| YouTube Channel

कुसुमं (kusumaM)

 
Apte 1890
English
कुसुमं 1 A flower
उदेति पूर्वं कुसुमं ततः फलं Ś. 7. 30.
2 Menstrual discharge.
3 A fruit.
4 A disease of the eyes.
मः A form of fire.
Comp.
अंजनं the calx of brass used as a collyrium.
अंजलिः a handful of a flowers.
अधिपः,
अधिराज् m. the Campaka tree (bearing yellow fragrant flowers).
अवचायः gathering flowers
अन्यत्र यूयं कुसुमावचायं कुरुध्वमत्रास्मि करोमि सख्यः K. P. 3.
अवतंसकं a chaplet.
अस्त्रः,
आयुधः,
इषुः,
बाणः,
शरः {1} a flowery arrow. {2} N. of the god of love
अभिनवः कुसुमेषुव्यापारः Māl. 1. (where the word may also be read as कुसुमेषु व्यापारः)
तस्मै नमो भगवते कुसुमायुधाय Bh. 1. 1
Rs. 6. 34, Ch. P. 19, 24
R. 7. 61
Śi. 8. 70, so कुसुमशरबाणभावेन Gīt. 10.
आकरः {1} a garden. {2} a nosegay. {3} vernal season
ऋतूनां कुसुमाकरः Bg. 10. 35
so Bv. 1. 48.
आत्मकं saffron.
आपीडः {1} a garland or chaplet of flowers. {2} the god of love
कुसुमापीडव्याजेन Māl. 1 (where it has both senses).
आसवं {1} honey. {2} a kind of spirituous liquor (prepared from flowers).
उज्ज्वल a. brilliant with blossoms.
कार्मुकः,
चापः, धन्वन् m. epithets of the god of love
कुसुमचापमतेजयदंशुभिः R. 9. 39
Rs. 6. 27.
चित a. heaped with flowers.
पुरं N. of the town of Pātaliputra
कुसुमपुराभियोगं प्रत्यनुदासीनो राक्षसः Mu. 2.
प्रवृत्तिः,
प्रसूतिः f. appearance of flowers
Ś. 4. 8.
लता a creeper in blossom.
शयनं a bed of flowers
V. 3. 10.
स्तबकः a nosegay, bouquet
कुसुमस्तबकस्येव द्वे गती स्तो मनस्विनां Bh. 2. 33.
शब्दकल्पद्रुमः
Sanskrit
कुसुमं,
क्ली,
(“कुसेरुम्भोमेदेताः” उणां १०६ ।इति उमः निपातनात् गुणाभावः ।) पुष्पम् ।(यथा, ऋतुसंहारे वसन्तवर्णने ।“वापीजलानां मणिमेखलानांशशाङ्कभासां प्रमदाजनानां ।चूतद्रुमाणां कुसुमानतानांददाति सौरभ्यमयं वसन्तः”
फलकुसुमविशेषाणां द्रव्यान्तरसुलभत्वादिसूचकत्वंदर्शितं यथा वृहत्संहितायां २९ अध्याये ।“फलकुसुमसम्प्रवृद्धिं वनस्पतीनां विलोक्य विज्ञे-यम् सुलभत्वं द्रव्याणां निष्पत्तिश्चापि शस्यानाम्”
केन कस्य वृद्धिर्ज्ञेया तदाह ।“शालेन कलमशालीरक्ताशोकेन रक्तशालिश्च ।पाण्डूकः क्षीरिकया नीलाशोकेन मसूरकः
न्यग्रोधेन तु यवकस्तिन्दुकवृद्ध्या षष्टिको भवति ।अश्वत्थेन ज्ञेया निष्पत्तिः सर्व्वशस्यानाम्
जम्बूमिस्तिलमाषाः शिरीषवृद्ध्या कङ्गु निष्पत्तिः ।गोधूमाश्च मधुकैर्यववृद्धिः सप्तपर्णेन
अतिमुक्तककुन्दाभ्यां कर्पासं सर्षपान् वदेदसनैः ।बदरीभिश्च कुलत्थांश्चिरविल्वेनादिशेन्मुद्गान्
अतसीवेतसपुष्पैः पलाशकुसुमैश्च कोद्रवा ज्ञेयाः ।तिलकेन शङ्खमौक्तिकरजतान्यथ चेङ्गुदेन शणः
करिणश्च हस्तिकर्णै रादेश्या वाजिनोऽश्वकर्णेन ।गावश्च पाटलाभिः कदलीभिरजाविकं भवति
चम्पककुसुमैः कनकं विद्रुमसम्पच्च बन्धजीवेन ।कुरुवकवृद्ध्या वज्रं वैदूर्य्यं नन्दिकावर्त्तैः
विद्याच्च सिन्धुवारेण मौक्तिकं कुङ्कुमं कुसुम्भेन ।रक्तोत्पलेन राजा मन्त्री नीलोत्पलेनोक्तः
श्रेष्ठी सुवर्णपुष्पैः पद्मैर्विप्राः पुरोहिताः कुमुदैः ।सौगन्धिकेन बलपतिरर्केण हिरण्यपरिवृद्धिः
आम्रैः क्षेमं भल्लातकैर्भयं पीलुभिस्तथारोग्यम् ।खदिरशमीभ्यां दुर्भिक्षमर्ज्जुनैः शोभना वृष्टिः
पिचुमर्द्दनाग कुसुमैः सुभिक्षमथमारुतः कपित्थेन ।निचुलेनावृष्टिमयं व्याधिभयं भवति कुटजेन
दूर्व्वाकुशकुमुमाभ्यां भिक्षुर्वह्निश्च कोविदारेण ।श्यामालताभिवृद्ध्या बन्धक्यो वृद्धिमायान्ति”
)फलम् स्त्रीरजः (यथा, ज्योतिषशास्त्रे ।“यदा नार्य्याः पितुर्गेहे कुसुमस्तनसम्भवः”
)नेत्ररोगविशेषः इति मेदिनी