| YouTube Channel

कृच्छ्रातिकृच्छ्रः (kRcchrAtikRcchraH)

 
शब्दकल्पद्रुमः
Sanskrit
कृच्छ्रातिकृच्छ्रः,
पुं,
(कृच्छ्रात् कष्टादपि अतिकृच्छ्रः ।)व्रतविशेषः यथा, वशिष्ठः “अब्भक्षस्तृतीयःकृच्छ्रातिकृच्छ्रो यावत् सकृदाददीत यावदेकवार-मुदकं हस्तेनं ग्रहीतुं शक्नोति तावन्नवसु दिवसेषुभक्षयित्वा त्र्यहमुपवासः कृच्छ्रातिकृच्छ्रः”
सुमन्तु-र्यंथा “द्वादशरात्रं निराहारः कृच्छ्रातिकृच्छ्रः ।एतत् कृच्छ्रातिकृच्छ्रद्वयं द्वादशाहसाध्यमशक्तविष-यम्”
ब्रह्मपुराणम् ।“चरेत् कृच्छ्रातिकृच्छ्रञ्च पिबेत्तोयञ्च शीतलम् ।एकविंशतिरात्रन्तु कालेष्वेतेषु संयतः”
कालेष्विति प्रातःसायंमध्याह्नेष्वित्यर्थः इतिप्रायश्चित्तविवेकः
(यथा, मनुः ११ २०८ ।“अवगूर्य्य चरेत् कृच्छ्रमतिकृच्छ्रं निपातने ।कृच्छ्रातिकृच्छ्रौ कुर्व्वीत विप्रस्योत्पाद्य शोणितम्”
)