| YouTube Channel

कूर्च्चः (kUrccaH)

 
शब्दकल्पद्रुमः
Sanskrit
कूर्च्चः, पुं
क्ली,
(कुर् + चट् निपातनात् दीर्घः ।)भ्रुवोर्मध्यम् भ्रूद्वयमध्यस्थानम् इत्यमरः ।६ ९२
मयूरपुच्छमुष्टिः कुशमुष्टिः इतिहरिवंशे पुण्यकव्रतटीकायां नीलकण्ठः
कठि-नम् श्मश्रु कैतवम् इति मेदिनी
विकत्थ-नम् दम्भः क्षिप्रोपरिभागः तु अङ्गुष्ठाङ्गु-लिमध्यस्य उपरिभागः इति हेमचन्द्रः
हूंवीजम् इति तन्त्रम्
(यथा, कर्पूरस्तवे “वर्गाद्यंवह्निसंस्थं विधुरतिवलितं तत्त्रयं कूर्च्चयुग्मम्”
तथा, भैरवतन्त्रे ।“कालीवीजद्वयं देवि ! दीर्घं हूंकारमेव ।त्र्यक्षरी सा महाविद्या चामुण्डा कालिका स्मृता”
)
कूर्च्चः,
पुं,
(कुर् + बाहुलकात् चट् निपातनात् दीर्घः ।)शीर्षम् इति धरणी