| YouTube Channel

कूर्म्मपुराण (kUrmmapurANa)

 
वाचस्पत्यम्
Sanskrit
कूर्म्मपुराण
न०
कूर्म्मेण भाषितं पुराणम् व्यासप्रणीतेषुअष्ठादशसु महापुराणेषु पञ्चदशे पुराणे तत्प्रतिपाद्यविषथाश्च वृहन्ना० दर्शिता यथा“श्रीब्रह्मोवाच शृणु वत्स! मरीचे! ऽद्य पुराणंकूर्म्मसंज्ञितम् लक्ष्मीकल्पानुचरितं यत्र कूर्म्मवपु-र्हरिः धर्म्मार्यकाममोक्षाणां माहात्म्यञ्च पृथक्पृयक् इन्द्रद्युम्न्यसङ्गेन प्राहर्षिभ्यो दयाधिकम् ।तत् सप्तदशसाहस्रं सचतुःसंहितं शुभम् यत्र व्राह्म्या(संहितया) पुरा प्रोक्ता धर्म्मा नानाविधा मुने! ।नानाकथप्रसङ्गेन नॄणां सद्गतिदायकाः” तत्पूर्वभागे“तत्र पूर्बविभागे तु पुराणोपक्रमः पुरा लक्ष्मीप्रद्यु-मृसेवादः कूर्मर्षिगणसङ्गथो वर्णाश्रमाचारकथाजगदुत्प्रत्तिकीर्त्तनम् कालसङ्ख्या समासेन लयान्तेस्तवनं विभोः ततः सङ्क्षेपतः सर्गः शाङ्करंचरितं तथा सहस्रनाम पार्वत्या योगस्य चनिरूपणम् भृगुवंशसमाख्यानं ततः स्वायम्भुवस्यच देवादीनां समुत्पत्तिर्दक्षयज्ञाहतिस्ततः द-क्षसृष्टिकथा पश्चात् कश्यपान्वयकीर्त्तनम् आत्रेयवंश-कथनं कृष्णस्य चरितं शुभम् मार्क्कण्डकृष्णसंवादोव्यासपाण्डवसंकथा युगचर्म्मानुकथनं व्यासजैमिनि-की कथा वाराणस्याश्च महात्म्यं प्रयागस्य ततःपरम् त्रैलोक्यवर्णनञ्चैव वेदशाखानिरूपणम्”तदत्तरभागे “उत्तरेऽस्य विभागे तु पुरा गीतैश्वरी ततः ।व्यासगीता ततः प्रोक्ता नानाधर्म्मप्रबोधनी नानावि-धानां तीर्थानां महात्म्यञ्च पृथक् ततः नानाधर्म-प्रकथनं ब्राह्मीयं संहिता स्मता अतः परं भगवतीसंहितार्थनिरूपणे कथिता यत्र वर्णानां पृथग्वत्तिरुदाहृता” तदुत्तरभागे भगवत्याख्यद्वितीयसंहि-तायाः पञ्चसु पादेषु “पादेऽस्याः प्रथमे प्रोक्ता ब्राह्मणानांव्यवस्थितिः सदाचारात्मिका वत्स! भोगसौख्यविवर्द्ध-नी द्वितीये क्षत्रियाणान्तु वृत्तिः सम्यक् प्रकीर्त्तिता ।यया त्वाश्रितया पापं विधूयेह व्रजेद्दिवम् तृतीयेवैश्यंजातीनां वृत्तिरुक्ता चतुर्विधा यया चरितयासम्यक् लभते गतिमुत्तमाम् चतुर्थेऽस्यास्तथा पादे शूद्र-वृत्तिरुदाहृता यया सन्तुष्यति श्रीशो नॄणां श्रेयो-विवर्द्धनः पञ्चमेऽस्यास्ततः पादे वृत्तिः सङ्करजन्म-नाम् यया चरितयाप्नोति भाविनीमुत्तमां जनिम् ।इत्येषा पञ्चपाद्युक्ता द्वितीया संहिता मुने! तृतीया-त्रोदिता सौरी नृणां कामविधायिनी षोढा षट्कर्म-सिद्धिं सा वोधयन्ती कामिनाम् चतुर्थी वैष्णवीनाम मोक्षदा परिकीर्त्तिता चतुष्पदी द्विजादीनां सा-क्षात् ब्रह्मस्वरूपिणी ताः क्रमात् षट्चतुर्द्द्वीषुसा-हस्राः परिकीर्त्तिताः” तत्फलश्रुतिः “एतत् कूर्मपुरा-णन्तु चतुर्वर्गफलप्रदम् पठतां शृण्वतां नॄणां सर्वोत्-कृष्टगतिप्रदम् लिखित्वैतत्तु यो भक्त्या हेमकूर्मसमन्वि-तम् ब्राह्मणायायने दद्यात् याति परमां गातम्” ।तच्च पुराणम् तामसं “मात्स्यं कौर्म्मं तथा लैङ्गंशैवं स्कान्दं तथैव अग्नेयञ्च षडेतानि तामसानिनिबोधत” पाद्मोत्तरख० ४३ अ०