| YouTube Channel

कूर्म्मराजः (kUrmmarAjaH)

 
शब्दकल्पद्रुमः
Sanskrit
कूर्म्मराजः,
पुं,
(कूर्म्मरूपेण कूर्म्मेषु वा राजते यः ।राज् + अच् ।) कच्छपराजः तत्पर्य्यायः अकू-पारः परवर्त्तः इति जटाधरः तथाहि ।“पृथ्वि ! स्थिरा भव भुजङ्गम ! धारयैनांत्वं कूर्म्मराज ! तदिदं द्वितयं दधीथाः ।दिक्कुञ्जराः कुरुत तत्त्रितये दिधीर्षा-मार्य्यः करोतु हरकार्म्मुकमाततज्यम्”
इति महानाटकम्
एवादिकच्छपः यथा ।“विलोक्य विघ्नेशविधिं तदेश्वरोदुरन्तवीर्य्योऽवितथोऽभिसन्धिः ।कृत्वा वपुः काच्छपमद्भुतं महत्प्रविश्य तोयं गिरिमुज्जहार
सुरासुरेन्द्रैर्मुजवीर्य्यवेपितंपरिम्रमन्तं गिरिमङ्ग ! पृष्ठतः ।बिभ्रत्तदावर्त्तनमादिकच्छपोमेनेऽङ्गकण्डूयनमप्रमेयः”
इति श्रीभागवते ८, १०