| YouTube Channel

कूर्म्मचक्रं (kUrmmacakraM)

 
शब्दकल्पद्रुमः
Sanskrit
कूर्म्मचक्रं, क्ली (कूर्म्माकारं चक्रम् मध्यपदलोपीकर्म्मधारयः ।) कृषिकर्म्मोक्तकच्छपाकारचक्रम् ।तस्याकारो यथा, --“प्राङ्मुखो भगवान् देवः कूर्म्मरूपी व्यवस्थितः ।आक्रम्य भारतं वर्षं नवभेदं यथाक्रमम्”
तत्र नक्षत्रन्यासक्रमः ।“मध्यप्रागग्नियाम्यादिकृत्तिकादित्रयत्रयैः ।क्रूरवेधयुतैस्तैस्तु पीड्यन्ते तन्निवासिनः”
तत्र वेधो यथा, --“पूर्व्वापरे भवेद्वेधो वेधश्चोत्तरदक्षिणे ।ईशाने राक्षसे वेधो वेध आग्नेयमारुते ।तारात्रयान्वितं तत्र सौरिं यत्नेन चिन्तयेत्”
तत्र वेधादिजन्यदोषाः ।“अतिवृष्टिरनावृष्टिः शलभा मूषिकाः खगाः ।स्वचक्रं परचक्रञ्च सप्तैते सम्भवन्ति
एवं देशगृहग्रामक्षेत्रनामर्क्षतो वदेत् ।तथा यत्र नक्षत्रे दिव्यपार्थिवनाभसाः
दृश्यन्ते सुमहोत्पाताः स्वां दिशं तत्र पीडयेत् ।सौरिर्बलाधिपो दुष्टः स्वल्पवीर्य्यः शुभावहः
एकदा पीडयेद्यत्र भानुजः कूर्म्मपञ्चके ।तत्र स्थाने महाविघ्नो जायते नात्र संशयः
दुष्टस्थाने गते चन्द्रे कर्त्तव्यं शान्तिपौष्टिकम्”
तच्चक्रमध्यस्था देशाः ।“मध्ये सारस्वता मत्स्याः शूरसेनाः समाथुराः ।पञ्चालशाल्वमाण्डव्यकुरुक्षेत्रगजाह्वयाः
मरुनैमिषविन्ध्याद्रिपाण्ड्यघोषाः सयामुनाः ।काश्ययोध्या प्रयागश्च गया वैदेहकादयः”
तत्र पूर्व्वस्थदेशाः ।“प्राच्यां मागधशोणौ वारेन्द्रोगौडरा ढकाः ।वर्द्धमानतमोलिप्तप्राग् ज्योतिषोदयाद्रयः”
तत्राग्निकोणस्थदेशाः ।“आग्नेय्यामङ्गवङ्गोपवङ्गत्रैपुरकोशलाः ।कलिङ्गौड्रान्ध्रकिष्किन्ध्याविदर्भशवरादयः”
तत्र दक्षिणस्थदेशाः ।“दक्षिणेऽवन्तिमाहेन्द्रमलया ऋष्यमूककाः ।चित्रकूटमहारण्यकाञ्चीसिंहलकोङ्कणाः ।कावेरी ताम्रपर्णी लङ्कात्रिकूटकादयः”
तत्र नैरृतकोणस्थदेशाः ।“नैरृते द्रविडानर्त्तमहाराष्ट्राश्च रैवतः ।यवनः पह्नवः सिन्धुः पारसीकादयो मताः”
तत्र पश्चिमस्थदेशाः ।“पश्चिमे हैहयाऽस्ताद्रिम्लेच्छवासशकादयः”
तत्र वार्युकोणस्थदेशाः ।“वायव्ये गुज्जराटश्च नाटजालन्धरादयः”
तत्र उत्तरस्थदेशाः ।“उत्तरे चीननेपालहूनकैकेयमन्दराः ।गान्धारहिमवत्क्रौञ्चगन्धमादनमालवाः ।कैलासमद्रकाश्मीरम्लेच्छदेशाः खसादयः”
