| YouTube Channel

कृतपूर्व्वी (kRtapUrvvI)

 
शब्दकल्पद्रुमः
Sanskrit
कृतपूर्व्वी, [न्] त्रि, (कृतं निष्पादितं पूर्व्वमनेन ।कृतपूर्व्व + “सपूर्व्वाच्च” ८७ इतिइनिः ।) पूर्व्वनिष्पन्नकर्म्मा यथा कृतपूर्व्वोकटम् इति संक्षिप्तसारव्याकरणम्
वाचस्पत्यम्
Sanskrit
कृतपूर्व्वी
त्रि०
कृतं पूर्व्वमनेन “सपूर्व्वाच्च” पा० इनि कृतपू-र्व्वकर्म्मके तद्बोधप्रकारः सरलायामस्माभिनिर्रूपतो यथा“कृतपूर्बी कटं भुक्तपूर्बी ओदनमित्यादिमहाभाष्य-कारप्रयोगा दृश्यन्ते तत्र कृतं पूर्बमनेनेति विग्रहे“सह सुपा” इति पा० समासे पूर्व्वादिनिरितीनेरनुवृत्तिमता“सपूर्बाच्चेति” पा० सूत्रेण इनिर्विहितः तत्र यदि कृत-मिति कर्मणि क्तः स्यात् तदा तस्य कटादिकर्म्मरूपवि-शेषणतया सापेक्षत्वेन पूर्वादिपदेन समासो स्यात् एकत्रविशेषणतयोपस्थितस्यान्यत्र विशेषणतयान्वयायोगात्न वृत्तिसम्भवः भाष्यप्रामाण्याच्च तत्र वृत्तौ सत्यामेषारीतिराकलनीया तयाहि प्रथमं कर्माविवक्षयाऽकर्मकत्वेनभावे क्तप्रत्यये विहिते तदन्तेन पूर्वस्य “सह सुपेति”पा० समासे कृत तत्पूर्वकात् पूर्बशब्दादिनिप्रत्ययो भवति ।पश्चाच्च कर्त्तृकृतक्रियायाः कर्माकाङ्क्षायां कटादि-कर्मणोऽन्वयः एतदेव हरिणा दर्शित यथा “अकर्मकत्वेसत्येव क्तान्ते भावाभिधायिनि पश्चात् क्रियावताकर्त्त्रा योगो भवति कर्मणा अविग्रहा गतादिस्थायथा ग्रामादिकर्म्मभिः क्रिया सम्बध्यते तद्वत् कृत-पूर्व्यादिषु स्थितेति” गमनकर्तृवाचकगतादिमध्यपातिनीगमनक्रिया कर्त्तृविशेषणत्वेनोपस्थिता यथा अविग्रहाअसुबोधा तथा कृतपूर्वकर्त्तृवोधककृतपूर्विमध्यपातिन्य-पीति तदर्थः”