| YouTube Channel

कृतकं (kRtakaM)

 
शब्दकल्पद्रुमः
Sanskrit
कृतकं,
क्ली,
(कृत + संज्ञायां कन् ।) विडलवणम् ।इत्यमरः
(अस्य पर्य्याया यथा, “विडम्पाक्यञ्च कृतकं तथा द्राविडमासुरम्”
इति भावप्रकाशे पूर्व्वखण्डे प्रथमे भागे
कृन्ततीति कृती छेदने + “बहुलमन्यत्रापि” ।उणां ३७ इति क्वुन् मिथ्या इत्यु-ज्ज्वलदत्तः
पुं,
वसुदेवस्य मदिरायां पत्न्यांजातः पुत्त्रविशेषः यथा, भागवते २४ ४८ ।“नन्दोपनन्दकृतकशूराद्या मदिरात्मजाः”
त्रैलोक्यमेतत् कृतकमित्युच्यते कार्य्यत्वात् यथा, विष्णुपुराणे १६-२० ।“पादगम्यन्तु यत्किञ्चित् वस्त्वस्ति पृथिवीमयम् ।स भूर्लोकः समाख्यातो विस्तारोऽस्य मयोदितः
भूमिसूर्य्यान्तरं यत्तु सिद्धादिमुनिसेवितम् ।भुवर्लोकस्तु सोऽप्युक्तो द्वितीयो मुनिसत्तम !
ध्रुवसूर्य्यान्तरं यच्च नियुतानि चतुर्द्दश ।स्वर्लोकः सोऽपि गदितो लोकसंस्थानचिन्तकैः
त्रैलोक्यमेतत् कृतकं मैत्रेय ! परिपठ्यते ।जनस्तपस्तथा सत्यमिति चाकृतकं त्रयम्
कृताकृतकयोर्मध्ये मर्हलोक इति स्मृतः ।शून्यो भवति कल्पान्ते योऽत्यन्तं विनश्यति”
अत्र व्याख्यायां श्रीमत्स्वामिपादेनोक्तम् ।यथा, --“त्रैलोक्यं कृतकं प्रतिकल्पं कार्य्यत्वात् ।जनर्लोकादित्रयं अकृतकं प्रतिकल्पमकार्य्यत्वात्
महलाकस्य कृताकृतत्वे हेतुमाह शून्य इति”
)