कुष्ठ (kuSTha)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
In this section, you'll find information about the dhatus (verbal roots) related to your search. This includes details like dhatu information, forms, and any available commentaries.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
शब्दसागरः
EnglishHelp us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Spoken Sanskrit
Englishकुष्ठ - kuSTha - - cavity of the loin
कुष्ठ - kuSTha - , - snow lotus plant [ Saussurea auriculata - Bot. ]
कुष्ठ - kuSTha - - crape ginger or verigated ginger plant [ Costus speciosus or arabicus - Bot. ]
कुष्ठ - kuSTha - - leprosy
कुष्ठ - kuSTha - - sort of poison
सामान्य कुष्ठ - sAmAnya kuSTha - - Costus speciosus
कुष्ठ-प्रत्युपाय - kuSTha-pratyupAya - - anti-leprosy work
Wilson
EnglishApte
Englishकुष्ठः [kuṣṭhḥ] ष्ठम् [ṣṭham], ष्ठम् [Uṇ.* 2.2]
Leprosy (of which there are 18 varieties)
गलत्कुष्ठाभिभूताय च 1.9.
A sort of poison.
A kind of tree
Costus specious, see कोष्ठ
2.94.24.
(m. ) cavity of the loin. -ष्ठा The mouth or opening of a basket.
अरिः sulphur.
of several plants (Mar. भोवरी, रुई, कडू पडवळ इ.)
Apte 1890
EnglishMonier Williams Cologne
EnglishMonier Williams 1872
Englishकुष्ठ कुष्ठ, अस् or अम्, m. or n. (fr. 1. कु
and स्थ?), a sort of medicinal plant (used as a remedy
for the disease called तक्मन्, q. v.), Costus Speciosus
or Arabicus
a sort of poison
leprosy, of which
eighteen varieties are enumerated, seven severe and
eleven of minor importance
(आ), f. the mouth or open-
ing of a basket.
—कुष्ठ-केतु, उस्, m., N. of a plant,
= भूम्याहुल्य.
—कुष्ठ-गन्धि, n. the fra-
grant bark of the plant Feronia Elephantum.
—कुष्-
ठ-घ्न, अस्, ई, अम्, curing leprosy
(अस्), m., N.
of a medicinal plant, commonly called Hiyāvalī [cf.
हितावली]
(ई), f. an esculent root, Solanum Indicum,
= काकमाची
the opposite leaved fig tree.
—कुष्-
ठ-चिकित्सित, अम्, n. the cure of leprosy.
—कुष्ठ-
नाशन, अस्, m., N. of several plants which cure
leprosy
the root of Dioscorea
white pepper or
mustard
another plant, = क्षीरीश-वृक्ष.
—कु-
ष्ठ-नाशिनी, f. a plant, commonly Hākuca, Psoralia
Corylifolia.
—कुष्ठ-मय, अस्, ई, अम्, full of
leprosy, leprous.
—कुष्ठ-रोग, अस्, m. leprosy,
elephantiasis.
—कुष्ठ-सूदन, अस्, m. the Cassia
tree, Cassia Fistula
[cf. आरग्बध।]
—कुष्ठ-
हन्तृ, ता, m. a kind of bulbous plant, = हस्ति-
कन्द
(त्री), f. another plant, generally called
Vākucī.
—कुष्ठ-हृत्, त्, m. the plant Acacia
Catechu.
—कुष्ठाङ्ग (°ठ-अङ्°), अस्, आ, अम्,
leprous.
—कुष्ठान्वित (°ठ-अन्°), अस्, आ, अम्,
afflicted with leprosy.
—कुष्ठारि (°ठ-अरि), इस्,
m. Acacia Catechu
another plant, Acacia Farnesiana
(विट्खदिर)
another plant, Trichosanthes Diœca,
= पटोल
another plant, = आदित्य-पत्त्र and
अर्क-पत्त्र
sulphur.
Benfey
EnglishApte Hindi
Hindiकुष्ठः
- कुष् - कथन
कोढ़
कुष्ठम्
- कुष् - कथन
कोढ़
कुष्ठः
- कुष्+क्थन्
कूल्हे में पड़ा गड्ढा
Shabdartha Kaustubha
Kannadaकुष्ठ
पदविभागः - > नपुंसकलिङ्गः
कन्नडार्थः - > ಚಂಗಲುಕೋಷ್ಠ
निष्पत्तिः - > कुष (निष्कर्षे) - "क्थन्" (उ० २-२)
व्युत्पत्तिः - > कुष्णाति रोगम
कुष्ठ
पदविभागः - > नपुंसकलिङ्गः
कन्नडार्थः - > ಶ್ವಿತ್ರ /ಶ್ವೇತ /ತೊನ್ನು ರೋಗ
निष्पत्तिः - > कुष (निष्कर्षे) - "क्थन्" (उ० २-२)
व्युत्पत्तिः - > कुष्णात्यङ्गम्
प्रयोगाः - > "त्वं सर्वभक्षो भव भीमकर्मा कुष्ठाभिभूतोऽनल धुमगर्भः"
उल्लेखाः - > कुमा० ९-१६
Anekartha-Dvani-Manjari
Sanskritउत्पल
क्ली
उत्पल, नलिन, कुष्ठ, औषध
उत्पलं नलिनं प्रोक्तमुत्पलं कुष्ठमौषधम् ।
verse 2.1.1.77
page 0012
Sanskrit Tibetan
Tibetanko tha
कुष्ठ
अभिधानचिन्तामणिः
Sanskritश्वित्रं स्यात्पाण्डुरं कुष्ठं केशघ्नं त्विन्द्रलुप्तकम् ॥ ४६६ ॥
श्वित्र (क्ली), पाण्डुर (क्ली), कुष्ठ (क्ली), केशघ्न (क्ली), इन्द्रलुप्तक (क्ली)
विषः क्ष्वेडो रसस्तीक्ष्णं गरलोऽथ हलाहलः ॥ ११९५ ॥
वत्सनाभः कालकूटो ब्रह्मपुत्रः प्रदीपनः ।
सौराष्ट्रिकः शौल्किकेयः काकोलो दारदोऽपि च ॥ ११९६ ॥
अहिच्छत्त्रो मेषशृङ्गकुष्टवालूकनन्दनाः ।
कैराटको हैमवतो मर्कटः करवीरकः ॥ ११९७ ॥
सर्षपो मूलको गौरार्द्रकः सक्तुककर्दमौ ।
अङ्कोल्लसारः कालिङ्गः शृङ्गिको मधुसिक्थकः ॥ ११९८ ॥
इन्द्रो लाङ्गुलिको विस्फुलिङ्गपिङ्गलगौतमाः ।
मुस्तको दालवश्चेति स्थावरा विषजातयः ॥ ११९९ ॥
विष (पुंक्ली), क्ष्वेड (पुं), रस (पुंक्ली), तीक्ष्ण (क्ली), गरल (पुंक्ली), हलाहल (पुं), वत्सनाभ (पुं), कालकूट (पुं), ब्रह्मपुत्र (पुं), प्रदीपन (पुं), सौराष्ट्रिक (पुं), शौल्किकेय (पुं), काकोल (पुं), दारद (पुं), अहिच्छत्त्र (पुं), मेषशृङ्ग (पुं), कुष्ठ (पुं), वालूक (पुं), नन्दन (पुं), कैराटक (पुं), हैमवत (पुं), मर्कट (पुं), करवीर (पुं), सर्षप (पुं), मूलक (पुं), गौरार्द्रक (पुं), सक्तुक (पुं), कर्दम (पुं), अङ्कोल्लसार (पुं), कालिङ्ग (पुं), शृङ्गिक (पुं), मधुसिक्थक (पुं), इन्द्र (पुं), लाङ्गुलिक (पुं), विस्फुलिङ्ग (पुं), पिङ्गल (पुं), गौतम (पुं), मुस्तक (पुं), दालव (पुं), स्थावरविष (पुं)
अभिधानरत्नमाला
Sanskritश्वित्र
श्वित्र, कुष्ठ, पाण्डुर
पिटकः स्फोटको गण्डः श्वित्रं कुष्ठं च पाण्डुरम् ।
verse 2.1.1.604
page 0068
Vedic Reference
English1. Kuṣṭha is the name of a plant (Costus speciosus or arabicus)^1
which is prominent in the Atharvaveda.^2 It grew especially on
the mountains, along with the Soma, on the high peaks of the
Himālaya (Himavant) where the eagles nest, and was thence
brought east to men.^3 Like Soma, it is said to have grown in
the third heaven under the famous Aśvattha tree, where the
gods were wont to assemble, and thence it was brought in a
golden ship.^4 As a remedy, it held the highest place among
herbs, being called by the auspicious names Nagha-māra and
Naghā-riṣa, and styled the offspring of Jīvala and Jīvalā, the
‘lively’ ones.^5 It cured headache (śīrṣāmaya), diseases of the
eyes, bodily affliction, ^6 but especially fever — hence called ‘fever-
destroyer’ (takma-nāśana) — and consumption (Yakṣma). From
its general properties it was also named ‘all-healing’ (viśva-
bheṣaja).^7 Its aromatic qualities were apparently known, as it
is classed with ‘salve’ (Āñjana) and ‘nard’ (Nalada).^8
1) Or Saussurea auriculata, Hillebreandt.
