| YouTube Channel

कृतवर्म्मन् (kRtavarmman)

 
वाचस्पत्यम्
Sanskrit
कृतवर्म्मन्
पु०
कृतवीर्य्यभ्रातरि कनकनृपात्मजे “कन-कस्य तु दायादाश्चत्वरो लोकविश्रुताः कृतवीर्य्यः कृतौजाश्च कृतवर्म्मा तथैवच कृताग्निस्तु चतुर्थोऽभूत् कृत-वीर्य्यादथार्जुनः” हरिवं ३१ अ० यदुवंश्ये क्षत्रियभेदे“समीपुत्रः प्रतिक्षतः प्रतिक्षत्रस्य चात्मजः स्वयंभोजः, स्वयंभोजाद् हृदिकः सबभूव तस्य पुत्रा बभूबुर्हिसर्व्वे भीमपराक्रमाः कृतवर्म्माग्रजस्तेषां शतधन्वातु मध्यमः” हरि० वं० ३९ अ० “रामे भारं समासज्य युयु-धाने वीर्य्यवान् अक्रूरे विपृथौ चापि गदे चकृतवर्म्मणि” हरिवं० ११३ अ०