तत्रेशानकोणस्थदेशाः ।“ऐशाने स्वर्णभौमश्च गङ्गाद्वारस्तु टङ्कणः ।वाह्लीकब्रह्मपुरककीराता दरदादयः”
इति ज्योतिस्तत्त्वम्
*
जपयज्ञकर्म्मोक्तकमठा-कारचक्रम् तस्य लिखनक्रमः ।“चतुरस्रां भुवं भित्त्वा कोष्ठानां नवकं लिखेत् ।पूर्व्वकोष्ठादि विलिखेत् सप्तवर्गाननुक्रमात्
लक्षमीशे मध्यकोष्ठे स्वरान् युग्मक्रमाल्लिखेत् ।दिक्षु पूर्व्वादितो यत्र क्षेत्राद्यक्षरसंस्थितिः
मुखं तत्तस्य जानीयात् हस्तावुभयतः स्थितौ
कोष्ठे कुक्षी उभे पादौ द्वे शिष्टं पुच्छमीरितम्
क्रमेणानेन विभजेन्मध्यस्थमपि भागतः”
*
तस्याङ्गविशेषे स्थितस्य जपादौ गुणदोषाः यथा ।“मुखस्थो लभते सिद्धिं करस्थः स्वल्पजीवनः ।उदासीनः कुक्षिसंस्थः पादस्थो दुःखमाप्नुयात्
पुच्छस्थः पीड्यते मन्त्री बन्धनोच्चाटनादिभिः ।कूर्म्मचक्रमिदं प्रोक्तं मन्त्रिणां सिद्धिदायकम्”
*
तदज्ञाने दोषो यथा, पिङ्गलायाम् ।“कूर्म्मचक्रमविज्ञाय यः कुर्य्यात् जपयज्ञकम् ।तस्य यज्ञफलं नास्ति सर्व्वानर्थाय कल्पते”
इति तन्त्रसारः
(तन्त्रोक्तग्रहणीयमन्त्रशुभादि-सूचककूर्म्माकारचक्रविशेषः तत्स्वरूपादि रुद्र-यामले उक्तम् यथा ।“कूर्म्मचक्रं प्रवक्ष्यामि शुभाशुभफलात्मकम् ।यज्ज्ञात्वा सर्व्वशास्त्रार्थं जानाति पण्डितोत्तमः
अभेद्यं भेदकं चक्रं शृणुष्वादरपूर्व्वकम् ।कूर्म्माकारं महाचक्रं चतुष्पादसमावृतम्
तुण्डे स्वरान्, दक्षपादे कवर्गं, वामपादके ।चवर्गं, कीर्त्तितं पश्चात् अधःपादे टवर्गकम्
तदधस्तु तवर्गः स्यादुदरे पवर्गकम् ।यवान्तं हृदये प्रोक्तं शहान्तं पृष्ठमध्यके
लाङ्गूले शक्रवीजञ्च क्षकारं लिङ्गमध्यके ।लिखित्वा गणयेन्मन्त्री चक्राकारं मलापहम्
स्वरे लाभः कवर्गे श्रीश्चवर्गश्च विवेकदः ।टवर्गे राजपदवी तवर्गे धनवान् भवेत्
उदरे सर्व्वनाशः स्यात् हृदये बहुदुःखभाक् ।पृष्ठे सर्व्वसन्तापः लाङ्गूले मरणं ध्रुवम्
वैष्णवे पृष्ठेदेशे तु दुःखञ्च वामपादके ।विरुद्धद्वयलाभे तु कुर्य्याच्चक्रचिन्तनम्
विरुद्धैके धर्म्मनाशो युग्मदोषे मारणम् ।यत्र देवाक्षरञ्चास्ति तत्र चेन्निजवर्णकम्
विरुद्धञ्च त्यजेच्चक्रमन्यमन्त्रं विचारयेत् ।पृथक् होमे यदि भवेत् वर्णमाला महेश्वर !