Vedische Mythologie, 1, 65.
2) v. 4
vi. 102
xix. 139.
3) v. 4, 1. 2. 8
xix. 39, 1.
4) v. 4, 3-6
vi. 75, 1. 2
xix. 39, 6-8.
5) v. 4, 1
xix. 39, 4.
6) v. 4, 10.
7) xix. 39, 9.
8) vi. 102, 3.
Cf. Grohmann, Indische, Studien, 9,
420 et seq.
Zimmer, Altindisches Leben,
63, 64
Bloomfield, Hymns of the Athar-
vaveda, 415, 680
Whitney, Translation
of the Atharvaveda, 227, 228.
शब्दकल्पद्रुमः
Sanskritकुष्ठं, (कुष्णाति रोगम् । कुष् + “हनि कुषीति” ।उणां २ । २ । इति क्थन् ।) विषभेदः । इतिहेमचन्द्रः ॥
औषधविशेषः । कुड् इति भाषा ।तत्पर्य्यायः । व्याधिः २ पारिभव्यम् ३ वाप्यम् ४पाकलम् ५ उत्पलम् ६ । इत्यमरः । २ । ४ ।१२६ ॥
आप्यम् ७ । इति तट्टीका ॥
जरणम् ८ ।इति रत्नमाला ॥
रुजा ९ गदः १० आमयः ११पारिभद्रकम् १२ रामम् १३ वाणीरजम् १४पावनम् १५ कुत्सितम् १६ पद्मकम् १७ गदा-ह्वम् १८ गदाह्वयम् १९ कौवेरम् २० भासु-रम् २१ । इति शब्दरत्नावली ॥
काकलम् २२नीरुजम् २३ । इति जटाधरः ॥
“कुष्ठं रोगाह्वयं वाप्यं पारिभव्यं तथोत्पलम् ।कुष्ठमुष्णं कटु स्वादु शुक्रलं तिक्तकं लघु ।हन्ति वातास्रवीसर्पकासकुष्ठमरुत्कफान्” ॥
* ॥
अथ कुष्ठभेदपुष्करमूलम् ।“उक्तं पुष्करमूलन्तु पुष्करं पौष्करञ्च तत् ।पद्मपत्रञ्च काश्मीरं कुष्ठभेदमिदं जगुः ॥
पौष्करं कटुकं तिक्तमुष्णं वातकफज्वरान् ।हन्तिशोथारुचिश्वासान् विशेषात् पार्श्वशूलनुत्” ॥
इति भावप्रकाशः ॥
अस्य गुणाः । कटुत्वम् ।उष्णत्वम् । तिक्तत्वम् । कफवायुकुष्ठरोगविसर्प-विषकण्डूखर्ज्जूदद्रुनाशित्वम् । कान्तिकारित्वञ्च ।इति राजनिर्घण्टः ॥
श्वासकासज्ज्वरहिक्काना-शित्वम् । इति राजवल्लभः ॥
* ॥
स्वनामख्यातरोगः । कुट् इति भाषा । तत्पर्य्यायः ।श्वित्रम् २ । इत्यमरः । २ । ४ । ५४ ॥
श्वेतम् ३श्वेत्रम् ४ । इति तट्टीका ।तस्य निदानपूर्व्विका संप्राप्तिर्यथा ।“विरोधीन्यन्नपानानि द्रवस्निग्धगुरूणि च ।भजतामागतां छर्दिं वेगांश्चान्यान् प्रतिघ्नताम् ॥
व्यायाममतिसन्तापमतिभुक्त्वा निषेविणाम् ।शीतोष्णलङ्घनाहारान् क्रमं मुक्त्वा निषेविणाम् ॥
घर्म्मश्रमभयार्त्तनां द्रुतं शीताम्बुसेविनाम् ।अजीर्णाध्यशिनाञ्चैव पञ्चकर्म्मापचारिणाम् ॥
नवान्नदधिमत्स्यातिलवणाम्लनिषेविणाम् ।मांसमूलकपिष्टान्नतिलक्षीरगुडाशिनाम् ॥
व्यायामञ्चाप्यजीर्णेऽन्ने निद्राञ्च भजतां दिवा ।विप्रान् गुरून् धर्षयतां पापं कर्म्म च कुर्व्वताम् ॥
वातादयस्त्रयो दुष्टास्त्वग्रक्तं मांसमम्बु च ।दूषयन्ति स कुष्ठानां सप्तको द्रव्यसंग्रहः ॥
अतः कुष्ठानि जायन्ते सप्त चैकादशैव तु ।कुष्ठानिं सप्तधा दोषैः पृथग्द्वन्द्वैः समागतैः ॥
सर्व्वेष्वपि त्रिदोषेषु व्यपदेशोऽधिकत्वतः” ॥
* ॥
तस्य पूर्व्वरूपं यथा ।“अतिश्लक्ष्णः खरः स्पर्शः स्वेदास्वेदौ विवर्णता ।दाहः कण्डुस्त्वचि स्वापस्तोदः कोठोन्नतिर्भ्रमः ॥
व्रणाणामधिकं शूलं शीघ्रोत्पत्तिश्चिरस्थितिः ।रूढानामतिरूक्षत्वं निभित्तेऽल्पेऽपि कोपणम् ॥
रोमहर्षोऽसृजः कार्ष्ण्यं कुष्ठलक्षणमग्रजम्” ॥
* ॥
तच्च वातादिभेदेन अष्टादशप्रकारम् ।तत्र सप्तमहाकुष्ठानि यथा ।“कृष्णारुणकपालाभं यद्रूक्षं परुषं तनु ।कापालं तोदबहुलं तत्कुष्ठं विषमं स्मृतम् ॥
१ ॥
रुग्दाहरागकण्डूभिः परीतं रोमपिञ्जरम् ।उडुम्बरफलाभासं कुष्ठमौडुम्बरं वदेत् ॥
२ ॥
श्वेतं रक्तं स्थिरं स्त्यानं स्निग्धमुत्सन्नमण्डलम् ।कृच्छ्रमन्योन्यसंयुक्तं कुष्टं मण्डलमुच्यते ॥
३ ॥
कर्कशं रक्तपर्य्यन्तमन्तःश्यावं सवेदनम् ।यदृष्यजिह्वासंस्थानमृष्यजिह्वं तदुच्यते ॥
४ ॥
सश्वेतं रक्तपर्य्यन्तं पुण्डरीकदलोपमम् ।सोत्सेधञ्च सरागञ्च पुण्डरीकं प्रचक्षते ॥
५ ॥
श्वेतं ताम्रं तनु च यद्रजो घृष्टं विमुञ्चति ।प्रायश्चोरसि तत् सिध्ममलावुकुसुमोपमम् ॥
६ ॥
यत् काकणन्तिकावर्णमपाकं तीव्रवेदनम् ।त्रिदोषलिङ्गं तत्कुष्ठं काकणं नैव सिध्यति” ॥
७ ॥
एकादशक्षुद्रकुष्ठानि यथा ।“अस्वेदनं महाकास्तु यन्मत्स्यसकलोपमम् ।तदेव कुष्ठं चर्म्माख्यं बहुलं हस्तिचर्म्मवत् ॥
१ ॥
श्यावं किणखरस्पर्शं परुषं किटिमं स्मृतम् ॥
२ ॥
वैपादिकं पाणिपादस्फुटितं तीव्रवेदनम् ॥
३ ॥
कण्डुमद्भिः सरागैश्च गण्डैरलसकं चितम् ॥
४ ॥
सकण्डुरागपिडकं दद्रुमण्डलमुद्गतम् ॥
५ ॥
रक्तं सशूलं कण्डूमत् सस्फोटं यद्गलत्यपि ।तच्चर्म्मदलमाख्यातं संस्पर्शासहमुच्यते ॥
६ ॥
सूक्ष्मा बह्व्यः पिडकाः स्राववत्यःपामेत्युक्ताः कण्डुमत्यः सदाहाः । ७ ॥
सैव स्फोटैस्तीव्रदाहैरुपेताज्ञेया पाण्योः कच्छुरुग्रास्फिचोश्च ॥
८ ॥
स्फोटाः श्यावारुणा भासा विष्फोटाः स्युस्तनुत्वचः ॥
९ ॥
रक्तं श्यावं सदाहार्त्ति शतारुः स्याद्बहुव्रणम् ॥
१० ॥
सकण्डुपिडका श्यावा बहुस्रावा विचर्च्चिका” ॥
११ ॥
इति माधवकरः ॥
कुष्ठः, (कुष्णाति शरीरस्थशोणितं विकुरुते इति ।निष्कर्षार्थकस्य कुष्धातोरत्र विकारार्थत्वं बोध्य-ते धातूनामनेकार्थत्वात् । कुष् निष्कर्षे + “हनि-कुषीति” । उणां २ । २ । इति क्थन् ।)स्वनामख्यातरोगः ।तस्य निदानं पूर्व्वलिखितम् । औषधं यथा ।“सर्व्वकुष्टेषु वमनं रेचनं रक्तमोक्षणम् ।वचावासापटोलानां निम्बस्य फलिनीत्वचः ॥
