कुस्म (kusma)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
In this section, you'll find information about the dhatus (verbal roots) related to your search. This includes details like dhatu information, forms, and any available commentaries.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
शब्दसागरः
EnglishWilson
Englishधातुपाठः (Krishnacharya)
Sanskrit कुस्म्
कुस्म
कुत्सितस्मये
चुरादिः
अकर्मकः
सेट्
आत्मनेपदी
कुस्मयते
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
धातुप्रदीपः
Sanskritकुस्मँ कुस्म कुस्मयने
- कुत्सितस्मयनेऽस्य वृत्तिरिष्यते कुस्मयते कुस्मयिता अकुस्मयत ष अचुकुस्मत चुकुस्मयिषते कुस्मयितः कुस्मकः कुस्मयतेः क्विप्-कूः कुस्मौ कुस्मः 172
शब्दकल्पद्रुमः
Sanskritवाचस्पत्यम्
Sanskritक्षीरतरङ्गिणी
Sanskritकुस्मँ कुस्म नाम्नो वा
कुस्ममिति दृष्टम्- कुस्मेत्यस्मान् नाम्नः प्रातिपदिकाण्णिज् वा भवति यद्वा-कुस्ममिति प्रकृत्यन्तरं दृष्टम्, कुपूर्वात् स्मयतेः (1678) परिखादिवद् अन्येष्वपि दृश्यते (32101) इति डप्रत्ययः, कुस्मयते, कुस्मयति ननु स्मिङः कुपूर्वात् कुस्मयत इति सिद्धम्, कुस्माच्च नाम्नः सर्वप्रातिपदिकेभ्यः क्विपि (द्र0 3111 भा0) कुस्मतीति सेत्स्यति तत्किमर्थं कुस्म नाम्नो वेत्युच्यते? इति चोदित्वा परिहरति-कुस्मयतिरकारितः इति कोर्नाम्ना सह नित्यसमासोऽस्ति (द्र0 2218), न तु कुत्सितं स्मयते इति तिङा उपपदमतिङ् (2219) इति ततश्च स्मयते कु इत्यपि प्रयोगानियमः, स्यात्, स च नेष्यते अथाण्यन्तेऽपि प्रकृत्यन्तरे भाषायामेतद्रूपं भवेत्, केन निवार्यत इत्याह-उपसर्गस्य बाह्यत्वमिष्यते प्रकुस्मयते, विकुस्मयत इति - ते प्राग्धातोः (1480) इति, कुस्मयत इति, कुस्मयत इत्युपसर्गस्य इत्यपव्याख्या अपि च सार्वधातुके यकि णिलोपे कुस्म्यत इतीष्यते, कुस्मीयत इति स्यात्, कुस्मयाञ्चक्रे इत्यपि कुस्मियाञ्चक्रे इति वा, कुसिष्मिया इति वा, अचुकुस्मतेति वा, चुकुस्मयिषते कुसिस्मयिषते इति, कुस्मनेति कुस्मितिः, कुस्मयित्वेति प्रकुस्म्येति, तस्मादकारित एव न तु स्वार्थनिर्देशं विना क्रियावाचित्वाभावत् क्रियानिबन्धनाः कारकप्रत्ययाः कर्तव्याः अथ तत्करोत्याद्यर्थे सूत्रयत्यादिवद् (द्र0 3226 वा0) अपि णिज् इष्यते, तर्हि प्रातिपदिकाद् धात्वर्थे (10295) इत्यनेन सिद्धः? सत्यम्, किन्त्वात्मनेपदप्रवृत्तिर्धातुरूपनिवृत्तिश्च पृथक्पाठेऽस्य प्रयोजनम् दुर्गस्तु कुस्मयन इत्यपाठीत् कुस्मेति धातुर्मतिदृष्टं बुद्ध्योत्पादितमर्थमाहेति च 178
धातुवृत्तिः
Sanskritकुस्मँ कुस्म (अर्थः) नाम्नो वा