यदि तत्सौख्यभावः स्यात् तत्सौख्यं नापि वर्ज्जयेत्
विभिन्नगेहे दोषश्चेत् शुभमन्त्रञ्च संत्यजेत्
इति ते कथितं देव ! दृष्टादृष्टफलप्रदम् ।ये शोधयन्ति चक्रेन्द्रं मन्त्रसिद्धिप्रदं शुभम्”
*
कूर्म्मरूपी विष्णुः केन रूपेण विराजते तत्संस्थान-विवरणं मार्कण्डेयपुराणे ५८ अध्याये उक्तम्
तद्-यथा क्रोष्टुकिरुवाच ।“भगवन् ! कथितं सम्यक् भवता भारतं मम ।सरितः पर्व्वता देशा ये तत्रं वसन्ति
किन्तु कूर्म्मस्त्वया पूर्व्वं भारते भगवान् हरिः ।कथितस्तस्य संस्यानं श्रोतुमिच्छाम्यशेषतः
कथं संस्थितो देवः कूर्म्मरूपी जनार्द्दनः
शुभाशुभ मनुष्याणां व्यज्यते ततः कथम् ।यथामुखं यथापादस्तस्य तद्ब्रूह्यशेषतः
मार्कण्डेय उवाच ।प्राङ्मुखो भगवान् ! देवः कूर्म्मरूपी व्यवस्थितः ।आक्रम्य भारतं वर्षं नवभेदमिदं द्विज !
नवधा संस्थितान्यस्य नक्षत्राणि समन्ततः ।विषयाश्च द्विजश्रेष्ठ ! ये सम्यक् तान्निबोध मे
वेदमन्त्रा विमाण्डव्याः शाल्वनीपास्तथा शकाः ।उज्जिहानास्तथा वत्स ! घोषसङ्ख्यास्तथा खशाः
मध्ये सारस्वता मत्स्याः शूरसेनाः समाथुराः ।धर्म्मारण्या ज्योतिषिका गौरग्रीवा गुडाश्मकाः
विदेहकाः सपाञ्चालाः सङ्केताः कङ्कमारुताः ।कालकोटिसपाषण्डाः पारिपात्रनिवासिनः
कापिङ्गलाः कुरुर्वाह्यस्तथैवोडुम्बरा जनाः ।गजाह्वयाश्च कूर्म्मस्य जलमध्यनिवासिनः
कृत्तिका रोहिणी सौम्या एतेषां मध्यवासिनाम् ।नक्षत्रत्रितयं विप्र ! शुभाशुभविपाटकम्
वृषध्वजोऽञ्जनश्चैव जम्ब्वाख्यो मानवाचलः ।सूर्पकर्णो व्याघ्रमुखः खर्मकः कर्व्वटाशनः
तथा चन्द्रेश्वराश्चैव खशाश्च मगधास्तथा ।गिरयो मैथिलाः शुभ्रास्तथा वदनदन्तुराः
प्राग्ज्योतिषाः सलौहित्याः सामुद्राः पुरुषादकाः ।पूर्णोत्कटो भद्रगौरस्तथोदयगिरिर्द्विज !
कशाया मेखलामुष्टास्ताम्रलिप्तैकपादपाः ।वर्द्धमानाः कोशलाश्च मुखे कूर्म्मस्य संस्थिताः
रौद्रः पुनर्व्वसुः पुष्यो नक्षत्रत्रितयं मुखे ।पादे तु दक्षिणे देशाः क्रोष्टुके वदतः शृणु
कलिङ्गवङ्गजठराः कोशला मृषिकास्तथा ।चेदयश्चोर्द्धकर्णाश्च मत्स्याद्या विन्ध्यवासिनः
विदर्भा नारिकेलाश्च धर्म्मद्वीपास्तथैलिकाः ।व्याघ्रग्रीवा महाग्रीवास्त्रैपुराः श्मश्रुधारिणः
कैस्किन्धा हैमकूटाश्च निषधाः कटकस्थलाः ।दशार्णाहारिका नग्ना निषादाः काकुलालकाः
तथैव पर्णशवराः पादे वै पूर्व्वदक्षिणे ।अश्लेषर्क्षं तथा पैत्र्यं फालगुन्यः प्रथमास्तथा
नक्षत्रत्रितयं पादमाश्रितं पूर्व्वदक्षिणम् ।लङ्का कालाजिनाश्चैव शैलिका निकटास्तथा
महेन्द्रमलयाद्रौ दर्द्रुरे वसन्ति ये ।कर्कोटकवने ये भृगुकच्छाः सकोङ्कणाः
