| YouTube Channel

कूटस्थः (kUTasthaH)

 
Hindi
Hindi
आध्यात्मिक स्थित
Apte Hindi
Hindi
कूटस्थः
पुं*
कूट-स्थः -
परमात्मा
शब्दकल्पद्रुमः
Sanskrit
कूटस्थः, त्रि, (कूटे मायायां तिष्ठतीति यद्वा, कूट-वत् निर्व्विकारेण निश्चलः सन् तिष्ठतीति कूट् +स्था + कः ।) एकरूपतया यः कालव्यापी सः इत्य-मरः
(परमात्मा यथा, पञ्चदश्यां २२-२७ ।“अधिष्ठानतया देहद्वयावच्छिन्नचेतनः ।कूटवन्निर्व्विकारेण स्थितः कूटस्थ उच्यते
कूटस्थे कल्पिता बुद्धिस्तत्र चित्प्रतिविम्बकः ।प्राणानां धारणाज्जीवः संसारेण युज्यते
जलव्योम्ना घटाकाशो यथा सर्व्वस्तिरोहितः ।तथा जीवेन कूटस्थः सोऽन्योन्याध्यास उच्यते
अयं जीवो कूटस्थं विविनक्ति कदाचन ।अनादिरविवेकोऽयं मूलाविद्येति गम्यताम्
विक्षेपावृतिरूपाभ्यां द्विधा ऽविद्या प्रकल्पिता ।न भाति नास्ति कूटस्थ इत्यापादनमावृतिः
अज्ञानी विदुषा पृष्टः कूटस्थं प्रबुध्यते ।न भाति नास्ति कूटस्थ इति बुद्ध्वा वदत्यपि”
कूटस्थचैतन्यस्य अविद्याध्यस्ततयैव जीवत्वं नतुस्वरूपतः नितरां तस्मादपि निरध्यस्तत्वात् नि-र्म्मलः सच्चिदानन्दस्वरूपावस्थः पुरुषोत्तमः पर-मात्मेत्युच्यते यथा, गीतायां १५ १६-१७ ।“द्वाविमौ पुरुषौ लोके क्षरश्चाक्षर एव ।क्षरः सर्व्वाणि भूतानि कूटस्थोऽक्षर उच्यते
उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः ।यो लोकत्रयमाविश्य विभर्त्त्यव्यय ईश्वरः”
)एकेनैव स्वभावेन निरवधिकालस्य व्यापको आ-काशादिः इति भरतः
(कूटे भयावहे तिष्ठतियः स्था + कः ।) व्यालनखः इति राजनिर्घण्टः
(व्याघ्रनख इति भाषा
)