| YouTube Channel

कूण (kUNa)

 
शब्दसागरः
English
कूण r. 10th cl. (कूणयते-ति) To contract or close.
Wilson
English
कूण r. 10th cl. (कूणयते-ति) To contract or close.
Shabdartha Kaustubha
Kannada
कूण - सङ्कोचे (चुरा० उभ० सक० से०) कूणयति-ते
पदविभागः - > धातुः
कन्नडार्थः - > ಸಂಕೋಚ ಹೊಂದು /ಚಿಕ್ಕದಾಗು /ಹಿಂದಕ್ಕೆ ಎಳೆದುಕೊ
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
कूण्
मूलधातुः:
कूण
धात्वर्थः:
सङ्कोचने
गणः:
चुरादिः
कर्मकत्वं:
सकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
उभयपदी
रूपम्:
कूणयति-ते
अनुबन्धादिविशेषः:
अदन्तः
धातुप्रदीपः
Sanskrit
कूणँ कूण संकोचने
- कूणयते कूणिः 151
शब्दकल्पद्रुमः
Sanskrit
कूण, त् सङ्कोचे इति कविकल्पद्रुमः
(अद-न्तचुरां-परं-अकं-सेट् ।) दीर्घी मूर्द्धन्योपधःअचुकूणच्चक्षुः सङ्कुचितमभूदित्यर्थः इति दुर्गा-दासः
कूण, सङ्कुचि इति कविकल्पद्रुमः
(चुरां-आत्मं-अकं-सेट् ।) षष्ठस्वरी ङ, कूणयते चक्षुःसङ्कुचितं स्यादित्यर्थः पञ्चमस्वरीत्येके इतिदुर्गादासः
वाचस्पत्यम्
Sanskrit
कूण आभाषे मन्त्रणे अद० चुरा०
उभ०
सक०
सेट् कूण-यति--ते अचुकूणत् कूणयाम्--बभूव आस चकारचक्रे
कूण सङ्कोचे चुरा० आत्म० अक० सेट् कूणयते अचूकुणत कूणितम् कूणिः प्रनिकूणयति
क्षीरतरङ्गिणी
Sanskrit
कूणँ कूण संकोचने
सुखं विकूणयते 156
धातुवृत्तिः
Sanskrit
कूणँ कूण (अर्थः) सङ्कोचने
( कूणयते कूणिः ) अन्ये तु कुणितिहस्वोपधं पठन्ति वयन्तु कृणितादिदर्शनान्मैत्रेयाद्युक्तं दीर्घोपधत्त्वमेव बहुमन्यामहे ह्रस्वोपधस्तु कथादौ भविष्यति शब्दोपकरणयोः कुणतीति शे 154
कृदन्तरूपमाला
Sanskrit
1 {@“कूण सङ्कोचे”@} 2 आकुस्मीयः।
कूणकः-णिका, चुकूणयिषकः-षिका, इत्यादीनि सर्वाण्यपि रूपाणि ‘कूट आप्रदाने’ 3 इति धातुवत् ज्ञेयानि।
प्रासङ्गिक्यः
01
=>
(२४२)
02
=>
(१०-चुरादिः-१६८९। सक। सेट्। आत्म।)
03
=>
(२४०)
1 {@“कूण सङ्कोचने”@} 2 कूणयन्-न्ती, कूणयिष्यन्-न्ती-ती, चुकूणयिषन्-न्ती-ती, चुकूणयिषिष्यन्- न्ती-ती, इति शतृप्रत्ययोऽधिकोऽत्रेति विशेषः।
अन्यानि सर्वाण्यपि रूपाणि ‘कूट आप्रदाने’ 3 इति चौरादिकधातुवज्ज्ञेयानि।
प्रासङ्गिक्यः
01
=>
(२४३)
02
=>
(१०-चुरादिः-१८९६-अक, सेट्। उभ।)
03
=>
(२४०)