सर्व्वाश्चैव तथाऽऽभीरा वैण्यास्तीरनिवासिनः ।अवन्तयो दासपुरा स्तथैवाकणिनो जनाः
महाराष्ट्राः सकर्णाटा गोनर्द्दाश्चित्रकूटकाः ।चोलाःकोलगिराश्चैव क्रौञ्चद्वीपजढाधराः
कावेरी ऋष्यमूकस्था नासिक्याश्चैव ये जनाः ।शङ्खशुक्त्यादिवैदूर्य्यशैलप्रान्तचराश्च ये ।तथा वारिचराः कोलाः चर्म्मपट्टनिवासिनः ।गणवाह्याः पराः कृष्णाद्वीपवासनिवासिनः
सूर्य्याद्रौ कुमुदाद्रौ ते वसन्ति तथा जनाः ।औखावनाः सपिशिका स्तथा ये कर्म्मनायकाः
दक्षिणाः कौरुषा ये ऋषिकास्तापसाश्रमाः
ऋषभाः सिंहलाश्चैव तथा काञ्चीनिवासिनः ।तिलङ्गा कुञ्जरदरी कच्छवासाश्च ये जनाः ।ताम्रपर्णी तथा कुक्षिरिति कूर्म्मस्य दक्षिणः ।फालगुन्यश्चोत्तरा हस्ता चित्रा चर्क्षत्रयं द्विज ! ।कूर्म्मस्य दक्षिणे कुक्षौ वाह्यपादस्तथापरम्
काम्बोजाः पह्लवाश्चैव तथैव वडवामुखाः ।तथा सिन्धुसौवीराः सानर्त्ता वनितामुखाः
द्रावणाः सार्गिगाः शूद्राः कर्णप्राधेयवर्वराः ।किराताः पारदाः पाण्ड्यास्तथा पारशवाः कलाः
धूर्त्तका हैमगिरिकाः सिन्धुकालकवैरताः ।सौराष्ट्रा दरदाश्चैव द्राविडाश्च महार्णवाः
एते जनपदाः पादे स्थिता वै दक्षिणेऽपरे !स्वात्यो विशाखा मैत्रञ्च नक्षत्रत्रयमेव
मणिमेघः क्षुराद्रिश्च खञ्जनोऽस्तगिरिस्तथा ।अपरान्तिका हैहयाश्च शान्तिका विप्रशस्तकाः
कोकङ्कणाः पञ्चदकाः वमना ह्यवरास्तथा ।तारक्षुरा ह्यङ्गतकाः शर्कराः शाल्मवेश्मकाः
गुरुस्वराः फल्गुनकाः वेणुमत्याञ्च ये जनाः ।तथा फल्गुलुका घोरा गुरुहाश्च कलास्तथा
एकेक्षणा वाजिकेशा दीर्घग्रीवाः सचूलिकाः ।अश्वकेशास्तथा पुच्छे जनाः कूर्म्मस्य संस्थिताः
ऐन्द्रमूलन्तथाषाढा नक्षत्रत्रयमेव ।माण्डव्याश्चण्डखाराश्च अश्वकालनतास्तथा
कुन्यतालडहाश्चैव स्त्रीवाह्या बालिकास्तथा ।नृसिंहा वेणुमत्याञ्च बलावस्थास्तथापरे
धर्म्मबद्धास्तथालूका उरुकर्म्मस्थिता जनाः ।वामपादे जनाः पार्श्वे स्थिताः कूर्म्मस्य भागुरे
आषाढाश्रबणे चैव धनिष्ठा यत्र संस्थिता ।कैलासो हिमवांश्चैव धनुष्मान् वसुमांस्तथा
क्रौञ्चाः कुरुवकाश्चैव क्षुद्रवीणाश्च ये जनाः ।रसालयाः सकैकेया भोगप्रस्थाः सयामुनाः
अन्तर्द्वीपास्त्रिगर्त्ताश्च अग्नीज्याः सार्दना जनाः ।तथैवाश्वमुखाः प्राप्ताश्चिविडाः केशधारिणः
दासेरका वाटधानाः शवधानास्तथैव ।पुष्कलाधमकैराता स्तथा तक्षशिलाश्रयाः
अम्बाला मालवा मद्रा वेणुकाः सवदन्तिकाः ।पिङ्गला मानकलहा हूणाः कोहलकास्तथा
माण्डव्या भूतियुवकाः शातका हेमतारकाः ।यशोमत्याः सगान्धाराः स्वरसागरराशयः
यौधेया दासमेयाश्च राजन्याः श्यामकास्तथा ।क्षेमधूर्त्ताश्च कूर्म्मस्य वामकुक्षिमुपाश्रिताः
