर्त्तत् कृत्तिः कृत्तम् कृत्तवान् विकर्त्तनः (31) 161
कृतीँ कृती वेष्टने
- कृणत्ति कर्त्तिता कर्त्तिष्यति कर्त्स्यति अकर्त्तीत् चिकर्त्तिषत्ति चिकृत्सति चरीकृत्यते कृत्तम् 10
अभिधानरत्नमाला
Sanskrit
धीर
धीर, धीमत्, लब्धवर्ण, विपश्चित्, वृद्ध, विद्वस्, प्राप्तरूप, अभिरूप, सूरि, प्राज्ञ, पण्डित, मनीषिन्, ज्ञ, दोषज्ञ, कोविद, प्रबुद्ध, बुध, सुधी, कृती, कृष्टि, कवि, व्यक्त, विशारद, विचक्षण, मेधाविन्, संख्यावत्, मतिमत्
धीरो धीमान् लब्धवर्णो विपश्चिद्,
वृद्धो विद्वान् प्राप्तरूपोऽभिरूपः
सूरिः प्राज्ञः पण्डितः सन्मनीषी,
ज्ञो दोषज्ञः कोविदः स्यात्प्रबुद्धः ३३२
बुधः सुधीः कृती कृष्टिः कविर्व्यक्तो विशारदः
विचक्षणश्च मेधावी संख्यावान्मतिमान्मतः ३३३
verse 2.1.1.332
page 0040
वैजयन्तीकोषः
Sanskrit
Word: कृती
Root: कृतिन्
Gender: पुं
Number: all
अर्थः
Meaning(s):
Kind of Butea frondosa
Tamil Koḍi murukku
Shloka(s):
3|3|29|2 आस्फोतो ब्रह्मवृक्षश्च हस्तिकर्णदले कृती॥ (भूमिकाण्डः/वनाध्यायः)
Synonym(s):
3|3|29|2 हस्तिकर्णदलः (हस्तिकर्णदल) (पुं) Kind of Butea frondosa
Tamil Koḍi murukku
3|3|29|2 कृती (कृतिन्) (पुं) Kind of Butea frondosa
Tamil Koḍi murukku
Related word(s):
परा_अपरासंबन्धः वृक्षः
शब्दकल्पद्रुमः
Sanskrit
कृती, [न्] त्रि, (कृतं कर्म्म प्रशस्तमस्यास्ताति अतइनिः ।) निपुणः पण्डितः इत्यमरः
साधुः पुण्यवान् इति शब्दरत्नावली
(कृतक्रियः यथा, रघौ ५१ ।“गृहाण शस्त्रं यदि सर्ग एष तेनखल्वनिर्जित्य रघुं कृती भवान्”
)
क्षीरतरङ्गिणी
Sanskrit
कृतीँ कृती छेदने
- इतस्त्रयः सेटः परस्मैपदिनश्च कृन्तति कर्तिता सेऽसिचि (7257) इति कर्त्स्यति, कर्तिष्यति कृत्तः, ईदित्त्वं यङ्लुगर्थं-चरीकृत्तः निरुपपदात् क्विप् (द्र0 3276)-कृत् कर्तरी छेदनी कृत्तिश्चर्म कृतेश्छः क्रू (उ0 221)-कृच्छ्रम् क्रूरः कृत्यशूभ्यां क्स्नः (उ0 317)-कृत्स्नम् कृतिभिदि (उ0 3347) इति तिकन्-कृत्तिकाः रुधादौ कृती वेष्टने (712)-कृणत्ति 153
कृतीँ कृती वेष्टने
-उदात्त उदात्तेत्- कृणत्ति कर्तित्वा कर्त्स्यति कर्तिष्यति कृत्तः ईदित्त्वं यङ्लुगर्थम्-चरीकृत्तः कृतेराद्यन्तविपर्ययश्च (उ0 116)-तर्कुः तुदादौ कृती छेदने (6140)-कृन्तति, कृत्तिः 10
धातुवृत्तिः
Sanskrit