कषायो मधुना पीतो वातहृन्मदनान्वितः ।विरेचनं प्रयोक्तव्यं त्रिवृद्दन्तीफलत्रिकैः ॥
मनःशिला मरीचानि तैलपाकं पयो हरेत् ।सर्व्वकुष्ठानुलेपोऽयं शिवा पञ्चगुडोदनम् ॥
करञ्जैडगजौ कुष्ठं गोमूत्रेण प्रलेपतः ।करवीरोद्वर्त्तनञ्च तैलाक्तस्य तु कुष्ठहृत् ॥
हरिद्रामलयं रास्ना गुडूच्येडगजस्तथा ।आरग्वधः करञ्जश्च लेपः कुष्ठहरः परः ॥
मनःशिला विडङ्गानि वाकुची सर्षपस्तथा ।करञ्जो मूत्रपिष्टोऽयं लेपः कुष्ठहरोऽर्कवत् ॥
विडङ्गैडगजाकुष्ठनिशासिन्धूत्थसर्षपैः ।मूत्राम्बुपिष्टो लेपोऽयं दद्रुकुष्ठविनाशनः ॥
प्रपुन्नाटकवीजानि धात्री सर्ज्जरसः स्नूही ।सौवीरपिष्टं दद्रू णामेतदुद्वर्त्तनं परम् ॥
आरग्वधस्य पत्राणि आरनालेन पेषयेत् ।दद्रुकिट्टिमकुष्ठानि हन्ति सिध्मानमेव च ॥
उष्णा पीता वाकुची च कुष्ठजित् क्षीरभोजिनः ।तिलाज्यत्रिफलाक्षौद्रव्योषभल्लातशर्कराः ॥
वृष्यः सप्तसमो मेध्यः कुष्ठहा कामचारिणः ।विडङ्गत्रिफलाकृष्णाचूर्णं लीढं समाक्षिकम् ॥
हन्ति कुष्ठं कृमीन्मेहनाडीव्रणभगन्दरान् ।यः खादेदभयारिष्टामलकानि तथा निशा ॥
स जयेत् सर्व्वकुष्ठानि मासादूर्द्ध्वं न संशयः ।दह्यमानाच्युतः कुम्भे मूलगे खदिराङ्कुरः ॥
साक्षधात्रीरसक्षौद्रं हन्यात् कुष्ठं रसायनम् ।धात्रीखदिरयोः क्वाथं पीत्वावल्गुजसंयुतम् ॥
शङ्खेन्दुधवलं श्वित्रं हन्ति तूर्णं न संशयः ।पीत्वा भल्लातकं तैलं मांसव्याधिं जयेन्नरः ॥
सेवितं खादिरं वारि पानाद्यैः कुष्ठजिद्भवेत् ।वासा गुडूची त्रिफला पटोलञ्च करञ्जकम् ॥
निम्बासनं कृष्णवेत्रं क्वाथकल्केन यद्युतम् ।वज्रकं तद्धरेत् कुष्ठं शतं वर्षाणि जीवति ॥
स्वरसेन च दूर्व्वायाः पचेत्तैलं चतुर्गुणम् ।कच्छुर्विचर्च्चिका पामा अभ्यङ्गादेव नश्यति ॥
द्रुमत्वगर्ककुष्ठानि लवणानि च मूत्रकम् ।गण्डीरिका चित्रकैस्तैस्तैलं कुष्ठव्रणादिनुत्” ॥
इति गारुडे १७५ अध्यायः ॥
“कुष्ठेन्द्रयवसिद्धार्थनिशा दूर्व्वा च कुष्ठजिंत्” ॥
इति तत्रैव १७५ अध्यायः ॥
“करवीरं भृङ्गराजं लवणं कुष्ठमर्द्दकम् ।चतुर्गुणेन मूत्रेण पचेत्तैलं हरेच्च तत् ।पामां विचर्च्चिकां कुष्ठमभ्यङ्गाद्धि व्रणानि वै” ॥
“सैन्यवञ्च विडङ्गानि सोसराजी तु सर्षपाः ।रजनी द्वे विषाञ्चैव गोमूत्रेण च पेषयेत् ।कुष्ठनाशश्च तत्क्षेपान्निम्बपत्रादनात्तथा” ॥
इति च गारुडे १८७ अध्यायः ॥
“सतक्रकाशमूलं वा वाकुचीमूलमेव वा ।काञ्जिकेन च वाकुच्या मूलं वै कुष्ठरोगनुत्” ॥
इति गारुडे १८८ अध्यायः ॥
“पीतं वृश्चिकमूलन्तु पर्य्युषितजलेन वै ।सार्द्धं विनाशयेद्दाहज्वरञ्च परमेश्वर ! ॥
शिखायाञ्चैव तद्बद्धं भवेदैकाहिकादिनुत् ।एतत् सकाञ्जिकं पीतं वातकुष्ठज्वरादिनुत्” ॥
इति गारुडे १९३ अध्यायः ॥
“नित्यं निम्बदलानाञ्च चूर्णमामलकस्य च ।प्रत्यूषे भक्षयेच्चैव तस्य कुष्ठं विनश्यति ॥
हरीतकी विडङ्गञ्च हरिद्रा सितसर्षपाः ।सोमराजस्य वीजानि करञ्जस्य च सैन्धवम् ।गोमूत्रपिष्टान्येतानि कुष्ठरोगहराणि च” ॥
वीजानि स्थाने मूलानि वा पाठः ।इति तत्रैव १९४ अध्यायः ॥
“चन्दनं कुङ्कुमं मांसी कर्पूरो जातिपत्रिका ।जातीकक्कोलपूगाणां लवङ्गस्य फलानि च ॥
अगुरूशीरकस्तूर्य्यः कुष्ठं तगरनालिका ।गोरोचना प्रियङ्गुश्च वोलं मदनकं नखम् ॥
सरलः सप्तपर्णश्च लाक्षा चामलकी तथा ।कर्व्वूरकः पद्मकञ्च एतैस्तैलं प्रसाधितम् ।प्रस्वेदमलदौर्गन्ध्यकण्डूकुष्ठहरं परम्” ॥
इति गारुडे १९८ अध्यायः ॥
* ॥
अथ वैद्यकमते कुष्ठचिकित्सामाह ।“वातोत्तरेषु सर्पिर्व्वमनं श्लेष्मोत्तरेषु कुष्ठेषु ।पित्तोत्तरेषु मोक्षो रक्तस्य विरेचनं श्रेष्ठम् ॥
पुराणधान्यानि च जाङ्गलानिमांसानि मुद्गाश्च पटोलयुक्ताः ।यवादयश्चात्र हिताः पुराणाघृतानि शाकानि च तिक्तकानि” ॥
तन्त्रान्तरे ।“पुराणाः शालिगोधूममुद्गाद्याः कुष्ठिनो हिताः ।तिक्तशाकं जाङ्गलञ्च पानादौ खदिरोदकम् ॥
ये लेपाः कुष्ठानां यज्यन्ते निर्गतास्रदोषाणाम् ।संशोधिताशयानां सद्यः सिद्धिर्भवेत्तेषाम् ॥
दूर्व्वाऽभयासैन्धवचक्रमर्द्द-कुठेरकाः काञ्जिकतक्रपिष्टाः ।एभिः प्रलेपैरपि बद्धमूलांकण्डूञ्च दद्रुञ्च निवारयन्ति ॥
तुल्यो रसः शालतरोस्तुषेणसचक्रमर्द्दोऽप्यभयाविमिश्रः ।पानीयभुक्तेन तदम्लपिष्टोलेपः कृतो दद्रुगजेन्द्रसिंहः ॥
विडङ्गैडगजाकुष्ठनिशासिन्धूत्थसषपैः ।धान्याम्लपिष्टैर्लेपोऽयं दद्रुकुष्ठविनाशनः ॥
एडगजकुष्ठसैन्धवसौवीरसर्षपैः क्रिमिघ्नैः ।क्रिमिसिध्मदद्रुमण्डलकुष्ठानां नाशनो लेपः ॥
पर्णानि पिष्ट्वा चतुरङ्गुलस्यतक्रेण पर्णान्यथ काकमाच्याः ।तैलाक्तगात्रस्य नरस्य कुष्ठा-न्युद्वर्त्तयेदश्वहनच्छदैश्च ॥
५ ॥
विडङ्गसैन्धवशिवाशशिरेखा-सर्षपकरञ्जरजनीभिश्च ।गोजलपिष्टो लेपःकुष्ठहरो दिवसनाथसमः ॥
६ ॥
कासमर्द्दकमूलञ्च काञ्जिकेन प्रपेषितम् ।दद्रुकिट्टिमकुष्ठानि जयेदेतत्प्रलेपनात् ॥
७ ॥
आरग्वधस्य पत्राणि आरनालेन पेषयेत् ।दद्रुकिट्टिमकुष्ठानि हन्ति सिध्मानमेव च ॥
