| YouTube Channel

कूटसाक्षी (kUTasAkSI)

 
शब्दकल्पद्रुमः
Sanskrit
कूटसाक्षी, [न्] त्रि, (कूटः मायावी मिथ्यावादीकपटीत्यर्थः साक्षी ।) मिथ्यासाक्षी इति व्यव-हारतत्त्वम्
(याज्ञवल्क्ये कूटसाक्षिलक्षणम् ।यथा, --“द्विगुणा वान्यथा ब्रूयुः कूटाः स्युः पूर्व्वसाक्षिणः”
ते तु गुरुदण्डार्हाः अकृतप्रायश्चित्ताः रौरवाख्य-नरकं व्रजेयुः
यो हि जानन्नपि साक्ष्यं ददातिस कूटसाक्षितुल्यः तथा तत्रैव ।“न ददाति तु यः साक्ष्यं जानन्नपि नराधमः ।स कूटसाक्षिणां पापैस्तुल्यो दण्डेन चैव हि”
)