वारुणञ्चात्र नक्षत्रं तत्र प्रौष्ठपदाद्वयम् ।येन किन्नरराज्यञ्च पशुपालं सकीचकम्
काश्मीरकं तथा राष्ट्रमभिसारजनस्तथा ।दवदास्त्वङ्गनाश्चैव कुलटा वनराष्ट्रकाः
सैरिष्टा ब्रह्मपुरकास्तथैव वनवाह्यकाः ।किरातकौशकानन्दा जनाः पह्लवलोलनाः
दार्वादा मरकाश्चैव कुरटाश्चान्नदारकाः ।एकपादाः खशा घोषाः स्वर्गभौमानवद्यकाः
तथा सयवना हिङ्गाश्चीरप्रावरणाश्च ये ।त्रिनेत्राः पौरवाश्चैव गन्धर्व्वाश्च द्विजोत्तम !
पूर्व्वोत्तरन्तु कूर्म्मस्य पादमेते समाश्रिताः ।रेवत्याश्चाश्विदैवत्यं याम्यञ्चर्क्षमिति त्रयम्
तत्र पादे समाख्यातं पाकाय मुनिसत्तम ! ।देशेष्वेतेषु चैतानि नक्षत्राण्यपि वै द्विज !
एतत्पीडा अमी देशाः पीड्यन्ते ये क्रमोदिताः ।यान्ति चाभ्युदयं विप्र ! ग्रहैः सम्यगवस्थितैः ।यस्यर्क्षस्य पतिर्यो वै ग्रहस्तद्भावितो भयम्
तद्देशस्य मुनिश्रेष्ठ ! तदुत्कर्षे शुभागमः ।प्रत्येकं देशसामान्यं नक्षत्रग्रहसम्भवम्
भयं लोकस्य भवति शोभनं वा द्विजोत्तम ! ।स्वर्क्षैरशोभनैर्जन्तोः सामान्यमिति भीतिदम्
ग्रहैर्भवति पीडोत्थमल्पायासमशोभनम् ।तथैव शोभनः पाको दुःस्थितैश्च तथा ग्रहैः
अल्पोपकाराय नृणां देशज्ञैश्चात्मनो बुधैः ।द्रव्ये गोष्ठेऽथ भृत्येषु सुहृत्सु तनयेषु वा
भार्य्यायाञ्च ग्रहे दुःस्थे भयं पुण्यवतां नृणाम्
आत्मन्यथाल्पपुण्यानां सर्वत्रैवातिपापिनाम् ।नैकत्रापि ह्यपापानां भयमस्ति कदाचन
दिग्देशजनसामान्यं नृपसामान्यमात्मजम् ।नक्षत्रग्रहसामान्यं नरो भुङ्क्ते शुभाशुभम्
परस्पराभिरक्षा ग्रहादौःस्थ्येन जायते ।एतेभ्य एव विप्रेन्द्र ! शुभहानिस्तथाशुभैः
यदेतत् कूर्मसंस्थानं नक्षत्रेषु मयोदितम् ।एतत् तु देशसामान्यमशुभं शुभमेव ।तस्मात् विज्ञाय देशर्क्षं ग्रहपीडान्तथात्मनः
कुर्व्वीत शान्तिं मेधावी लोकवादांश्च सत्तम ! ।आकाशाद्देवतानाञ्च दैत्यादीनाञ्च दौर्हृदाः
पृथ्व्यां पतन्ति ते लोके लोकवादा इति श्रुताः ।तां तथैव बुधःकुर्य्यात् लोकवादान्न हापयेत्
तेषान्तत्करणान्नॄणां युक्तो दुष्टागमक्षयः
शुभोदयं प्रहाणिञ्च पापानां द्विजसत्तम ! ।प्रज्ञाहानिं प्रकुर्य्युस्ते द्रव्यादीनाञ्च कुर्वते
तस्माच्छान्तिपरः प्राज्ञो लोकवादरतस्तथा ।लोकवादांश्च शान्तीश्च ग्रहपीडासु कारयेत्
अद्रोहानुपवासांश्च शस्तं चैत्यादिवन्दनम् ।जपं होमं तथा दानं स्नानं क्रोधादिवर्जनम्
अद्रोहः सर्व्वभूतेषु मैत्रीं कुर्य्याच्च पण्डितः ।वर्जयेदसतीं वाचमतिवादांस्तथैव
ग्रहपूजाञ्च कुर्व्वीत सर्व्वपीडासु मानवः ।एवं शाम्यन्त्यशेषाणि घोराणि द्विजसत्तम !
