| YouTube Channel

कुष्माण्डकरसायन (kuSmANDakarasAyana)

 
वाचस्पत्यम्
Sanskrit
कुष्माण्डकरसायन
न०
चक्रदसोक्ते कुष्माण्डस्य द्रव्यान्तरमिश्रितस्व पाकविशेषेण जाते औषधभेदे यथा“कुष्माण्डकात् पलशतं सुस्विन्नं निष्कुलीकृतम् पचेत्तप्ते घृतप्रस्थे शनैस्ताम्रमये दृढे यदा मधुनिभः पाक-स्तदा खशशतं न्यसेत् पिप्पलीशृङ्गवेराभ्यां द्वे पलेजीरकस्य त्वगेलापत्रमरिचधान्यकानां पलार्द्धकम् ।न्यसेशूर्णीकृतं तत्र दर्व्या सङ्घदृयेन्मुहुः तत् पक्कंस्थापयद्भाण्डे दत्त्वा क्षौद्रं घृतार्द्धकम् तद्यथाग्निबलंखादेद्रक्तपित्ती क्षतक्षयी कासश्वामतमश्छर्द्दितृष्णाज्वर-निंपोडितः वृष्यं पुनर्नवकरं बलवर्णप्रसादनम् ।उरःसन्धानकरणं वृंहणं स्वरबोधनम् अश्चिभ्यांनिर्म्मितं सिद्धं कुष्माण्डकरसाय्यनम् खण्डामल-कमानानुसारात् कुष्माण्डकद्रवात् पात्रं पाकाय दा-तव्यं यावान् वात्र रसो भवेत् अत्रापि मुद्रया पाकोनिस्त्वचं निष्कुलीकृतम्”