| YouTube Channel

कृतकर्म्मा (kRtakarmmA)

 
शब्दकल्पद्रुमः
Sanskrit
कृतकर्म्मा, [न्] त्रि, (कृतं कर्म्म येन सः ।) कार्य्य-क्षमः तत्पर्य्यायः प्रवीणः शिक्षितः नि-ष्णातः निपुणः दक्षः कृतहस्तः कृतमुखः८ कुशलः चतुरः १० अभिज्ञः ११ विज्ञः १२वैज्ञानिकः १३ पटुः १४ छेकः १५ विदग्धः १६ ।इति हेमचन्द्रः
(यथा, महाभारते १५५ २९ ।“अथवाप्यहमेवैनं हनिष्यामि वृकोदर ! ।कृतकर्म्मा परिश्रान्तः साधु तावदुपारम”
पुं,
विष्णुः यथा, महाभारते १३ १४९ ९७ ।“इन्द्रकर्म्मा महाकर्म्मा कृतकर्म्मा कृतागमः”
)