| YouTube Channel

कूर्च्चं (kUrccaM)

 
शब्दकल्पद्रुमः
Sanskrit
कूर्च्चं,
क्ली,
(कुर्य्यते इति कुर् बाहुलकात् चट् निपा-तनात् दीर्घः ।) मलापकर्षार्थकेशादिमुष्टिः कुँचिइति भाषा यथा, -- नरसिंहपुराणे ।“ततः समर्पयेत् कूर्च्चमुशीरादिविनिर्म्मितम् ।मलापकर्षणाद्यर्थं श्रीमन्मूर्त्त्यङ्गसन्धितः”
विष्णुधर्म्मोत्तरे ।“उशीरकूर्च्चकं दत्त्वा सर्व्वपापैः प्रमुच्यते ।दत्त्वा गोदालजं कूर्च्चं सर्व्वांस्तापान् व्यपोहति ।दत्त्वा चामरकं कूर्च्चं श्रियमाप्नोत्यनुत्तमाम्”
इति श्रीहरिभक्तिविलासस्य विलासे ४८ श्लोकः