| YouTube Channel

कूष्माण्डी (kUSmANDI)

 
Monier Williams Cologne
English
कूष्माण्डी
f.
id. (See कुष्म्°)
कूष्माण्डी
f.
pl.
N.
of the verses,
VS.
xx, 14-16 (spoken in a certain rite for penance or expiation),
Yājñ.
iii, 304
Shabdartha Kaustubha
Kannada
कूष्माण्डी
पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > ಋಷಿ ದೃಷ್ಟವಾದ ಮಂತ್ರಗಳು
निष्पत्तिः - > गौरा० "ङीष्" (४-१-४१)
प्रयोगाः - > "त्रिरत्रोपोषितो हुत्वा कुष्माण्डीभिर्घृतं शुचिः"
उल्लेखाः - > याज्ञ० ३-३०३
कूष्माण्डी
पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > ಕುಂಬಳದ ಗಿಡ
व्युत्पत्तिः - > कु ईषत् ऊष्मा अण्डेषु यस्य
कूष्माण्डी
पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > ದುರ್ಗಾದೇವಿ
कूष्माण्डी
पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > ಕುಂಬಳದ ಗಿಡ
निष्पत्तिः - > गौरा० "ङीष्" (४-१-४१)
Schmidt Nachtrage zum Sanskrit Worterbuch
German
कूष्माण्डी *Beninkasa cerifera, S I, 317, 15 (Ko.).
Wordnet
Sanskrit
Synonyms:
कर्कारुः, कुष्माण्डः, कुष्माण्डी, कुष्माण्डकः, कूष्माण्डः, कूष्माण्डी, कूष्माण्डकः, अलाबुः, अलाबूः, आतावुः, तुम्बी
noun
लताप्रकारः यस्याः फलात् सूपं शाकं वा पाचयति।
"कर्षके कर्कारुः पक्वः।"
Synonyms:
कर्कारुः, कुष्माण्डः, कुष्माण्डी, कुष्माण्डकः, कूष्माण्डः, कूष्माण्डी, कूष्माण्डकः, अलाबुः, अलाबूः, आतावुः, तुम्बी
noun
फलप्रकारः यस्मात् सूपं शाकं वा पाचयति।
"कतिपयाय जनाय कर्कारोः शाकं रोचते।"
Synonyms:
कूष्माण्डी
noun
सूक्तविशेषः
"कूष्माण्डी वाजसनेयीसंहितायां वर्तते"
शब्दकल्पद्रुमः
Sanskrit
कूष्माण्डी,
स्त्री,
(कूष्माण्ड + गौरादित्वात् जातित्वात्वा ङीष् ।) ओषधिः अम्बिका इति हेमचन्द्रः
(अम्बिकायाश्च कूष्माण्डबलिप्रियत्वात् तथात्वम् ।मन्त्रात्मकदेवतासु ऋक्षु तु स्त्रियां ङीप् यथा, याज्ञवल्क्ये ।“त्रिरात्रोपोषितो भूत्वा कूष्माण्डीभिर्घृतं शुचिः ।सुरापः स्वर्ण्णहारी रुद्रजापी जले स्थितः”
“त्रिरात्रसुपोषितः कूष्माण्डीभिर्यद्देवा देवहेडन-मित्याद्याभिः कूष्माण्डदृष्टाभिरनुष्टुव्भिर्मन्त्रलिङ्ग-देवताभिरृग्भिश्चत्वारिंशद्घृताहुतीर्हुत्वा शुचि-र्भवेत्”
तथा, मिताक्षरायाम् “अथ कूष्माण्डी-भिर्जुहुयाद्योऽपूतमिवात्मानं मन्येत यदर्व्वाची-नमेनोम्रूणहत्यायास्तस्मान्मुच्यते अयोनौ वा रेतःसिक्त्वा अन्यत्र स्वप्नादिति” वशिष्ठस्मृतौ ।“सर्व्ववेदपवित्राणि वक्ष्यामहमतः परम् ।येषां जपैश्च होमैश्च पूयन्ते नात्रसंशयः
अघमर्षणं देवकृतः शुद्धवत्यस्तरत् समाः ।कूष्माण्ड्यः पावमान्यश्च दुर्गासावित्र्यथैव च”
)
वाचस्पत्यम्
Sanskrit
कूष्माण्डी स्त्री ईषदूष्माऽण्डेष्ठ्वस्याः गौरा० ङीष् ओष-धिभेदे कर्कारौ दुर्गायाञ्च हेमच० दुर्गायाश्च कूष्माण्डबलिप्रियत्वात्तथात्वम् “कुष्माण्डी तु भृशं लघ्वी क-र्कारुः परिकीर्त्तिता” भावप्र० चऋग्विशेषे