| YouTube Channel

कृच्छ्रं (kRcchraM)

 
शब्दकल्पद्रुमः
Sanskrit
कृच्छ्रं,
क्ली,
(कृन्तति सुखम् कृति छेदने “कृतेश्छ-क्रू च” उणां २१ इति रक् छश्चान्तादेशः ।)कष्टम् (यथा, मनुः ७८ ।“नदीकूलं यथा वृक्षो वृक्षं वा शकुनिर्यथा ।तथा त्यजन्निमन्देहं कृच्छ्राद्ग्राहाद्विमुच्यते”
“मिवोपला वा समयावशूकाकृच्छ्रेय सर्व्वेष्वपि भेषनं स्यात्”
“रेतोविघातप्रभवे तु कृच्छ्रेसमीक्ष्य दोषं प्रतिकर्म कुर्य्यात्”
इति चरके चिकित्सास्थाने २६ अध्याये
)तद्वति त्रि
कृन्तत्यनेन पापमिति सान्तपनादि-व्रतम् इत्यमरः ४२
(यथा, याज्ञवल्क्ये ।“गोमूत्रं गोमयं क्षीरं दधिसर्पिःकुशोदकम् ।जग्ध्वा परेह्न्युपवसेत् कृच्छ्रं सान्तपनं चरन्”
)स्मृतौ व्रते पुंलिङ्गोऽप्ययम्
पापम् इति मेदिनी
मूत्रकृच्छ्ररोगः इतिराजनिर्घण्टः
(“हरीतकीगोक्षुरराजवृक्ष-पाषाणभिद्धन्नयवासकानाम् ।क्वाथं पिबेन्माक्षिकसंप्रयुक्तम्
”इति वैद्यकचक्रपाणिसङ्ग्रहे मूत्रकृच्छ्राधिकारे
व्यसनम् यथा, रामायणे १४ १४ ।“अनृतं नोक्तपूर्व्वं मे चिरं कृच्छ्रेऽपि तिष्ठता ।धर्म्मलोभपरीतेन वक्ष्ये कथञ्चन”
)