८ ॥
चक्राह्वयं स्नुहीक्षीरं भावितं मूत्रसंयुतम् ।रवितप्तं हि किञ्चित्तु लेपनं किट्टिमापहम् ॥
९ ॥
शिखरीरसेन सुपिष्टं मूलकवीजं प्रलेपतः सिध्म ।क्षारेण वा कदल्या रजनीमिश्रेण नाशयति ॥
१० ॥
॥
११ ॥
सक्षारं गन्धकं लेपात् कटुतैलेन सिध्मजित् ॥
कासमर्द्दकवीजानि मूलकानां तथैव च ॥
१२ ॥
१३ ॥
गन्धाश्वचूर्णमिश्राणि सिध्मनां परमौषधम् ॥
उपदेशात् काञ्जिकपिष्टैर्लेपः ॥
१४ ॥
गन्धपाषाणचूर्णेन यवक्षारेण लेपितम् ।सिध्मनाशं व्रजत्याशु कटुतैलयुतेन च ॥
द्वयं समं कटुतैलेन लेपः ॥
१५ ॥
कुष्ठं मूलकवीजं प्रियङ्गवः सर्षपास्तथा रजनी ।एतत् केशरषष्ठं निहन्ति बहुवार्षिकं सिध्म ॥
१६ ॥
नीलकुरुण्टकपत्रैरालिप्य गात्रमतिबहुशः ।लिम्पेन्मूलकवीजैः पिष्टैस्तक्रेण सिध्मनाशाय ॥
१७ ॥
एडगजातिलसर्षपकुष्ठं मागधिकालवणत्रयमस्तु ।पूतिकृतं दिवसत्रयमेतद्धन्ति विचर्च्चिकदद्रुककुष्ठम्॥
१८ ॥
सिन्दूरमरिचचूर्णं महिषीनबनीतसंयुतं बहुशः ।लेपान्निहन्ति पामां तैलं करवीरसिद्धं वा ॥
१९ ॥
२० ॥
पारदं शङ्खगन्धञ्च शिलाचोत्तरवारुणी ।प्रपून्नाडश्च सर्पाक्षिमेघनादाग्निलाङ्गली ॥
उत्तरवारुणी, राखालशशा इति ख्याता ॥
भल्लातं गृहधूमञ्च मुनिगुञ्जा स्नुहीपयः ।अरिष्टञ्च गुडः क्षौद्रं वागुजीवीजतुल्यकम् ॥
गोमूत्रैरारनालैर्व्वा पिष्ट्वा लेपञ्च कारयेत् ।दद्रुमण्डलकण्डूञ्च विचर्ञ्चिञ्च विनाशयेत् ॥
२१ ॥
मनःशिलाले मरिचञ्च तैल-मार्कं पयः कुष्ठहरः प्रलेपः ॥
२२ ॥
विषवरुणहरिद्राचित्रकागारधूम-मनलमरिचदूर्व्वाक्षीरमर्क्कस्नुहीभ्याम् ।दहति पतितमात्रात् कुष्ठजातीरशेषाः ।कुलिशमिव सरोषाच्छक्रहस्ताद्विमुक्तम् ॥
अत्र अनलं भल्लातकः ॥
२३ ॥
भल्लातका द्वीपि सुधार्कमूलंगुञ्जाफलत्र्यूषणशङ्खचूर्णम् ।तुत्थं सकुष्ठं लवणानि पञ्चक्षारद्वयं लाङ्गलिकाञ्च पक्त्वा ॥
स्नुह्यर्कदुग्धं घनमायसस्थंशलाकया तद्विदधीत लेपम् ।कुष्ठे किलासे तिलकालके चअशेषदुर्नामसचर्म्मकीले ॥
भल्लातका द्वीपि चित्रकं तन्मूलम् ॥
एषां समभागचूर्णं सिजार्कयोः क्षीरे दत्त्वाकिञ्चित् पाकं कुर्य्यात् । अथ वा क्षीरद्वयं चतु-र्गुणं चूर्णं पादिकं लेपयोग्यं पाकं कुर्य्यात् । शला-कया कुष्ठस्थाने दद्यात् ॥
२४ ॥
“स्नुक्काण्डशुशिरे दग्ध्वा गृहधूमं ससैन्धवम् ।अन्तर्धूमं तैलयुक्तं लेपाद्धन्ति विचर्च्चिकाम्” ॥
सिजनलके सैन्धवगृहधूमं समभागं प्रपूर्य्य स्थाल्य-भ्यन्तरे कृत्वा शरावेण पिधाय दग्ध्वा पिष्ट्वाकटुतैलेन लेपः ॥
२५ ॥
“स्नुक्काण्डे सर्षपात् कल्कः कुकूलानलपाचितः ।लेपाद्विचर्च्चिकां हन्ति रागवेगं इव त्रपाम्” ॥
सिजनलके राइकल्कं प्रपूर्य्य शुष्कगोमयाग्नौदग्ध्वा कटुतैलेन लेपः ॥
२६ ॥
“नारिकेलोदरे न्यस्तस्तण्डुलः पूतिता गतः ।लेपाद्विपादिकां हन्ति चिरकालानुबन्धिनीम् ॥
२७तिलकुसुमलवणगोजलकटुतैलं लौहभाजने कृत्वा ।शोषितमर्कमयूखैः पादस्फुटनं निहन्ति लेपेन” ॥
२८“उन्मत्तकस्य वीजेन माणकक्षारवारिणा ।कटुतैलं विपक्तव्यं शीघ्रं हन्ति विपादिकाम्” ॥
कटुतैल शं ४ भाणनालपत्राणां क्षार पल ६४जल शं ६४ शेष शं १६ कल्क धुस्तूरवीज पल८ । उन्मत्ततैलम् ॥
२९ ॥
“अवल्गुजं कासमर्द्दं चक्रमर्द्दं निशायुगम् ।माणिमन्थञ्च तुल्यांशं मस्तुकाञ्जिकपेषितम् ॥
कण्डूं कच्छूं जयत्युग्रां सिद्ध एष प्रयोगराट् ॥
३० ॥
कोमलसिंहास्यदलं सनिशं सुरभीजलेन पिष्टम् ।दिवसत्रयेण नियतं क्षपयति कच्छूं विलेपनतः ॥
३१“वायस्येडगजाकुष्ठकृष्णाभिर्गुडिका कृता ।वस्तमूत्रेण संपिष्ट्वा लेपाच्छूइत्रविनाशिनी” ॥
समभागचूर्णं छागमूत्रेण पिष्ट्वा गुडिका कार्य्या ।तेनैव लेपः ॥
३२ ॥
“पूतिकार्कस्नुक्नरेन्द्रद्रुमाणांमूत्रैः पिष्ट्वा पल्लवाः सौमनाश्च ।लेपाच्छ्वित्रं हन्ति दद्रुव्रणांश्चकुष्ठान्यर्शांस्यस्रनाडीव्रणांश्च” ॥
सौमना जातीपत्री ॥
सर्व्वेषां पल्लवान् गोमूत्रेणपिष्ट्वा लेपो देयः ॥
३३ ॥
“गजचित्रव्याघ्रचर्म्ममसीतैलविलेपनात् ।श्वित्रं नाशं व्रजेत् किं वा पूतिकीटविलेपनात्” ॥
गजचर्म्म चित्ररोमव्याघ्रचर्म्म अनयोर्भस्म कटु-तैलञ्च लेपः । अथवा पादुडियाकीटं पिष्ट्वा लेपः ॥
३४ ॥
३५ ॥
“कुडवोऽवल्गुजवीजात् हरिताल-चतुर्थमागसंमिश्रः । गवां मूत्रेण पिष्टः स्ववर्ण-करणः परं श्वित्रे” ॥
आयुर्व्वेदसारेऽपि ।“कुडवो वागुजीवीजात् हरितालपलान्वितः ।गवां मूत्रेण संपिष्य लेपनात् श्वित्रनाशनम् ॥
३६ ॥
धात्रीखदिरयोः क्वाथं पीत्वा च मधुसंयुतम् ।शङ्खकुन्देन्दुधवलं जयेच्छित्रं न संशयः ॥
३७ ॥
धात्रीखदिरयोः क्वाथमवल्गुजरजोऽन्वितम् ।पीत्वा शङ्खेन्दुकुन्दाभं हन्ति श्वित्रं न संशयः ॥
३८ ॥
क्षारे सुदग्धे गजलण्डजे चगजस्य मूत्रेण बहुश्रुते च ।द्रोणप्रमाणं दशभागयुक्तंदत्त्वा पचेत् वीजमवल्गुजस्य ॥
एतद्यदा चिक्वणतामुपैतितदाशु सिद्धां गुडिकां प्रकुर्य्यात् ।श्वित्रं प्रलिम्पेदथ तेन घृष्टंतदा व्रजत्याशु स्ववर्णभावम् ॥
३९ ॥
श्वेतजयन्तीमूलं पीतं पिष्टञ्च पयसैव ।श्वित्रं निहन्ति नियतं रविवारे वैद्यनाथाज्ञा ॥
४० ॥
