| YouTube Channel

कृञ् (kRJ)

 
Macdonell
English
कृञ् kṛ-ñ, the root kṛ (gr.).
Shabdartha Kaustubha
Kannada
कृञ् - हिंसायाम् (क्र्या० उभ० सक० से०) कृणाति-ते
पदविभागः - > धातुः
कन्नडार्थः - > ಹಿಂಸಿಸು /ಪೀಡಿಸು
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
कृ
मूलधातुः:
कृञ्
धात्वर्थः:
हिंसायाम्
गणः:
स्वादिः
कर्मकत्वं:
सकर्मकः
इट्त्वं:
अनिट्
उपग्रहः:
उभयपदी
रूपम्:
कुणोति-कृणुते
अनुबन्धादिविशेषः:
ऋकारान्तः, ञित्
Abhyankara Grammar
English
कृञ् (l) root कृ in the general sense of activity
(2) pratyāhāra or short form for the three roots कृ, भू and अस्, cf. कृञ् चानुप्रयुज्यते लिटि P.II.1.40.
धातुप्रदीपः
Sanskrit
कृञ् हिंसायाम्
- कृणोति कृणुते चकार चक्रे चिकीर्षति चेक्रीयते कारा बन्धनालयः 8
क्षीरतरङ्गिणी
Sanskrit
कृञ् करणे
- करते, करति स्वादौ कृञ् हिंसायाम् (57) कृणुते, कृणोति तनादौ डुकृञ् करणे (811) कुरुते, करोति उणादौ कारुः, कारिः, करणिः सदृशः करेणुः क्रतुः, करकः कलशादिः, कृकः, कर्कः=सितः, चक्रम्, करण्डः, कर्म, करम्भः, कृसरः 870
कृञ् हिंसायाम्
- कृणोति, कृणुते आर्धधातुके करोतिवत् (811)-चकार, चक्रे 7
धातुवृत्तिः
Sanskrit
कृञ् (अर्थः) हिंसायाम्
( कृणोति कृणुते चकार चक्रतुः चकर्थ चक्र चकार चकर चकृव) क्रादिसूत्रे कृग्रहणेनायमपि गृह्यतइतीण्निषेधः (चक्रे चक्राते चकृषे चकृढ्वे चक्रे चकृवहे ) अगुणवृद्धिविषये अजादौ यणादेशः ( कर्त्ता करिष्यति करिष्यते कृणोतु कृणुताम् अकृणोत् अकृणुत कृणुयात् कृण्वीत ) आशिषि ( क्रियात् ) "रीङ् ऋतः'' "रिङ् शय'' इति रिङादेशः ( कृषीष्ट अकार्षीत् अकार्ष्टाम् अकृत अकृषाताम् ) आत्मनेपदे लिङ्सिचोः "उश्च'' इति कित्त्वान्न गुणः (चिकीर्षति) स्तृञ्वत्सनः कित्त्वे दीर्घः ( चेक्रीयते ) "अकृत्सार्वधातुकयोः'' इति वर्तमाने "च्वौ च'' इति च"रीङ् ऋत'' इति रीङ् ( चरीकर्ति ) इत्यादि ( कारयति अचीकरत ) सर्वत्र कृग्रहणेषु कृञग्रहणेषु करोतिरेव वृत्तिकारादिभिरङ्गीकृत इत्ययं नोदाह्रियते, क्रादिसूत्रे तु कृग्रहणेनास्यापि ग्रहोऽङ्गीकृत आत्रेयादिभिः कारा बन्धने इति भिदादौ पठ्यते तत्रास्मादङित्यात्रेयः न्यासकारस्तु करोतेः 7
कृदन्तरूपमाला
Sanskrit