कुस्ममिति दृष्टं "कुस्मयतिरकारितमिति' कोर्नित्यसमासत्वादुपसर्गस्य च बाह्यत्वात् कारितमेव कुत्सितस्मयनेऽस्य वृत्तिरिति मैत्रेयदुर्गाददयः (कुस्मयते) नाम्नो वेत्यस्यामर्थः यद्वा कुस्मप्रातिपदिकात् तत्करोतीति णिचि कुस्मयतइति भविष्यति, कुस्मधातोरेवाभावात् कुतो नामायमनूद्येतेत्याह कूस्ममिति दृष्टमिति कुशब्दपूर्वात्स्मयतेः "अन्येष्वपि दृश्यत'' इति डप्रत्यये "कुगतिप्रादयः'' इति समासे समासत्त्वान्नाम प्रातिपदिकमिति लक्षणेन निर्णीतमित्यर्थः ननु किमनेन प्रातिपदिकात्कारितात्, यतः कुपूर्वात्स्मयतेः कुस्मयतइति सिद्धमित्याह कुस्मयतिरकारितमिति चेत् कोर्नित्यसमासत्त्वादुपसर्गस्य च बाह्यत्वात् कारितिमेवेतिकुपूर्वःस्मयतिरेव कुस्मयतइत्यत्र भविष्यति प्रकृतिः, तेनाकारितं कारिताभावोऽस्त्विति चेत्तन्न कोऽत्र नित्यसमासत्त्वात्, यदि तिङन्तेनकोरन्वयः स्यात्, "कुगतिप्रादयः'' इत्यत्राप्यतिङिति सम्बन्धात् समासो न स्यात्, ततश्चवाक्यत्त्वादैकपद्यं न स्यात्, पूर्वप्रयोगवत्परप्रयोगश्च स्यात्, तथा तदुपसर्गस्य बाह्यत्त्वात्प्रकुस्मयतइति स्मयतेः प्राक् प्रयोगः स्यात्, क्रियमाणे च कुस्मनाम्नइति कुशब्दादप्युपसर्गस्य बाह्यत्त्वस्येष्यमाणत्त्वात् न तिङन्तेन कोरन्वयः यदि हि स्यात् "ते प्राग्धातोः'' इति कुप्रस्मयतइति स्मयतेः प्राक् प्रयोगः स्यात् क्रियमाणे च "कुस्मनाम्नो वा' इत्यस्मिन्नेतत्करणसामार्थ्यान्न कुपदस्य स्मयतेर्नापि व्यविहितस्य प्रयोगः उपसर्गस्य चेति चकारेणान्येऽपि दोषाः सूच्यन्ते, तत्र तावत्कुस्मयांचक्रिरिति आम् न स्यात् चुकुस्मयिषतीत्यत्र कोर्द्वित्वं न स्यात् अचुकुस्मयत इत्यत्र चङ् न स्यात्, अट् च कोःपरः स्यात्कुस्मनेति युज् न स्यात् कुस्मितिरिति च स्यात्, कुस्मयितेत्यादाविड् न स्यात् कुस्मयित्त्वेत्यत्र ल्यप् स्यात्, क्विपि च णिसंयोगान्तलोपयोः सकारस्य च रुत्वे "र्वोः'' इति दीर्घ कूरिति सिध्यति तथा ण्वुलि णिलोपे कुस्मक इति सिद्ध्यति, अन्यदाकुस्मायक इति स्यात् किं च कुस्मतीति न स्यात्, कुस्मायतइत्यादौ क्यङादयोऽपि न स्युः एषां प्रातिपदिकादाचारे विधानादतो धात्वन्तरं प्रातिपदिकं वाऽश्रयणीयमिति निगमयति कारितमेवेति ननु धातुपक्षे कथमाचारे क्विबादयः स्युः, सत्यम् कारितान्ताद् णिचि णिलोपः, कुस्मप्रातिपदिकात् क्विबादयो भविष्यन्तीति न दोषः 177
कृदन्तरूपमाला
Sanskrit1 {@“कुस्म कुत्सितस्मयने”@} 2 आकुस्मीयः।
3 कुस्मकः-स्मिका, चुकुस्मयिषकः-षिका
कुस्मयिता-त्री, चुकुस्मयिषिता-त्री
4 कुस्मयमानः 5, 6 चुकुस्मयिषमाणः
कुस्मयिष्यमाणः, चुकुस्मयिषिष्यमाणः
7 कुः-कुस्मौ-कुस्मः
-- 8 कुस्मितम्-तः-तवान्, चुकुस्मयिषितः-तवान्
कुस्मः, 9 कुस्मनः, चुकुस्मयिषुः