गुञ्जाफलाग्निचूर्णन्तु लेपितं श्वेतकुष्ठनुत् ।शिलापामार्गभस्मापि लिप्त्वा श्वित्रं विनाशयेत् ॥
४१ ॥
४२ ॥
एरण्डतुलसीवीजं वागुजी चक्रमर्द्दकम् ।तिक्तकोषातकीवीजं कृष्णाङ्कोठस्य वीजकम् ॥
गोमूत्रदधिदुग्धैश्च पचेदप्याजमूत्रकैः ।कल्कं दत्त्वा शिला काशी पथ्या कुष्ठं विडङ्गकम् ॥
कटुतैलञ्च तल्लेपाद्घृष्ट्वा घृष्ट्वा विलेपनैः ।पञ्चाननमिदं तैलं श्वेतकुष्ठकुलापहम्” ॥
कुटुतैल शं ४ क्वाथ्यएरण्डवीजादीनां मिलित्वा शं२ कल्कशिलाकाश्यादीनां मिलित्वा शं १ ।इति श्वित्रे पञ्चाननतैलम् ॥
४३ ॥
“आरग्वधं धवं कुष्ठं हरितालं मनःशिला ।रजनीद्वयसंयुक्तं पचेत्तैलं विधानवित् ॥
एतेनाभ्यञ्जनादेव क्षिप्रं श्वित्रं विनश्यति” ॥
तिलतैल शं ४ पा शं १६ कल्कमिलित शं १ ।इति आरग्वधाद्यं तैलम् ॥
४४ ॥
“शुद्धसूतं समं गन्धं त्रिफला भृङ्गवागुजी ।भल्लातकं तिलः कृष्णो निम्बवीजं समं समम् ।मर्द्दयेद्भृङ्गजद्रावैः शोष्यं पेष्यं पुनः पुनः ॥
इत्थं कुर्य्युस्त्रिसप्ताहं रसः श्वेतारिको भवेत् ।मध्वाज्यैर्निष्कमात्रन्तु खादेत् श्वेतं विनाशयेत्” ॥
इति श्वेतारिः ॥
४५ ॥
“पिबति सकटुतैलं गन्धपाषाणचूर्णंरविकिरणसुतप्तं पामनो यः पलार्द्धम् ।त्रिदिनतदनुसिक्तः क्षीरभोजी च शीघ्रंभवति कनकदीप्तिः कामरूपी मनुष्यः” ॥
६६ ॥
“तीव्रेण कुष्टेन परीतदेहोयः सोमराजीं नियमेन खादेत् ।संवत्सरं कृष्णतिलद्वितीयांस सोमराजीं वपुषाऽतिशेते ॥
४७ ॥
घर्म्मसेवी कदुष्णेन वारिणा वागुजीं पिबेत् ।क्षीरभोजी च सप्ताहात् कुष्ठी कुष्ठं व्यपोहति ॥
४८अवल्गुजवीजकर्षं पीत्वा कोष्णेन वारिणा ।भोजनं सर्पिषा कार्य्यं सर्व्वकुष्ठविनाशनम् ॥
४९ ॥
छिन्नायाः स्वरसो वापि सेव्यमानो यथाबलम् ।जीर्णे घृतेन भुञ्जीत मुद्गयूषौदनेन च ॥
अपि पूतिशरीरोऽपि दिव्यरूपी भवेन्नरः ॥
५० ॥
यः खादेदभयारिष्टमरिष्टामलकानि वा ।स जयेत् सर्व्वकुष्ठानि मासादूर्द्ध्वं न संशयः ॥
५१ ॥
५२ ॥
निम्बस्य पत्रं मूलानि सत्वक्पुष्पफलानि च ।चूर्णितानि घृतक्षौद्रसंयुतानि दिने दिने ॥
लिह्यात् पिबेद्वा मूत्रेण संयक्तान्युदकेन वा ।मदिरामलतोयेन पयसा वा यथाबलम् ॥
भुञ्जीत घृतयूषाद्यैः शाल्यन्नं पयसापि वा ।सर्व्वकुष्ठविसर्पार्शोनाडीदुष्टव्रणानपि ॥
कामलाञ्च गदानन्यांस्तथा पित्तकफास्रजान् ।संवत्सरप्रयोगेण सर्व्ववर्ज्ज्यविवर्ज्जितः ॥
जयत्येतत् पञ्चनिम्बं रसायनमनुत्तमम्” ॥
इति पञ्चनिम्बम् ॥
५३ ॥
“पुष्पकाले च पुष्पाणि फलकाले फलानि च ।संचूर्ण्य पिचुमर्द्दस्य त्वङ्मूलानि दलानि च ॥
द्विरंशानि समाहृत्य भागिकानि प्रकल्पयेत् ।त्रिफलात्र्युषणं ब्रह्मी श्वदंष्ट्रारुष्कराग्निकाः ॥
विडङ्गसारवाराहीलौहचूर्णामृताः समाः ।हरिद्राद्वयावल्गुजव्याधिघाताः सशर्कराः ॥
कुष्ठेन्द्रयवपाठाश्च कृत्वा चूर्णं सुसंयुतम् ।खदिरासननिम्बानां घनक्वाथेन भावयेत् ॥
सप्तधा पञ्चनिम्बञ्च मार्करस्वरसेन च ।स्निग्धशुद्धतनुर्धीमान् योजयेच्च शुभे दिने ॥
अधुना तिक्तहविषा खदिरासनवारिणा ।सेव्यमुष्णाम्बुना वापि कोलवृद्ध्या पलं पिबेत् ॥
तिक्तहविषा वक्ष्यमाणपञ्चतिक्तघृतेन ॥
जीर्णे च भोजनं कार्य्यं स्निग्धं लघु हितञ्च यत् ॥
विचर्च्चिकोडुम्बरपुण्डरीक-कपालदद्रूकिटिमालसादि ।शतारुविस्फोटविसर्पपामांकुष्ठप्रकोपं विविधं किलासम् ॥
भगन्दरं श्लीपदवातरक्तंजडान्ध्यनाडीव्रणशीर्षरोगान् ।सर्व्वप्रमेहान् प्रदरांश्च सर्व्वान्दंष्ट्राविषं मूलविषं निहन्ति ॥
स्थूलोदरः सिंहकृशोदरश्चसुश्लिष्टसन्धिर्मधुनोपयोगात् ।समीपयोगादपि ये दशन्तिसर्पादयो यान्ति विनाशमाशु ॥
जीवेच्चिरं व्याधिजराविमुक्तःशुभे रतश्चन्द्रसमानकान्तिः” ॥
इति पञ्चनिम्बः ॥
५४ ॥
“अमृतायाः पलशतं दशमूल्यास्तथा शतम् ।पाठामूर्व्वाबलातिक्तादार्व्वीगन्धर्व्वहस्तकाः ॥
एषां दशपलान् भागान् विभीतक्याः शतं हरेत् ।द्वे शते च हरीतक्या आमलक्यास्तथा शतम् ॥
जलद्रोणद्वये पक्त्वा अष्टभागावशेषितम् ।प्रस्थं गुग्गुलुमाहृत्य प्रस्थार्द्धञ्च घृतं पचेत् ॥
पाकसिद्धौ प्रदातव्यं गुडूच्याः सत्त्वमेव च ।पलद्वयं तथा शुण्ठ्याः पिप्पल्याश्च पलद्वयम् ॥
ततो मात्रां प्रयुञ्जीत ज्ञात्वा दोषबलाबलम् ।अष्टादशसु कुष्ठेषु वातरक्तगदेषु च ॥
कामलामामवातञ्च अग्निमान्द्यं भगन्दरम् ।पीनसञ्च प्रतिश्यायं प्लीहानमुदरं तथा ॥
एतान् रोगान्निहन्त्याशु भास्करस्तिमिरं यथा” ॥
अमृतागुग्गुलुः । अयं वातरक्ते प्रशस्तः ॥
५५ ॥
“निम्बामृतावृषपटोलनिदिग्धिकानांभागान् पृथग्दशपलान् विपचेद्घटेऽपाम् ।अष्टांशशेषितरसेन सुनिश्चितेनप्रस्थं घृतस्य विपचेत् पिचुभागकल्कैः ॥
पाठाविडङ्गसुरदारुगजोपकुल्या-द्विक्षारनागरनिशामिषिचव्यकुष्ठैः ।तेजोवतीमरिचवत्सकदीप्यकाग्नि-रोहिण्यरुष्करवचाकणमूलयुक्तैः ॥
मञ्जिष्ठयातिविषया वरया यमान्यासंशुद्धगुग्गुलुपलैरपि पञ्चसंख्यैः ।तत् सेवितं विधमति प्रबलं समीरंसन्ध्यस्थिमज्जगतमप्यथ कुष्ठमीदृक् ॥
नाडीव्रणार्व्वुदभगन्दरगण्डमाला-जत्रूर्द्ध्वसर्व्वगदगुल्मगुदोत्थमेहान् ।यक्ष्मारुचिश्वसनपीनसकासशोष-हृत् पाण्डुरोगगलविद्रधिवातरक्तम्” ॥