कृतीँ कृती (अर्थः) छेदने
उदात्त उदात्तेत् ( कृन्तति चकर्त चकृततुः चकर्तिथ चकृत चकृतिव कर्तिता कर्त्स्यति कर्तिष्यति ) "सेसिचि'' इत्यादिना सकाराद्वाविड्विकल्पः (कृन्ततु अकृन्तत् कृन्तेत् कृत्यात् ) लिङौ ( अकर्तीत् अकर्तिष्टाम् चिकृत्सति चिकर्तिषति चरीकृत्यते चरिकर्त्ति) इत्यादि (कर्तयति अचकर्तत् अचीकृतत् ) उरृद्वा (विकर्तनः) नन्द्यादिः ( कृतः कृतवान् कृतिः ) क्तिन् ( कृत्समुदकम् ) "सृव्रश्चिकृत्त्यृषिभ्यः कित्'' इति सप्रत्यय कित् "तितुत्र'' इतीणिनषेधः ( कृत्स्नम् ) "कृत्यशुभ्यां क्स्नन्'' इति क्स्नन् बाहुलकादिडभावश्च 151
कृतीँ कृती (अर्थः) वेष्टने
(कृणत्ति कृन्तः कृन्तन्ति कृणत्सि कृणद्मि कृणत्तु अकृणत् कृन्त्यात् कर्तिता) इत्यादि तौदादिकवत् 10
कृदन्तरूपमाला
Sanskrit
1 {@“कृती छेदने”@} 2 मुचादिः।
‘कृणत्ति कृन्ततीत्येते वेष्टने च्छेदने क्रमात्।
कीर्तयेदिति संशब्दे--’ 3 इति देवः।
कर्तकः-र्तिका, कर्तकः-र्तिका, 4 चिकृत्सकः- 5 चिकर्तिषकः, 6 चरीकृतकः-तिका
कर्तिता-त्री, कर्तयिता-त्री, चिकृत्सिता-त्री, चिकर्तिषिता-त्री, चरीकृतिता-त्री
7 कृन्तन् 8 - 9 न्ती-ती, कर्तयन्-न्ती, चिकृत्सन्-चिकर्तिषन्-न्ती
-- 10 कर्तिष्यन् 11 -कर्त्स्यन्-न्ती-ती, कर्तयिष्यन्-न्ती-ती, चिकृत्सिष्यन्-चिकर्तिषि-ष्यन्-न्ती-ती
12 13 व्यतिकृन्तमानः, कर्तयमानः, -- चरीकृत्यमानः
व्यतिकर्तिष्यमाणः-व्यतिकर्त्स्यमानः, कर्तयिष्यमाणः, 14 चरीकृतिष्यमाणः
काष्ठकृत्-कृतौ-कृतः
-- -- -- 15 कृत्तम् 16 -त्तः, कर्तितः, चिकृत्सितः-चिकर्तिषितः, चरीकृतितः-तवान्
17 कृतः, 18 विकर्तनः, कर्तः, चिकृत्सुः-चिकर्तिषुः, चरीकृतः
कर्तितव्यम्, कर्तयितव्यम्, चिकृत्सितव्यम्-चिकर्तिषितव्यम्, चरीकृतितव्यम्
कर्तनीयम्, कर्तनीयम्, चिकृत्सनीयम्-चिकर्तिषणीयम्, चरीकृतनीयम्
19 कृत्यम्, कर्त्यम्, चिकृत्स्यम्-चिकर्तिष्यम्, चरीकृत्यम्
ईषत्कर्तः-दुष्कर्तः-सुकर्तः
-- -- -- कृत्यमानः, कर्त्यमानः, चिकृत्यमानः-चिकर्तिष्यमाणः, चरीकृत्यमानः
कर्तः, कर्तः, चिकृत्सः-चिकर्तिषः, चरीकृतः
कर्तितुम्, कर्तयितुम्, चिकृत्सितुम्-चिकर्तिषितुम्, चरीकृतितुम्
कृतिः, कर्तना-चिकृत्सा, चिकर्तिषा-चरीकृता
कर्तनम्, कर्तनम्, चिकृत्सनम्-चिकर्तिषणम्, चरीकृतनम्
20 कर्तित्वा, कर्तयित्वा, चिकृत्सित्वा-चिकर्तिषित्वा, चरीकृतित्वा
