| YouTube Channel

कुसीदं (kusIdaM)

 
शब्दकल्पद्रुमः
Sanskrit
कुसीदं,
क्ली,
(कुस् + “कुसेरुम्भोमेदेताः” उणां ४१०६ इति ईदप्रत्ययः इह सूत्रे तृतीयप्रत्ययोह्रस्वादिर्दोर्घादिश्चेति तन्त्रेणोपात्तः वृषाकप्य-ग्नीति सूत्रे ह्रस्व एवेति वृत्तिकारहरदत्तादयः ।यद्वा कुत्सितं निकृष्टरूपवृद्धिदानेनेत्यर्थः सीदति-अधोमर्णो यत्र पृषोदरात् साधुः यथा वृह-स्पत्युक्तौ “कुत्सितात् सीदतश्चैव निर्विशङ्कैः प्रगृ-ह्यते चतुर्गुणं वाष्टगुणं कुसीदाख्यमृणन्ततः”
)ऋणदानजीविका वृद्ध्याजीवनम् सुद् वाडिदेओया इत्यादि भाषा तत्पर्य्यायः अर्थप्रयोगः वृद्धिजीविका इत्यमरः ।४
यथा, --“कुसीदकृषिवाणिज्यं प्रकुर्व्वीतास्वयंकृतम् ।आपत्काले स्वयं कुर्व्वन्नैनसा युज्यते द्विजः
बहवो वर्त्तनोपाया ऋषिभिः परिकीर्त्तिताः ।सर्व्वेषामपि चैवैषां कुसीदमधिकं विदुः
अनावृष्ट्या राजभयान्मूषिकाद्यैरुपद्रवैः ।कृष्यादिके भवेद्बाधा सा कुसीदे विद्यते
शुक्लपक्षे तथा कृष्णे रजन्यां दिवसेऽपि वा ।उष्णे वर्षति शीते वा वर्द्ध्वनं निवर्त्तते
देशं गतानां या वृद्धिर्नानापण्योपजीविनाम् ।कुसीदं सर्व्वतः सम्यक् संस्थितस्यैव जायते
लब्धलाभः पितॄन् देवान् ब्राह्मणांश्चैव पूजयेत् ।ते तृप्तास्तस्य तद्दोषं शमयन्ति संशयः
वणिक् कुसीदो दद्यात्तु वस्त्रं गां काञ्चनादिकम् ।कृषीवलोऽन्नपानानि यानशय्यासनानि
पण्येभ्यो विंशतिं दत्त्वा पशुस्वर्णादिकं शतम् ।पादेनायस्य पारक्यं कुर्य्यात् सञ्चयमात्मवान्
अर्द्धेन चात्मभरणं नित्यनैमित्तिकान्वितम् ।पादञ्च प्रार्थमायस्य मूलभूतं विवर्द्धयेत्
विद्या शिल्पं भृतिः सेवा गोरक्षं विपणिः कृषिः ।वृत्तिर्भैक्षं कुसीदञ्च दश जीवनहेतवः”
इति गारुडे २१५ अध्यायः
*
गोतमः ।“कृषिगोरक्षवाणिज्यञ्चास्वयं कृतं कुसीदञ्चेति ।कुसीदस्य पृथक् ग्रहणं स्वयंकृतस्याभ्यनुज्ञानार्थम्”
कुसीदं वृद्धिकर्म्मेति प्रदेशान्तरेऽभिधानात् इतिकल्पतरुः
वृहस्पतिः ।“कुसीदं कृषिवाणिज्यं प्रकुर्व्वीतास्वयं कृतम् ।आपत्काले स्वयं कुर्व्वन् नैनसा युज्यते द्विजः
लब्धलाभः पितॄन् देवान् ब्राह्मणांश्चैव भोजयेत् ।ते तृप्तास्तस्य तं दोषं शमयन्ति संशयः
वणिक् कुसीदी दद्यात्तु वस्त्रगोकाञ्चनादिकम् ।कृषीवलोऽन्नपानानि यानशय्यासनानि
पण्येभ्यो विंशकं दत्त्वा पशुस्वर्णादिकं शतम्
वणिक् कुसीद्यदोषः स्यात् ब्राह्मणानाञ्चपूजनात् ।राज्ञे दत्त्वा तु षड्भागं देवतानाञ्च विंशकम्
त्रिंशद्भागञ्च विप्राणां कृषिं कृत्वा दोषभाक्”
तथा, मनुः ।“अशीतिभागं गृह्णीयात् मासाद्वार्द्धुषिकः शतात् ।द्विकं शतं वा गृह्णीयात् सतां धर्म्ममनुस्मरन्
द्विकं शतञ्च गृह्णानो भवत्यर्थकिल्विषी ।शतकार्षापणे अशीतिभागं विंशतिं पणान्”
द्विकं पुराणद्वयम् एवंविधनियममतिक्रम्यअनापदि स्वयमन्यद्वारा वा यः स्वाच्छन्द्येन व्यव-हरति तस्यैव प्रायश्चित्तम् आपदि तु स्वयंकरणनियमातिक्रमे दोषः इति प्रायश्चित्त-विवेकः इत्याह्निकाचारतत्त्वम्
कुसीदिके त्रि ।इति मेदिनी