इति पञ्चतिक्तघृतगुग्गुलुः ॥
५६ ॥
* ॥
“श्वेतकरवीरमूलं विषांशकं साधितं गोमूत्रे ।चर्म्मदलसिध्मपामाविस्फोटक्रिमिकिटिमजित्तैलम्” ॥
तिलतैल ४ शेर, गोमूत्र १६ शेर, श्वेतकरवीर-मूल ४ पल, विष ४ पल । करवीरतैलम् ॥
५७ ॥
“मृतस्य कृष्णसर्पस्य शिरःपुच्छान्त्रवर्ज्जितम् ।अन्तर्धूमं कृतं भस्म वागुजीतैलमिश्रितम् ।एतेन मर्दनादेव गलत्कुष्ठं विनश्यति” ॥
इति कृष्णसर्पतैलम् ॥
५८ ॥
“सूतकं गन्धकं कुष्ठं सप्तपर्णञ्च चित्रकम् ।सिन्दूरञ्च रसोनञ्च हरितालमवल्गुजम् ॥
आरग्वधस्य वीजानि जीर्णताम्रं मनःशिला ।प्रत्येकं कर्षमेतेषां कटुतैलं पलाष्टकम् ॥
साधयेत् सूर्य्यतापेन सर्व्वकुष्ठविनाशनम् ।श्वित्रमौडुम्बरं कच्छूं मांसवृद्धिं भगन्दरम् ॥
विचर्च्चिकाञ्च पामानं वातरक्तं सुदारुणम् ।गम्भीरञ्च तथोत्तानं नाशयेत् यस्य म्रक्षणात् ॥
कुष्ठराक्षसनामेदं स्ववर्णकरणं परम् ।अश्विभ्यां निर्म्मितं ह्येतत् लोकानुग्रहहेतवे” ॥
इति कुष्ठराक्षसतैलम् ॥
५९ ॥
“सूतं गन्धं शिला तालं काञ्जिकैर्मर्दयेद्दिनम् ।तल्लिप्तवस्त्रवर्त्तीं तां तैलाक्तां ज्वालयेदधः ॥
स्थिते पात्रे पचेत्तैलं गृहीत्वा लेपयेत्ततः ।कुष्ठस्थानं विशेषेण सर्व्वकुष्ठं हरत्यलम् ॥
इदं कालानलं तैलं वातकुष्ठे महौषधम्” ॥
“एषां समं काञ्जिकं सर्व्वेषां द्विगुणं तिलतैलंम् ।कल्कं वस्त्रे संलिप्य संशोष्य वर्त्तीं कुर्य्यात् तांतैलाक्तां सम्दंशिकया ज्वालयित्वा उपरि तैलंदत्त्वा ततः पतितं तैलं अधःपात्रे गृह्णीयात् ततःकुष्ठस्थाने दद्यात्” ॥
इति कुष्ठकालानलतैलम् ॥
६० ॥
“सिन्दूरामृततालगैरिकहलाजाजीगदत्र्यूषणै-र्हृत्पाषाणरसोनवाणदहनस्नुह्यर्कदुग्धैर्निशा ।राजीगन्धकहिङ्गुभिः परिमितैः शुक्त्या पचेत् सार्षपंतैलं प्रस्थमितं घृतस्य कुडवं पात्रं तथार्काद्रसम्” ॥
हृत्पाषाणं मनःशिला ।“गोमूत्रञ्च तथा विनीय सकलं पूतं शृतं रोगिणदद्यात् कुष्ठविचर्च्चिकादिषु भिषक् नाम्ना तु षड्-विन्दुकम्” ॥
इति षड्विन्दुतैलम् ॥
६१ ॥
“सर्व्वकुष्ठे सर्व्वव्रणे सर्व्वत्र गलिते क्षते ।नक्तमालं हरिद्रे द्वे अर्कं तगरमेव च ॥
करवीरवचाकुष्ठं आस्फोता रक्तचन्दनम् ।मालती सिन्धुवारञ्च मञ्जिष्ठा सप्तपर्णकम् ॥
एषामर्द्धपलान् भागान् विषस्य द्विपलं तथा ।चतुर्गुणे गवां मूत्रे तैलप्रस्थं विपाचयेत् ॥
श्वित्रविस्फोटकिटिमकीटलूताविचर्च्चिकाः ।कण्डूकच्छुरिकायाश्च ये व्रणा विषदूषिताः ॥
ते सर्व्वे नाशमायान्ति तमः सूर्य्योदये यथा ॥
विषतैलमिदं नाम्ना सर्व्वब्रणविशोधनम्” ॥
इति विषतैलम् ॥
६२ ॥
“सोमराजी हरिद्रे द्वे सर्षपाः कुष्ठमेव च ।करञ्जैडगजावीजं पत्राण्यारग्वधस्य च ॥
विपचेत् सार्षपं तैलं नाडीदुष्टव्रणापहम् ।अनेनाशु प्रशाम्यन्ति कुष्ठान्यष्टादशैव तु ॥
नीलिका पिडका व्यङ्गा गम्भीरं वातशोणितम् ।कण्डूकच्छुप्रशमनं दद्रुपामानिवारणम्” ॥
इति सोमराजीतैलम् ॥
६३ ॥
“सोमराजीतुलाक्वाथे यथा दद्रुहनस्य च ।गोमूत्रस्य तथा पात्रे कल्कं दत्त्वा विचक्षणः ॥
विपचेत् कार्षिकैर्भागैः कटुतैलाढकं भिषक् ।चित्रकं लाङ्गलाख्या च नागरं कुष्ठमेव च ॥
हरिद्रा नक्तमालञ्च हरितालं मनःशिला ।आस्फोतार्ककरवीरं सप्तपर्णञ्च गोमयम् ॥
खदिरो निम्बपत्रञ्च मरिचं कासमर्द्दकम् ।एतानि श्लक्ष्णपिष्टानि कल्कं दत्त्वा विचक्षणः ॥
हन्ति सर्व्वाणि कुष्ठानि क्रिमिदुष्टव्रणानि च ।किटिमं दद्रुजातञ्च गात्रवैवर्ण्यमेव च ॥
विशीर्णचर्म्ममांसादिदृढीकरणमुत्तमम् ।पाण्डुरोगं तथा कण्डूं विसर्पं हन्ति दारुणम् ।ये चान्ये त्वग्गता रोगास्तांस्तु शीघ्रं व्यपोहति” ॥
इति वृहत्सोमराजीतैलम् ॥
६४ ॥
“मरिचालशिलाब्दार्कपयोऽश्वारिजटात्रिवृत् ।शकृद्रसविशालारुक् निशायुक्दारुचन्दनैः ॥
कटुतैलात् पचेत् प्रस्थं द्व्यक्षैर्विषपलान्वितैः ।सगोमूत्रैस्तदभ्यङ्गाद्दद्रुश्वित्रविनाशनम् ॥
सर्व्वेष्वपि च कुष्ठेषु तैलमेतत् प्रशस्यते” ॥
इति मरिचाद्यं तैलम् ॥
६५ ॥
“मरिचं त्रिवृता दन्ती क्षीरमार्कं शकृद्रसः ।देवदारु हरिद्रे द्वे मांसी कुष्ठं सचन्दनम् ॥
विशाला करवीरञ्च हरितालं मनःशिला ।चित्रको लाङ्गलाख्या च विडङ्गं चक्रमर्द्दकम् ॥
शिरीषं कुटजो निम्बः सप्तपर्णः स्नुहामृता ।शम्पाको नक्तमालोऽब्दं खदिरं पिप्पली वचा ॥
ज्योतिष्मती च पलिका विषस्य द्विपलं भवेत् ।आढकं कटुतैलस्य गोमूत्रञ्च चतुर्गुणम् ॥
मृत्पात्रे लौहपात्रे वा शनैर्मृद्वग्निना पचेत् ।पक्त्वा तैलवरं ह्येतन्म्रक्षयेत् कुष्ठकान् व्रणान् ॥
पामाविचर्च्चिकादद्रुकण्डूविस्फोटकानि च ।वलयः पलितं छाया नली व्यङ्गं तथैव च ॥
अभ्यङ्गेन प्रणश्यन्ति सौकुमार्य्यञ्च जायते ।प्रथमे वयसि स्त्रीणां यासां नस्यन्तु दीयते ॥
परामपि जरां प्राप्य न स्तना यान्ति नम्रताम् ।बलीवर्द्दस्तुरङ्गो वा गजो वा वायुपीडितः ॥
त्रिभिरभ्यञ्जनैर्गाढं भवेन्मारुतविक्रमः” ॥
कटुतैल १६ शेर, गोमूत्र ६४ शेर, कल्कार्थंमरिचादीनां प्रत्येकं १ पल, विष २ पल ।इति वृहन्मरिचाद्यं तैलम् ॥
६६ ॥
