| YouTube Channel

कुसुम्भं (kusumbhaM)

 
शब्दकल्पद्रुमः
Sanskrit
कुसुम्भं,
क्ली,
(कौ पृथिव्यां सुम्भति शोभते दीप्तिंप्राप्नोतीत्यर्थः कु + सुभि + अच् इदित्वात् नुम् ।)स्वर्णम् इति मेदिनी
पुष्पंविशेषः कुसुमफुलइति भाषा
(यथा, ऋतुसंहारे वसन्तवर्णने ।“कुसुम्भरागारुणितैर्दूकूलैर्नितम्बविम्बानि विलासिनीनाम् ।तन्वंशुकैः कुङ्कुमरागगौरैःअलङ्क्रियन्ते स्तनमण्डलानि”
)तत्पर्य्यायः कमलोत्तमम् वह्निशिखम् महा-रजनम् इत्यमरः १०६
पावकम् ५पीतम् पर्द्मोत्तरम् रक्तम् लोहितम् ९वस्त्ररञ्जनम् १० अग्निशिखम् ११ अस्य शाक-गुणाः मधुरत्वम् कटुत्वम् उष्णत्वम् विण्मूत्र-दोषमदनाशित्वम् दृष्टिप्रसादनत्वम् रुचि-प्रदत्वम् अग्निदीप्तिकारित्वञ्च इति राज-निर्घण्टः
रूक्षत्वम् कफवायुनाशित्वम् पित्त-कारित्वञ्च तत्तैलगुणाः कटुत्वम् उष्णत्वम् ।त्रिदोषकारित्वम् गुरुत्वञ्च इति राजवल्लभः
कृमियक्ष्ममलनाशित्वम् तेजोबलकारित्वञ्च ।घर्षणेनास्य गुणाः त्रिदोषकारित्वम् पुष्टिबल-क्षयकण्डूकारित्वञ्च इति राजनिर्घण्टः
(कुसु-म्भशाकभक्षणे निषेधमाह तिथितत्त्वधृतोशनो-वचने यथा, --“कुसुम्भं ललिताशाकं वृन्ताकं पूतिकां तथा ।भक्षयन् पतितस्तु स्यादपि वेदान्तगो द्विजः”
)