विकृत्य, विकर्त्य, विचिकृत्स्य-विचिकर्तिष्य, प्रचरीकृत्य
-- कर्तम् २, कर्तित्वा २, कर्तम् २, कर्तयित्वा २, चिकृत्सम् २, चिकृत्सित्वा २, चिकर्तिषम् २, चिकर्तिषित्वा २, चरीकृतम्
चरीकृतित्वा २। 21
प्रासङ्गिक्यः
01
=>
(२४८)
02
=>
(६-तुदादिः-१४३५। सक। सेट्। पर।)
03
=>
(श्लो-९५)
04
=>
[[३। ‘हलन्ताच्च’ (१-२-१०) इति सनः कित्त्वाद्गुणाभावः।]]
05
=>
[[४। ‘सेऽसिचि कृतचृतछृदतृदनृतः’ (७-२-५७) इति सनः इड्विकल्पः। इटि गुणः।]]
06
=>
[[५। ‘रीगृदुपधस्य च’ (७-४-९०) इत्यभ्यासस्य रीगागमः।]]
07
=>
[[६। ‘शे मुचादीनाम्’ (७-१-५९) इति नुम्।]]
08
=>
[[आ। ‘भुक्त्वा गोरससिक्तमन्नमजितः कंसस्य कृन्तन् मुदं तं खेत्स्यन् पिशिताशदारुणमसौ मोदेन निन्येनिशाम्।।’ धा। का। २-८४।]]
09
=>
[[७। ‘आच्छीनद्योर्नुम्’ (७-१-८०) इति नुम् वा।]]
10
=>
[[८। ‘सेऽसिचि--’ (७-२-५७) इति सादेरार्धधातुकस्य इड् वा।]]
11
=>
[[B। ‘वनं चचार कर्तिष्थन् नर्त्स्यन्निव निरङ्कुशः।।’ भ। का। ९-४२।]]
12
=>
[पृष्ठम्०२४६+ २२]
13
=>
[[१। ‘कर्तरि कर्मव्यतीहारे’ (१-३-१४) इति शानच्।]]
14
=>
[[२। यङः, अल्लोपस्य स्थानिवद्भावात् गुणो न।]]
15
=>
[[३। ‘श्वीदितो निष्ठायाम्’ (७-२-१४) इति इण्णिषेधः।]]
16
=>
[[आ। ‘निकृत्तमत्तद्विपकुम्भमांसैः संपृक्तमुक्तैर्हरयोऽग्रपादैः।’ भ। का। ११-४२।]]
17
=>
[[४। ‘इगुपध--’ (३-१-१३५) इति कर्तरि कः प्रत्ययः।]]
18
=>
[[५। नन्द्यादिपाठात् ‘नन्दिग्रहि--’ (३-१-१३४) इति कर्तरि ल्युः। विशेषेण कर्तयति भक्तानां रोगादिकमिति घिकर्तनः = सूर्यः। ‘आरोग्यं भास्करादिच्छेत्--’ इति स्मरणात्।]]
19
=>
[[६। ‘ऋदुपधाच्चाकॢपि--’ (३-१-११०) इति क्यप्।]]
20
=>
[[७। ‘न क्त्वा सेट्’ (१-२-१८) इति कित्त्वनिषेधात् गुणः।]]
21
=>
[पृष्ठम्०२४७+ २५]
1 {@“कृती वेष्टने”@} 2 ‘कृणत्ति कृन्ततीत्येते वेष्टने च्छेदने क्रमात्।
कीर्तयेदिति संशब्दे--’ 3 इति देवः।
कर्तकः-र्तिका, कर्तकः-र्तिका, चिकृत्सकः-चिकर्तिषकः-षिका, चरीकृतकः- तिका
इत्यादीनि सर्वाण्यपि रूपाणि तौदादिककृतीधातुवत् 4 ज्ञेयानि।
शतरि कृन्तन्-ती, ‘रुधादिभ्यः श्नम्’ 5 इति श्नमि, ‘श्नसोरल्लोपः’ 6 इत्यल्लोपः, इति विशेषः।
प्रासङ्गिक्यः
01
=>
(२४९)
02
=>
(७-रुधादिः-१४४७। सक। सेट्। पर।)
03
=>
(श्लो। ९५)
04
=>
(२४८)
05
=>
(३-१-७८)
06
=>
(६-४-१११)