“सप्तपर्णस्तथा काली गुडूची पिचुमर्द्दकम् ।शिरीषञ्च महातिक्ता जया तुम्बी मृगादनी” ॥
काली कालिः लता ॥
“निशादशपलान् मागान् जलद्रोणे विपाचयेत् ।तैलप्रस्थं समादाय गोमूत्रञ्च चतुर्गुणम् ॥
आरग्वधो भृङ्गराजो जयाधुस्तूररात्रयः ।इन्द्राशनाग्निखर्ज्जूरं गोमयार्कस्नुहीच्छदम् ॥
तैलतुल्यं प्रदातव्यं स्वरसञ्च पृथक् पृथक् ।महाकालवचा ब्रह्मी तुम्ब्यग्निगृहपुत्त्रिका ॥
कुचेला कुलका रात्रिर्मेघनामा च ग्रन्थिका ।सम्पाकमर्कक्षीरञ्च कासुन्देश्वरमूलकम्” ॥
कासुन्दमूलकं कालकासुन्दामूलम् । कासुन्दःखरमर्द्दकमिति क्वचित्पाठः तन्मते ईश्वरमूलस्थानेअपामार्गमूलम् ॥
“आचु जिङ्गी महातिक्ता विशाला छपिपत्रकम् ।पूतिकास्फोत मूर्व्वा च सप्तपर्णं शिरीषकम्” ॥
छपिपत्रकं विछातिपत्रम् ॥
“कुटजं पिचुमर्द्दश्च महानिम्बं तथैव च ।गुडूची चन्द्ररेखा च सोमराट् चक्रमर्द्दकम् ॥
तुम्बुरुभृङ्गषष्ट्याह्वकन्दकं कटुरोहिणी ।शटीदार्व्वी त्रिवृत् पद्मग्रन्थिकागुरुपुष्करम् ॥
कर्पूरं कट्फलं मांसी मुरैलाटरुषाभयम् ।एतेषां कार्षिकैः कल्कैर्नाम्ना कन्दर्प उच्यते ॥
अष्टादशविधं कुष्ठं ग्रन्थिमज्जगतं तथा ।हस्तपादाङ्गुलीसन्धिगलितं सर्व्वसन्धिषु ॥
अधिकानि च मांसानि यस्य गात्रे भविष्यति ।नासाकर्णास्यवैकल्यं भेकाकारवपुस्त्वचम् ॥
श्वेतं रक्तं तथा कुष्ठं नानावर्णं विपादिकभ् ।श्वित्रं बहुविधञ्चैव वातशोणितमेव च ॥
कपालं क्रिमिजं कुष्ठं कण्डूदद्रुविचर्च्चिकाम् ।पामादिस्फोटकादीनि क्रिमिवृद्धिं तथैव च ॥
कटीदद्रुं मसूरीञ्च किटिमं रक्तमण्डलम् ।कुष्ठमौडुम्बरं पद्मं महापद्मं तथैव च ॥
गलगण्डार्व्वुदं हन्याद्गण्डमालां भगन्दरम् ।वातजं पित्तजञ्चैव श्लेष्मजं सान्निपातिकम् ॥
एकोल्वणं द्व्युल्वणञ्च कुष्ठं हन्यान्न संशयः” ॥
इति कन्दर्पसारतैलम् ॥
६७ ॥
* ॥
“भल्लातकानां पवनोद्धतानांवृन्तव्युदानाञ्च यदाढकं स्यात् ।तच्चेष्टकाचूर्णकणैर्विघृष्यप्रक्षालयित्वा विसृजेत् प्रवाते ॥
शुष्कं पुनस्तद्विदलीकृतञ्चततः पचेदप्सु चतुर्गुणासु ।तत्पादशेषं परिपूतशीतम्क्षीरेण तुल्येन पुनः पचेत्तु ॥
तदर्द्धया शर्करया विकीर्णंततः खजेनोन्मथितं विधाय ।तत् सप्तरात्रादुपजातवीर्य्यंसुधारसादप्यधिकत्वमेति ॥
प्रातर्विबुद्धः कृतदेवकार्य्योमात्राञ्च खादेत् स्वशरीरयोग्याम् ।न चान्नपाने परिहार्य्यमस्तिन चातपे चाध्वनि मैथुने च ॥
यथेष्टचेष्टो विहितोपयोगा-द्भवेन्नरः काञ्चनराशिगौरः ।अनन्यमेधा नरसिंहतेजाहृष्टेन्द्रियोऽव्याहतबुद्धिसत्त्वः ॥
दन्ताश्च शीर्णाः पुनरुद्भवन्तिकेशाश्च शुक्लाः पुनरेव दिव्याः ।नीलाञ्जनालिप्रतिमा भवन्तित्वचो विवर्णाः पुनरेव दिव्याः ॥
विशीर्णकर्णाङ्गुलिनासिकोऽपिक्रिम्यर्द्दितो भिन्नगलोऽपि कुष्ठी ।सोऽपि क्रमादङ्कुरिताग्रशाख-स्तरुर्यथा भाति नभोऽम्बुसिक्तः ॥
उष्ट्रान् मयूरान् जयति स्वरेणबलेन नागस्तुरगो जवेन ।रसायनस्यास्य नरः प्रसादा-द्वृहस्पतेरप्यधिकोऽपि बुद्ध्या ॥
ग्रन्थान् विशालान् पुनरुक्तिदोषान्गृह्णाति शीघ्रं न च नश्यते तु ।कुर्व्वन्निमं कल्पमनल्पबुद्धि-र्जीवेन्नरो वर्षशतानि पञ्च ॥
राजा ह्ययं सर्व्वरसायनानांचकार योगं भगवानगस्त्यः” ॥
इति अमृतभल्लातकम् ॥
६८ ॥
“निम्बं गोपारुणा कठ्वी त्रायन्ती त्रिफला घनम् ।पप्पटारण्डजानन्तावचाखदिरचन्दनम्” ॥
अरण्डजं हाकुचवीजम् ।“पाठा शुण्ठी शटी भार्गी वासा भूनिम्बवत्सकम् ।श्यामेन्द्रवारुणी मूर्व्वा विडङ्गेन्द्रविषानलम् ॥
हस्तिकर्णामृता द्रेका पटोलं रजनीद्वयम् ।कर्णारग्वधसप्ताह्वकृष्णवेत्रोच्चटाफलम्” ॥
द्रेका महानिम्बम् । कर्णारग्वधः शोणालिफलमज्जा ।“भूकन्दं तृणपर्णञ्च जिङ्गी पद्माटमूषली ।विश्वक्सेना च कैटर्य्यं शरपुङ्खा क्षीरकञ्चुकी ॥
एषां द्विपलिकान् भागान् जलद्रोणे विपाचयेत् ।अष्टमागावशेषन्तु कषायमवतारयेत् ॥
भल्लातकसहस्राणि त्रीणि छित्वार्म्मणेऽम्भसि ।चतुर्भागावशेषन्तु कषायमवतारयेत् ॥
तौ कषायौ समादाय वस्त्रपूतौ च कारयेत् ।गुडस्य तु तुला ताभ्यां कषायं विपचेत् भिषक् ॥
भल्लातकसहस्राणां मज्जानं तत्र दापयेत् ।त्रिकटुत्रिफलामुस्तसैन्धवानां पलं पलम् ॥
दीपकस्य पलञ्चैव चातुर्ज्जातं पलांशिकम् ।संचूर्ण्य प्रक्षिपेदत्र कन्दकञ्च चतुःपलम् ॥
स्निग्धभाण्डे विनिक्षिप्य स्थापयेत् कुशलो भिषक् ।महाभल्लातको ह्येष महादेवेन निर्म्मितः ॥
जगतस्तु हितार्थाय जयेच्छीघ्रं न संशयः ।श्वित्रमौडम्बरं दद्रुमृष्यजिह्वं सकाकणम् ॥
पुण्डरीकञ्च चर्म्माख्यं विष्फोटं मण्डलं तथा ।कण्डं कपालं कण्डूञ्च पामानं सविपादिकम् ॥
वातरक्तमुदावर्त्तं पाण्डुरोगं ब्रणक्रिमीन् ।अर्शांसि षट्प्रकाराणि कासं श्वासं भगन्दरम् ॥
सदाभ्यासेन पलितमामवातं सुदुस्तरम् ।अनुपाने प्रयोक्तव्यं छिन्नाक्वाथं पयोऽथवा ।भोजने च सदा भोज्यमुष्णञ्चान्नं विशेषतः” ॥
इति महाभल्लातकगुडः ॥
६९ ॥
“हुताशमुखसंशुद्धं पलमेकं रसस्य वै ।पलं लौहस्य ताम्रस्य पलं भल्लातकस्य च ॥
गन्धकञ्च पलञ्चैकमभ्रकस्य च गुग्गुलोः ।हरीतकीविभीतक्योश्चूर्णं कर्षद्वयं द्वयोः ॥
