| YouTube Channel

कूर्म्मविभाग (kUrmmavibhAga)

 
वाचस्पत्यम्
Sanskrit
कूर्म्मविभाग
पु०
कूर्म्मस्य तद्रुप भगवदवयवस्य विभागोऽत्न ।वराह मिहिरोक्ते नक्षत्रभेदेन देशविशेषाणां शुभाशु-भबोधके ग्रन्थभेदे वृ० सं० १४ अध्यायः यथा“नक्षत्रत्रयवर्गेराग्नेयाद्यैर्व्य वस्थितैर्नवधा भारतवर्षेमध्यात् प्रागादि विभाजिता देशाः भद्रारिमेदमाण्डवामाल्वनीपोज्जिहानसङ्ख्याताः मरुवत्सवोषयामुनसारस्वत-मत्स्यमाध्यमिकाः माथुरकोपज्योतिष धर्मारण्यानि शू-रसेनाश्च गौरग्रीवोद्देहिक पाण्डुगुडाऽश्वत्थपाञ्चालाः ।साकेतकङ्ककुरुकालकोटिकुकुराश्च पारियात्रनगः औदु-म्बरकापिष्ठलगजाह्वयाश्चेति मध्यमिदम् अथ२ पूर्बस्यामञ्जनवृषभध्वजपद्ममाल्यवद्गिरयः व्याघ्रमुखसु-ह्मकर्वटचान्द्रपुराः शूर्पकर्णाश्च खसमगधशिषिरगिरि-मिथिलसमतटोड्राश्ववदनदन्तुरकाः प्राग्ज्योतिषलौहि-त्यक्षीरोदसमुद्रपुरुषादाः उदयगिरिभद्रगौडकपौण्ड्रौत्क-लकाशिमेकलाम्बष्ठाः एकपदताम्रलिप्तिककोशलका वर्ध-मानश्च आग्नेय्यां दिशि कोशलकलिङ्गवङ्गो-पवङ्गजठराङ्गाः शौलिकविदर्भवत्सान्ध्नचेदिकाश्चोर्ध्व-कण्ठाश्च वृषनालिकेरचर्मद्वीषा विन्ध्यान्तवासिनस्त्रिपुरा ।श्मश्रुधरहेमकूटव्यालग्रीवा महाग्रीवाः किष्किन्धक-ण्टकस्थलनिषादराष्ट्राणि पुरिकदाशार्णा सहनग्नप-र्णशवरैरश्लेषाद्ये १० ११ त्रिके देशाः अथ दक्षि-णेन लङ्का कालाजिनसौरिकीर्ण तालिकटाः गिरिन-गरमलयदर्दुरमहेन्द्रमालिन्द्यभरुकच्छाः कङ्कटटङ्कणव-नवासिशिविकफणिकारकोङ्कणाभीराः आकरवेणा-वल्लकदशपुरगोनर्दकेरलकाः कर्णाटमहाटविचित्रकूट-नासिक्यकोल्लगिरिचोलाः क्रौञ्चद्वीपजटाधरकावेर्यो-रिष्यमूकश्च वैदूर्यशङ्खमुक्तात्रिवारिचरधर्मपट्टनद्वीपाः ।गणराज्यकृष्णवेल्लुरपिशिकशूर्पाद्रिकुसुमनगाः तुम्बवरकार्मणेयकयाम्योदधितापसाश्रमा ॠषिकाः काञ्चीमरु-चीपट्टनचेर्यार्यकसिंहला ऋषभाः बलदेवपट्टनं द-ण्डकावनतिमिङ्गिलाशना भद्राः कच्छोऽथ कुञ्जरदरीसताम्रपर्णीति विज्ञेयाः १२ १३ १४ नैरृत्यां दिशि ५देशाः पह्नवकाम्बोजसिन्धुसोवीराः बडवामुखारवाम्ब-ष्ठकपिलनारीमुखानर्ताः फेनगिरियवनमाकरकर्णप्रा-येयपारसवशूद्राः र्वरकिरातखण्डक्रव्यादाभीरचञ्चू-काः हेमगिरिसिन्धुकालकरैवतक्रसुराष्ट्रबादरद्रवि-डाः स्वात्यादो भत्रितये १५ १६ १७ ज्ञेयश्च महा-र्णवोऽत्रैव अपरस्यां मणिमान् मेघवान् वनौघः क्षु-रापेणीऽस्तगिरिः अपरान्तकशान्तिकद्दैहयप्रशस्तादिवो-क्वाणाः पञ्चनदरमठपारततारक्षितिजृङ्ग्वैश्यकनकश-काः निर्मर्यादा म्लेच्छा ये पश्चिमदिक्स्थितास्ते च१८ १९ २० दिशि पश्चिमोत्तरस्यां माण्डव्यतुषारता-लहलमद्राः अश्मककुलूतलहडस्त्रीराज्यनृसिंहवन-खस्थाः वेणुमती फल्गुलुका गुरुहा मरुकूर्चचर्मर-ङ्गाख्याः एकविलोचनशूलिकदीर्घग्रीवास्यकूशाश्च २१ ।२२ २३ उत्तरतः कैलासो हिमवान्वसुमान् गिरि-र्धनुष्मांश्च क्रौञ्चो मेरुः कुरवस्तथोत्तराः क्षुद्रमी-नाश्च कैकयवसातियामुनभोगस्थार्जुनायनाग्नीध्राः ।आदर्शान्तद्वीपित्रिगर्ततुरगाननाश्वमुखाः केशधरचिपि-टनासिकदासेरकवाटधानशरधानाः तक्षशिलापुष्कला-वतकैलावतकण्ठधानाश्च अम्बरमद्रकमालवपौरवकच्छार-दण्डपिङ्गलकाः माणहलहूणकोहलशीतकमाण्डव्य-भूतपुराः गान्धारयशोवतिहेमतालराजन्यखचरगव्याश्च ।यौधेयदासमेयाः श्यामार्काः क्षेमधूर्ताश्च २४, २५, २६, ।ऐशान्यां मेरुकनष्टराज्यपशुपालकीरकाश्मीराः अ-भिसारदरदतङ्गणकुलूतसैरिन्ध्रवनराष्ट्राः ब्रह्मपुरदार्व-डामरवनराज्यकिरातचीमकौलिन्दाः भल्लापलोल-जटासुर कुनठखषघोषकुचि(वि)काख्याः एकचरणानु-विश्वाः सुवर्णभूर्वसुवनं दिविष्ठाश्च पौरवचीरनिवसनत्रि-नेत्रमुञ्जाद्रिगन्धर्वाः २७ वर्गैराग्नेयाद्यैः क्रूरग्रह-पीडितैः क्रमेण नृपाः पाञ्चालो मागधिकः कालिङ्गश्च-क्षयं यान्ति आवन्तोऽथानर्तो मृत्युं चायाति सिन्धु-सौवीरः राजा हारहौरो मद्रशोऽन्यश्च कौलिन्दः”