| YouTube Channel

कुष्ठं (kuSThaM)

 
शब्दकल्पद्रुमः
Sanskrit
कुष्ठं,
क्ली,
(कुष्णाति रोगम् कुष् + “हनि कुषीति” ।उणां इति क्थन् ।) विषभेदः इतिहेमचन्द्रः
औषधविशेषः कुड् इति भाषा ।तत्पर्य्यायः व्याधिः पारिभव्यम् वाप्यम् ४पाकलम् उत्पलम् इत्यमरः ।१२६
आप्यम् इति तट्टीका
जरणम् ।इति रत्नमाला
रुजा गदः १० आमयः ११पारिभद्रकम् १२ रामम् १३ वाणीरजम् १४पावनम् १५ कुत्सितम् १६ पद्मकम् १७ गदा-ह्वम् १८ गदाह्वयम् १९ कौवेरम् २० भासु-रम् २१ इति शब्दरत्नावली
काकलम् २२नीरुजम् २३ इति जटाधरः
“कुष्ठं रोगाह्वयं वाप्यं पारिभव्यं तथोत्पलम् ।कुष्ठमुष्णं कटु स्वादु शुक्रलं तिक्तकं लघु ।हन्ति वातास्रवीसर्पकासकुष्ठमरुत्कफान्”
*
अथ कुष्ठभेदपुष्करमूलम् ।“उक्तं पुष्करमूलन्तु पुष्करं पौष्करञ्च तत् ।पद्मपत्रञ्च काश्मीरं कुष्ठभेदमिदं जगुः
पौष्करं कटुकं तिक्तमुष्णं वातकफज्वरान् ।हन्तिशोथारुचिश्वासान् विशेषात् पार्श्वशूलनुत्”
इति भावप्रकाशः
अस्य गुणाः कटुत्वम् ।उष्णत्वम् तिक्तत्वम् कफवायुकुष्ठरोगविसर्प-विषकण्डूखर्ज्जूदद्रुनाशित्वम् कान्तिकारित्वञ्च ।इति राजनिर्घण्टः
श्वासकासज्ज्वरहिक्काना-शित्वम् इति राजवल्लभः
*
स्वनामख्यातरोगः कुट् इति भाषा तत्पर्य्यायः ।श्वित्रम् इत्यमरः ५४
श्वेतम् ३श्वेत्रम् इति तट्टीका ।तस्य निदानपूर्व्विका संप्राप्तिर्यथा ।“विरोधीन्यन्नपानानि द्रवस्निग्धगुरूणि ।भजतामागतां छर्दिं वेगांश्चान्यान् प्रतिघ्नताम्
व्यायाममतिसन्तापमतिभुक्त्वा निषेविणाम् ।शीतोष्णलङ्घनाहारान् क्रमं मुक्त्वा निषेविणाम्
घर्म्मश्रमभयार्त्तनां द्रुतं शीताम्बुसेविनाम् ।अजीर्णाध्यशिनाञ्चैव पञ्चकर्म्मापचारिणाम्
नवान्नदधिमत्स्यातिलवणाम्लनिषेविणाम् ।मांसमूलकपिष्टान्नतिलक्षीरगुडाशिनाम्
व्यायामञ्चाप्यजीर्णेऽन्ने निद्राञ्च भजतां दिवा ।विप्रान् गुरून् धर्षयतां पापं कर्म्म कुर्व्वताम्
वातादयस्त्रयो दुष्टास्त्वग्रक्तं मांसमम्बु ।दूषयन्ति कुष्ठानां सप्तको द्रव्यसंग्रहः
अतः कुष्ठानि जायन्ते सप्त चैकादशैव तु ।कुष्ठानिं सप्तधा दोषैः पृथग्द्वन्द्वैः समागतैः
सर्व्वेष्वपि त्रिदोषेषु व्यपदेशोऽधिकत्वतः”
*
तस्य पूर्व्वरूपं यथा ।“अतिश्लक्ष्णः खरः स्पर्शः स्वेदास्वेदौ विवर्णता ।दाहः कण्डुस्त्वचि स्वापस्तोदः कोठोन्नतिर्भ्रमः
व्रणाणामधिकं शूलं शीघ्रोत्पत्तिश्चिरस्थितिः ।रूढानामतिरूक्षत्वं निभित्तेऽल्पेऽपि कोपणम्
रोमहर्षोऽसृजः कार्ष्ण्यं कुष्ठलक्षणमग्रजम्”
*
तच्च वातादिभेदेन अष्टादशप्रकारम् ।तत्र सप्तमहाकुष्ठानि यथा ।“कृष्णारुणकपालाभं यद्रूक्षं परुषं तनु ।कापालं तोदबहुलं तत्कुष्ठं विषमं स्मृतम्
रुग्दाहरागकण्डूभिः परीतं रोमपिञ्जरम् ।उडुम्बरफलाभासं कुष्ठमौडुम्बरं वदेत्
श्वेतं रक्तं स्थिरं स्त्यानं स्निग्धमुत्सन्नमण्डलम् ।कृच्छ्रमन्योन्यसंयुक्तं कुष्टं मण्डलमुच्यते
कर्कशं रक्तपर्य्यन्तमन्तःश्यावं सवेदनम् ।यदृष्यजिह्वासंस्थानमृष्यजिह्वं तदुच्यते
सश्वेतं रक्तपर्य्यन्तं पुण्डरीकदलोपमम् ।सोत्सेधञ्च सरागञ्च पुण्डरीकं प्रचक्षते
श्वेतं ताम्रं तनु यद्रजो घृष्टं विमुञ्चति ।प्रायश्चोरसि तत् सिध्ममलावुकुसुमोपमम्
यत् काकणन्तिकावर्णमपाकं तीव्रवेदनम् ।त्रिदोषलिङ्गं तत्कुष्ठं काकणं नैव सिध्यति”
एकादशक्षुद्रकुष्ठानि यथा ।“अस्वेदनं महाकास्तु यन्मत्स्यसकलोपमम् ।तदेव कुष्ठं चर्म्माख्यं बहुलं हस्तिचर्म्मवत्
श्यावं किणखरस्पर्शं परुषं किटिमं स्मृतम्
वैपादिकं पाणिपादस्फुटितं तीव्रवेदनम्
कण्डुमद्भिः सरागैश्च गण्डैरलसकं चितम्
सकण्डुरागपिडकं दद्रुमण्डलमुद्गतम्
रक्तं सशूलं कण्डूमत् सस्फोटं यद्गलत्यपि ।तच्चर्म्मदलमाख्यातं संस्पर्शासहमुच्यते
सूक्ष्मा बह्व्यः पिडकाः स्राववत्यःपामेत्युक्ताः कण्डुमत्यः सदाहाः
सैव स्फोटैस्तीव्रदाहैरुपेताज्ञेया पाण्योः कच्छुरुग्रास्फिचोश्च
स्फोटाः श्यावारुणा भासा विष्फोटाः स्युस्तनुत्वचः
रक्तं श्यावं सदाहार्त्ति शतारुः स्याद्बहुव्रणम्
१०
सकण्डुपिडका श्यावा बहुस्रावा विचर्च्चिका”
११
इति माधवकरः