प्रयतानां मनुष्याणां ग्रहर्क्षोत्थान्यशेषतः ।एष कूर्मो मया ख्यातो भारते भगवान् विभुः
नारायणो ह्यचिन्तात्मा यत्र सर्व्वं प्रतिष्ठितम् ।तत्र देवाः स्थिताः सर्व्वे प्रतिनक्षत्रसंश्रयाः
तथा मध्ये हुतवहः पृथ्वी सोमश्च वै द्विज ! ।मेषादयस्त्रयो मध्ये मुखे द्वौ मिथुनादिकौ
प्राग्दक्षिणे तथा पादे कर्किसिंहौ व्यवस्थितौ ।सिंहकन्यातुलाश्चैव कुक्षौ राशित्रयं स्थितम् ।तुलाथ वृश्चिकश्चोभौ पादे दक्षिणपश्चिमे
पृष्ठे वृश्चिकेनैव सह धन्वी व्यवस्थितः ।वायव्ये चास्य वै पादे धनुर्ग्राहादिकं त्रयम्
कुम्भमीनौ तथैवास्य उत्तरां कुक्षिमाश्रितौ ।मीनमेषौ द्विजश्रेष्ठ ! पादे पूर्व्वोत्तरे स्थितौ
कूर्मे देशास्तथर्क्षाणि देशेष्वेतेषु वै द्विज !
राशयश्च तथर्क्षेषु ग्रहराशिष्ववस्थिताः ।तस्माद्ग्रहर्क्षपीडासु देशपीडां विनिर्दिशेत्
तत्र स्नात्वा प्रकुर्वीत दानहोमादिकं विधिम् ।स एष वैष्णवः पादो ब्रह्मा मध्ये ग्रहस्य यः”
*
विष्णुः एव कश्यपसंज्ञया परिकीर्त्त्यते तत्प्रमा-णादिकं यथा, -- शतपथब्राह्मणे ।“स यत्कूर्म्मो नाम प्रजापतिः प्रजा असृजतयदसृजताकरोत् तद् यदकरोत् तस्मात् कूर्म्मःकश्यपो वै कूर्म्मस्तस्मादाहुः सर्व्वाः प्रजाः का-श्यप्य” इति
अत्र स्वामिदयानन्दकृतभाष्यम् ।स यत् कूर्म्म इति “परमेश्वरेणेदं सकलं जगत्क्रियते तस्मात्तस्य कूर्म्म इति संज्ञा कश्यपो वैकूर्म्म इत्यनेन परमेश्वरस्यैव कश्यपनामास्ति ।तेनैव इमाः सर्व्वाः प्रजा उत्पादितास्तस्मात्सर्व्वा इमाः प्रजाः काश्यप्य इत्युच्यन्ते कश्यपःकस्मात् पश्यको भवतीति निरुक्त्या पश्यतीतिपश्यः सर्व्वज्ञतया सकलं जगत् विजानाति पश्यःपश्य एव निर्भ्रमतयातिसूक्ष्ममपि वस्तु यथार्थं जा-नात्येव अतः पश्यक इति आद्यान्ताक्षरविपर्य्यया-सिद्धेःसिंहः कृतेस्तर्कुरित्यादिवत् कश्यप इति हय-वरट् इत्येतस्योपरि महाभाष्यप्रमाणेन पदं सिध्य-ति अतः सुष्टु विज्ञायते काश्यप्यः प्रजा इति”
*
)