1 {@“कृञ् हिंसायाम्”@} 2 ‘हिंसाकरणयोः श्नावौ कृणोति कृणुते कृञः।
करोति कुरुते द्वे द्वे सम्पद्येते पदे क्रमात्।।’ 3 इति देवः।
कारकः-रिका, कारकः-रिका, 4 चिकीर्षकः-र्षिका, 5 चेक्रीयकः-यिका
कर्ता-त्री, कारयिता-त्री, चिकीर्षिता-त्री, चेक्रीयिता-त्री
6 कृण्वन्-ती, कारयन्-न्ती, चिकीर्षन्-न्ती
-- 7 करिष्यन्-न्ती-ती, कारयिष्यन्-न्ती-ती, चिकीर्षिष्यन्-न्ती-ती
-- कृण्वानः, कारयमाणः, चिकीर्षमाणः, चेक्रीयमाणः
करिष्यमाणः, कारयिष्यमाणः, चिकीर्षिष्यमाणः, चेक्रीयिष्यमाणः
8 कृत्-कृतौ-कृतः
-- -- -- 9 कृतम्-तः-तवान्, कारितः, चिकीर्षितः, चेक्रीयितः-तवान्
करः, कारः, चिकीर्षुः, चेक्रियः
कर्तव्यम्, कारयितव्यम्, चिकीर्षितव्यम्, चेक्रीयितव्यम्
करणीयम्, कारणीयम्, चिकीर्षणीयम्, चेक्रीयणीयम्
कार्यम्, कार्यम्, चिकीर्ष्यम्, चेक्रीय्यम्
ईषत्करः-दुष्करः-सुकरः
-- -- 10 क्रियमाणः, कार्यमाणः, चिकीर्ष्यमाणः, चेक्रीय्यमाणः
कारः, कारः, चिकीर्षः, चेक्रीयः
कर्तुम्, कारयितुम्, चिकीर्षितुम्, चेक्रीयितुम्
कृतिः, 11 कारा, कारणा, चिकीर्षा, चेक्रिया
12 करणम्, कारणम्, चिकीर्षणम्, चेक्रीयणम्
कृत्वा, कारयित्वा, चिकीर्षित्वा, चेक्रीयित्वा
विकृत्य, विकार्य, प्रचिकीर्ष्य, प्रचेक्रीय्य
कारम् २, कृत्वा २, कारम् २, कारयित्वा २, चिकीर्षम् २, चिकीर्षित्वा २, चोक्रीयम्
चेक्रीयित्वा २।
प्रासङ्गिक्यः
01
=>
(२४५)
02
=>
(५-स्वादिः-१२५३। सक। अनि। उभ।)
03
=>
(श्लो-३१)
04
=>
[[१। ‘इको झल्’ (१-२-९) इति कित्त्वम्। ‘अज्झनगमां सनि’ (६-४-१६) इति दीर्घः। ‘ॠत इद्धातोः’ (७-१-१००) इतीत्त्वम्। रपरत्वम्।]]
05
=>
[[२। ‘रीङृतः’ (७-४-२७) इति रीङ्। गुणोऽभ्यासस्य।]]
06
=>
[[३। ‘स्वादिभ्यः श्नुः’ (३-१-७३) इति श्नुः विकरणप्रत्ययः। ‘हुश्नुबोः सार्वधातुके’ (६-४-८७) इति यण्। णत्वम्।]]
07
=>
[[४। ‘ऋद्धनोः स्ये’ (७-२-७०) इतीट्।]]
08
=>
[[५। ‘ह्रस्वस्य पिति कृति तुक्’ (६-१-७१) इति तुक्।]]
09
=>
[[आ। ‘कुब्जा कृतारिबलमैक्षत वृण्वती सा पात्रं समीरधुतसौरभधूतभृङ्गम्।।’ धा। का। २-६८।]]
10
=>
[[६। ‘रिङ् शयग्लिङ्क्षु’ (७-४-२८) इति रिङ्।]]
11
=>
[[७। ‘कारा बन्धने’ (ग। सू। ३-३-१०४) इति भिदादिवाठादङ्।]]
12
=>
[पृष्ठम्०२३४+ २७]
Capeller
German
कृञ् die Wurzel 1. कर् (g.).