| YouTube Channel

कुहकं (kuhakaM)

 
शब्दकल्पद्रुमः
Sanskrit
कुहकं,
क्ली,
(कुह + “बहुलमन्यत्रापि” उणां२ ३७ इति क्वुब् ।) माया ।(यथा, भागवते ।“जन्माद्यस्य यतोऽन्वयादितरतश्चार्थेष्वभिज्ञः स्व-राट् तेने ब्रह्म हृदा आदिकवये मुह्यन्ति यत्सूरयः तेजोवारिमृदां यथा विनिमयो यत्रत्रिसर्गो मृषा धाम्ना स्वेन सदा निरस्तकुहकं सत्यंपरं धीमहि”
) तत्पर्य्यायः इन्द्रजालम् जा-लम् कुसृतिः तद्युक्ते त्रि तत्पर्य्यायः ।धूर्त्तः वञ्चकः व्यंसकः दाण्डाजिनिकः ५मायी जालिकः इति हेमचन्द्रः
दाम्भिकः ।इत्युणादिकोषः (सर्पविशेषः यथा, विष्णु-पुराणे १७ ३८
“इत्युक्तास्तेन ते सर्पाः कुहकास्तक्षकान्धकाः ।अदशन्त समस्तेषु गात्रेष्वतिविषोल्वणाः”
)