| YouTube Channel

कूर्म्मचक्र (kUrmmacakra)

 
शब्दसागरः
English
कूर्म्मचक्र
n.
(-क्रं) An astrological diagram.
E.
कूर्म्म, and चक्र circle.
Yates
English
कूर्म्म-चक्र (क्रं) 1.
n.
An astrological
diagram or tortoise-like wheel.
Wilson
English
कूर्म्मचक्र
n.
(-क्रं) An astrological diagram.
E.
कूर्म्म, and चक्र circle.
वाचस्पत्यम्
Sanskrit
कूर्म्मचक्र
न०
कूर्म्माकारं चक्रम् तन्त्रोक्ते ग्राह्यमन्त्रशुभादिसूचके कूर्म्माकारे चक्रभेदे तत्स्वरूपादि रुद्र-यामले उक्तं यथा“कूर्म्मचक्रं प्रवक्ष्यामि शुभाशुभफलात्मकम् यज् ज्ञात्वासर्व्वशास्त्रार्थं जानाति पण्डितोत्तमः अभेद्यं भेदकंचक्रं शृणुष्वादरपूर्व्वकम् कूर्म्माकारं महाचक्रं चतु-ष्पादसमावृतम् तुण्डे स्वरान्, दक्षपादे कवर्गं, वामपा-दके चवर्गं, कीर्त्तितं पश्चात् अधःपादे टवर्गकम् तद-धस्तु तवर्गः स्यादुदरे पवर्गकम् यवान्तं हृदये प्रोक्तंशहान्तं पृष्ठमध्यके लाङ्गूले शक्रवीजञ्च(लं) क्षकारंलिङ्गमध्यके लिस्वित्वा गणयेण्मन्त्री चक्राकरं मलापह-म् स्वरे लाभः कवर्गे श्रीश्चवर्गश्च विवेकदः टवर्गे राज-पदवी तवर्गे धनवान् भवेत् उदरे सर्वनाशः स्यात्हृदये बहुदुःखभाक् पृष्ठे सर्व्वसन्तापः लाङ्गूलेमरणं ध्रुवम् वैष्णवे पृष्ठदेशे तु दुःस्यञ्च वामपादके ।विरुद्धद्वयलाभे तु कूर्य्याच्चक्रचिन्तनम् विरुद्धैके धर्म्म-नाशो युग्मदोषे मारणम् यत्र देवाक्षरञ्चास्ति तत्रचेन्निजवर्णकम् विरुद्धञ्च त्यजेच्चक्रमन्यमन्त्रं विचारयेत् ।पृथक् होमे यदि भवेत् वर्णमाला महेश्वर! ! यदि तत्सौख्यभाषः स्यात् तत् सौख्यं नापि वर्ज्जयेत् विभिन्नगेहेदोषश्चेत् शुभमन्त्रञ्च संत्यजेत् इति ते कथितंदेव! दृष्टा-दृष्टफलप्रदम् ये शोधयन्ति चक्रेन्द्रं मन्त्रसिद्धिप्रदंशुभम्” ।२ जपाङ्गदेशभेदसूचके चक्रभेदे तत्स्वरूपं तन्त्रसारेउक्तं यधा “दीपस्थानं समाश्रित्य कृतं कर्मफलप्रदम् दीप्यते पुरुषो यत्र दीपस्थानं तदुच्यते ।चतुरस्रां भुवंभित्त्वा कोष्ठानां नवकं लिखेत् पूर्व्वको-ष्ठादि विलिखेत् सप्तवर्गाननुक्रमात् लक्षमीशे मध्यकोष्ठेस्वरान् युग्मक्रमाल्लिखेत् दिक्षु पूर्वादितो यत्र क्षेत्रा-द्यक्षरसंस्थितिः मुखं तत्तस्य जानीयात् हस्तावुभयतःस्थितौ कोष्ठे कुक्षी उभे पादौ द्वे शिष्टे पुच्छमी-रितम् क्रमेणानेन विभजेत् मध्यस्थमपि भागतः ।मुखस्थो लभते सिद्धिं करस्थः स्वल्पजीवनः उदा-सीनः कुक्षिसंस्थः पादस्थो दुःस्वमाप्नुयात् पुच्छस्थःपीड्यते मन्त्री बन्धनोच्चाटनादिभिः कूर्मचक्रमिदं प्रोक्तंमन्त्रिणां सिद्धिदायकम्” पिङ्गलायाम् “कूर्मचक्रमवि-ज्ञाय यः कुर्य्याज्जपयज्ञकम् तस्य यज्ञफलं नास्तिसर्व्वानर्थाय कल्पते” ।३ ज्योतिषोक्ते नक्षत्रभेदेन देशभेदानां शुभाशुभज्ञापकेकूर्म्माकारे चक्रे तन्निरूपम् ज्यो० त० यथा“प्राङ्मुखो भगवान् देवः कूर्मरूपी व्यवस्थितः आक्रम्यभारतं वर्षं नवभेदंयथाक्रमम्” तत्र नखत्रन्यासक्रमः“मध्यप्रागग्नियाम्यादि कृत्तिकादित्रयत्रयैः क्रूर-वेधयुतैस्तैस्तु पीड्यन्ते तन्निवासिनः” तत्र वेधो यथा“पूर्वापरे भवेद्वेधो वेधश्चोत्तरदक्षिणे ईशानराक्ष से वेधोवेध आग्नेयमारुते तारात्रयान्वितं तत्र सौरिं यत्ने-न चिन्तयेत्” तत्र वेधादिजन्यदोषाः “अतिवृष्टिग्नावृष्टिःशलभा मूषिकाः खगाः स्वचक्रं परचक्रञ्च सप्तैते स-म्भवन्ति एवं देशगृहग्रामक्षेत्रनामर्क्षतो वदेत् ।तयाच यत्र नक्षत्रे दिव्यपार्थिवनाभसाः दृश्यन्ते सुमहोत्पाताः स्वां दिशं तत्र पीडयेत् सौरिर्बलाधिको दुष्टः, स्वल्पवीर्य्यः शुभावहः एकदा पीड-येद्यत्र भानुजः कूर्मचक्रके तत्र स्थाने महाविघ्वो जाय-ते नात्र संशयः दुष्टस्थाने गते चन्द्रे कर्त्तव्यंशान्तिपौष्टिकम् दूष्यदेशभेदाश्च कूम्मविभागशब्दे दृश्याः