कुस्मयितव्यम्, चुकुस्मयिषितव्यम्
कुस्मनीयम्, चुकुस्मयिषणीयम्
कुस्म्यम्, चुकुस्मयिष्यम्
ईषत्कुस्मः-दुष्कुस्मः-सुकुस्मः
-- कुस्म्यमानः, चुकुस्मयिष्यमाणः
10 कुस्मः, चुकुस्मयिषः
कुस्मयितुम्, चुकुस्मयिषितुम्
कुस्मना, चुकुस्मयिषा
कुस्मनम्, चुकुस्मयिषणम्
कुस्मयित्वा, चुकुस्मयिषित्वा
प्रकुस्म्य, प्रचुकुस्मयिष्य
कुस्मम् २, कुस्मयित्वा २, चुकुस्मयिषम् २
चुकुस्मयिषित्वा २। ‘कुस्म नाम्नो वा’ 11 इति पठ्यते।
‘-- ‘कुस्म’ इति धातुः कुत्सितस्मये वर्तते।’ इति दुर्गमैत्रेयौ।
तदनुसारेण ण्यन्तात्, ण्यन्तप्रकृतिकसन्नन्ताच्च सर्वाणि रूपाणि प्रदर्शितानि।
गणसूत्रस्य एवमर्था- भ्युपगमे ‘नाम्नः’ इत्यस्य वैयर्थ्यमापतति।
तदर्थं-- “अथ वा, ‘कुस्म’ इति प्रातिपदिकात् धात्वर्थे णिज्भवति।” इति बहुभिर्व्याख्यातम्।
तत्र पक्षे णिचः प्रातिपदिकप्रकृतिकत्वेन, आर्धधातुकत्वं नास्ति।
अतः ‘अतो लोपः’ 12 इति लोपो न भवति।
किन्तु-- ‘प्रातिपदिकाद् धात्वर्थे बहुलमिष्ठवच्च’ 13 इति इष्ठवद्भावातिदेशेन प्रातिपदिकान्त्यस्य अकारस्य लोपो वक्तव्यः।
एवं सति, कुस्मकः-स्मिका, चुकुस्मयिषकः- षिका, इत्यादीनि सर्वाण्यपि रूपाणि पुरस्तात् लिखितदिशा ज्ञेयानि।
अर्थभेदः परमुभयोर्विद्यते-- ‘कुस्म’ धातोः कुत्सितस्मयनमात्रस्य प्रतीतिः।
प्रातिपदिकप्रकृतिकण्यन्तस्य तु कुत्सितस्मयनकर्मककरणप्रतीतिः-- इति विशेषः।
न चैवं सति ‘प्रातिपदिकाद् धात्वर्थे बहुलमिष्ठवच्च’ 14 इत्येव णिचि सिद्धे सति, अत्र पाठस्य वैयर्थ्यमाशङ्क्यम्।
‘प्राति- पदिकाद् धात्वर्थे--’ 15 इति णिजुत्पत्तौ पदद्वयं स्यात्।
अत्र पाठात् तु आकुस्मीयत्वेन आत्मनेपदमेवेति विशेषः।
01 (२३६)
02 (१०-चुरादिः-१७१२। अक। सेट्। आत्म।)
03 [[१। ‘णेरनिटि’ (६-४-५१) इति णिलोपः।]]
04 [[२। ‘आकुस्मादात्मनेपदिनः’ (गणसूत्रं चुरादौ) इति आत्मनेपदमेव।]]
05 [[आ। ‘इत्यादि वाद्यशतदेवनमध्य एव लोकः समालपदगारितकृष्णवीर्यः। कंसस्त्ववेदयमतिर्भयमानितोऽपि निर्यावनः कुयुधि कुस्मयमान आस्त।।’ धा। का। ३-३७।]]
06 [[३। ‘पूर्ववत् सनः’ (१-३-६२) इति आत्मनेपदम्।]]
07 [[४। णिलोपे मकारस्य संयोगान्तलोपे, सकारस्य रुत्वे, ‘र्वोरुपधायाः’ -- (८-२-७६) इति दीर्घे विसर्गे च रूपम्। प्रातिपदिकाण्णिजुत्पत्तौ तु णिलोपटिलोपयोः सतोः मकारस्य संयोगान्तलोपः, दीर्घविसर्गौ च।]]
08 [[५। ‘निष्ठायां सेटि’ (६-४-५२) इति णिलोपः।]]
09 [[६। ‘अनुदात्तेतश्च हलादेः (३-२-१४९) इति युच् ताच्छीलिकः।]]
10 [पृष्ठम्०२२६+ २९]
11 (गणसूत्रं चुरादौ)
12 (६-४-४८)
13 (गणसूत्रं चुरादौ)
14 (ग। सू चुरादौ)
15 (ग। सू। चुरादौ)
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
