| YouTube Channel

कुस्म्यम् (kusmyam)

 
कृदन्तरूपमाला
Sanskrit
1 {@“कुस्म कुत्सितस्मयने”@} 2 आकुस्मीयः।
3 कुस्मकः-स्मिका, चुकुस्मयिषकः-षिका
कुस्मयिता-त्री, चुकुस्मयिषिता-त्री
4 कुस्मयमानः 5, 6 चुकुस्मयिषमाणः
कुस्मयिष्यमाणः, चुकुस्मयिषिष्यमाणः
7 कुः-कुस्मौ-कुस्मः
-- 8 कुस्मितम्-तः-तवान्, चुकुस्मयिषितः-तवान्
कुस्मः, 9 कुस्मनः, चुकुस्मयिषुः
कुस्मयितव्यम्, चुकुस्मयिषितव्यम्
कुस्मनीयम्, चुकुस्मयिषणीयम्
कुस्म्यम्, चुकुस्मयिष्यम्
ईषत्कुस्मः-दुष्कुस्मः-सुकुस्मः
-- कुस्म्यमानः, चुकुस्मयिष्यमाणः
10 कुस्मः, चुकुस्मयिषः
कुस्मयितुम्, चुकुस्मयिषितुम्
कुस्मना, चुकुस्मयिषा
कुस्मनम्, चुकुस्मयिषणम्
कुस्मयित्वा, चुकुस्मयिषित्वा
प्रकुस्म्य, प्रचुकुस्मयिष्य
कुस्मम् २, कुस्मयित्वा २, चुकुस्मयिषम्
चुकुस्मयिषित्वा २। ‘कुस्म नाम्नो वा’ 11 इति पठ्यते।
‘-- ‘कुस्म’ इति धातुः कुत्सितस्मये वर्तते।’ इति दुर्गमैत्रेयौ।
तदनुसारेण ण्यन्तात्, ण्यन्तप्रकृतिकसन्नन्ताच्च सर्वाणि रूपाणि प्रदर्शितानि।
गणसूत्रस्य एवमर्था- भ्युपगमे ‘नाम्नः’ इत्यस्य वैयर्थ्यमापतति।
तदर्थं-- “अथ वा, ‘कुस्म’ इति प्रातिपदिकात् धात्वर्थे णिज्भवति।” इति बहुभिर्व्याख्यातम्।
तत्र पक्षे णिचः प्रातिपदिकप्रकृतिकत्वेन, आर्धधातुकत्वं नास्ति।
अतः ‘अतो लोपः’ 12 इति लोपो भवति।
किन्तु-- ‘प्रातिपदिकाद् धात्वर्थे बहुलमिष्ठवच्च’ 13 इति इष्ठवद्भावातिदेशेन प्रातिपदिकान्त्यस्य अकारस्य लोपो वक्तव्यः।
एवं सति, कुस्मकः-स्मिका, चुकुस्मयिषकः- षिका, इत्यादीनि सर्वाण्यपि रूपाणि पुरस्तात् लिखितदिशा ज्ञेयानि।
अर्थभेदः परमुभयोर्विद्यते-- ‘कुस्म’ धातोः कुत्सितस्मयनमात्रस्य प्रतीतिः।
प्रातिपदिकप्रकृतिकण्यन्तस्य तु कुत्सितस्मयनकर्मककरणप्रतीतिः-- इति विशेषः।
चैवं सति ‘प्रातिपदिकाद् धात्वर्थे बहुलमिष्ठवच्च’ 14 इत्येव णिचि सिद्धे सति, अत्र पाठस्य वैयर्थ्यमाशङ्क्यम्।
‘प्राति- पदिकाद् धात्वर्थे--’ 15 इति णिजुत्पत्तौ पदद्वयं स्यात्।
अत्र पाठात् तु आकुस्मीयत्वेन आत्मनेपदमेवेति विशेषः।
प्रासङ्गिक्यः
01
=>
(२३६)
02
=>
(१०-चुरादिः-१७१२। अक। सेट्। आत्म।)
03
=>
[[१। ‘णेरनिटि’ (६-४-५१) इति णिलोपः।]]
04
=>
[[२। ‘आकुस्मादात्मनेपदिनः’ (गणसूत्रं चुरादौ) इति आत्मनेपदमेव।]]
05
=>
[[आ। ‘इत्यादि वाद्यशतदेवनमध्य एव लोकः समालपदगारितकृष्णवीर्यः। कंसस्त्ववेदयमतिर्भयमानितोऽपि निर्यावनः कुयुधि कुस्मयमान आस्त।।’ धा। का। ३-३७।]]
06
=>
[[३। ‘पूर्ववत् सनः’ (१-३-६२) इति आत्मनेपदम्।]]
07
=>
[[४। णिलोपे मकारस्य संयोगान्तलोपे, सकारस्य रुत्वे, ‘र्वोरुपधायाः’ -- (८-२-७६) इति दीर्घे विसर्गे रूपम्। प्रातिपदिकाण्णिजुत्पत्तौ तु णिलोपटिलोपयोः सतोः मकारस्य संयोगान्तलोपः, दीर्घविसर्गौ च।]]
08
=>
[[५। ‘निष्ठायां सेटि’ (६-४-५२) इति णिलोपः।]]
09
=>
[[६। ‘अनुदात्तेतश्च हलादेः (३-२-१४९) इति युच् ताच्छीलिकः।]]
10
=>
[पृष्ठम्०२२६+ २९]
11
=>
(गणसूत्रं चुरादौ)
12
=>
(६-४-४८)
13
=>
(गणसूत्रं चुरादौ)
14
=>
(ग। सू चुरादौ)
15
=>
(ग। सू। चुरादौ)