अष्टमाषाधिकं तत्र धात्र्याः पाणितलानि षट् ।घृतं द्व्यष्टगुणं लोहात् द्वात्रिंशत्त्रिफलाजलम् ॥
एकं कृत्वा पचेत् पात्रे लौहे च विधिपूर्व्वकम् ।पाकमेतस्य जानीयात् कुशलो लोहपाकवित् ॥
विबुद्धः प्रातरुत्थाय गुरुदेवद्विजार्च्चकः ।रक्तिकादिक्रमेणैव घृतभ्रामरमर्द्दितम् ॥
लौहे लौहस्य दण्डेन कुर्य्यादेतद्रशायनम् ।अनुपानञ्च कुर्व्वीत नारिकेलोदकं पयः ॥
सर्व्वकुष्ठहरं श्रेष्ठं वलीपलितनाशनम् ।पाण्डुमेहामवातघ्नं वातरक्तरुजापहम् ॥
क्रिमिशोथाश्मरीशूलदुर्नामवातरोगनुत् ।क्षयं हन्ति महाश्वासमत्यर्थं शुक्रवर्द्धनम् ।अग्निसन्दीपनं हृद्यं कान्त्यायुर्बलवृद्धिकृत् ॥
विवर्ज्य्य शाकाम्लमपि स्त्रियञ्चसेव्यो रसो जाङ्गलजाविकानाम् ।शाल्योदनं षष्ठिकमाज्यमुद्ग-क्षौद्रं गुडः क्षीरमिह क्रियायाम् ॥
शालिञ्च गुर्व्वादिवृहत्करञ्ज-शिलाजतुक्षौद्रयुतं पयश्च ।सर्पिर्युतं भक्षयतो विहङ्गान्प्रपूर्य्यते दुर्ब्बलदेहधातुः ॥
कृष्णस्य पक्षस्य सिते तु पक्षेत्रिपञ्चरात्रेण यथा शशाङ्कः” ॥
पाकलक्षणं यथा, --“वस्त्रे निष्पीडितं सूक्ष्मे स्थूलतन्तौ घने दृढे ।समुद्रं जायते व्यक्तं न निःसरति सन्धिभिः ।न च शब्दायते बह्नौ तदा सिद्धिं विनिर्द्दिशेत्” ॥
इति अमृताङ्कुरलौहम् ॥
७० ॥
“गन्धकेन हतं ताम्रं दशभागं समुद्धरेत् ।उषणं पञ्चभागं स्यादमृतञ्च द्विभागिकम् ॥
दातव्यं कुष्ठिने सम्यगनुपानस्य योगतः ।गलिते स्फुटिते चैव विपुले मण्डले तथा ॥
विचर्च्चिकादद्रुपामासर्व्वकुष्ठप्रशान्तये” ॥
इति उदयभास्करः ॥
७१ ॥
“तालकं वंशपत्राख्यं कुष्माण्डसलिले क्षिपेत् ।सप्तधा वा त्रिधा वापि दध्नाम्लेन तथैव च ॥
शोधयित्वा पुनः शुष्कं चूर्णयेत् तण्डुलाकृतिः ।ततः शरावके यन्त्रे स्थापयेत् कुशलो भिषक् ॥
वदरीपल्लवोत्थेन लेपनं कारयेत् ततः ।अरुणाभमधःपात्रं तावज्ज्वाला प्रदीयते ॥
स्वाङ्गशीतं समुद्धृत्य माणिक्याभो भवेद्रसः ।घृतक्षौद्रेण संमर्द्य खादयेद्रक्तिकाद्वयम् ॥
संपूज्य देवदेवेशं कुष्ठरोगाद्विमुच्यते ।स्फुटितं गलितं कुष्ठं वातरक्तं भगन्दरम् ॥
नाडीव्रणं व्रणं दुष्टमुपदंशं विचर्च्चिकाम् । [णान् ।नासास्यसम्भवान् रोगान् क्षतान् हन्यात् सुदारु-पुण्डरीकञ्च चर्स्माख्यं विस्फोटं मण्डलं तथा” ॥
इति रसमाणिक्यम् ॥
७२ ॥
“कुष्माण्डत्रिफलातैलकन्याकाञ्जिकभावितम् ।तालकं तुल्यगन्धं स्यादर्द्धपारदमर्दितम् ॥
अजाक्षीरेण निम्बूककन्यातोयैर्दिनत्रयम् ।प्रत्येकं भावयेत् शुष्कं चक्रिकाकारतां गतम् ॥
विपचेत् हण्डिकामध्ये पलाशक्षारमध्यगम् ।यामान् द्वादश शीतेऽस्मिन् प्रयोज्यं रक्तिकाद्वयम् ॥
हन्त्यष्ठादशकुष्ठानि रोमविध्वंसनं तथा ।द्विविधं वातरक्तञ्च नाडीदुष्टव्रणानि च” ॥
इति तालकेश्वरः ॥
७३ ॥
“दद्रुघ्नवाणाङ्घ्रिरसं दत्त्वा तालं सुचूर्णितम्पुनः पुनश्च संमर्द्य शुष्कं कृत्वा पुटे दहेत्” ॥
वाणाङ्घ्रिरसं शरपुङ्खपत्ररसम् ॥
दृढस्थाल्यां घृतं क्षारं पालाशञ्चाप्युपर्य्यधः ।ततो ज्वाला प्रदातव्या दिनरात्रे मृतं भवेत् ॥
शुक्लवर्णो यदा च स्यादग्नौ दत्ते न धूमकम् ।तदा ज्ञातं मृतं तालं सर्व्वकुष्ठविनाशनम् ॥
गलत् कुष्ठं वातरक्तं ताम्रवर्णञ्च मण्डलम् ।शीतपित्तमहादद्रुछुच्छुन्दरविनाशनम् ।पथ्यं मसूरचणकं मुद्गसूपं यथेच्छया” ॥
इति तालकेश्वरः ॥
७४ ॥
अतिदृष्टफलोऽयम् ।“संमर्द्य तालकं शुष्कं वंशपत्राख्यमुच्चकैः ।कुष्माण्डनीरे सम्भाव्य त्रिदिनं शोधयेत् पुनः ॥
घृतकन्याद्रवैर्भूयो भावयेच्च दिनत्रयम् ।संमर्द्य काञ्जिकेनैव दध्राम्लेन विमर्द्दयेत् ॥
संमर्द्य चूर्णसलिले रसे पौनर्नवे पुनः ।त्रिदिनं मर्द्दयित्वा तु कारयेत् स्वटिकाकृतिम् ॥
स्थाल्यां दृढतरायान्तु पलाशक्षारसञ्चयम् ।उपर्य्यधस्तालकस्य क्षारं दत्त्वा शरावकैः ॥
पिधाय लेपयेत् यत्नात् पूरयेत् क्षारसञ्चयम् ।पुनरूर्द्ध्वं शरावेण लेपयेत्तत् दृढं ततः ॥
द्वात्रिंशद्यामपर्य्यन्तं वह्निज्वाला प्रदीयते ।एवं सिद्धेन तालेन गन्धतुल्ये न मेलयेत् ॥
द्वयोस्तुल्यं जीर्णताम्रं वालुकायन्त्रगं पचेत् ।अयं तालेश्वरो नाम रसः परमदुर्लभः ॥
हन्त्यष्टादश कुष्ठानि वातशोणितनाशनः ।रक्तमण्डलमत्युग्रं स्फुटितं गलितं तथा ॥
बहुरूपं सर्व्वजातं नाशयेदविकल्पतः ।दुष्टव्रणञ्च वीसर्पं त्वग्दोषञ्च विनाशयेत् ॥
दृष्टो वारसहस्रञ्च रोगवारणकेशरी” ॥
इति महातालकेश्वरः ॥
७५ ॥
“कुष्माण्डत्रिफलातैलकन्याकाञ्जिकभावितम्तालुकं तुल्यगन्धं स्यादर्द्धपारदमर्दितम् ॥
अजाक्षीरेण निम्बूककन्यातोयैर्दिनत्रयम् ।प्रत्येकं भावयेच्छुष्कं चक्रिकाकारतां गतम् ॥
विपचेत् हण्डिकामध्ये पलाशक्षारमध्यगम् ।यामान् द्वादशशीतेऽस्मिन् प्रयोज्यं रक्तिकाद्वयम् ।हन्त्यष्टादश कुष्ठानि रोमविध्वंसनादिकम्” ॥
इति तालकेश्वरः ॥
७६ ॥
इति गोविन्दविशारदकृतभैषज्यरत्नावल्यां कुष्ट-चिकित्सा समाप्ता ॥
वाचस्पत्यम्
Sanskritकुष्ठ पुंन० कुष्णाति रोगम् क्ष--क्थन् । (कुड) प्रसिद्धे वृक्षभेदे“कुष्ठमुष्णं कटु स्वादु शुक्रलं तिक्तकं लघु । हन्ति वातास्रवीसर्पकासकुष्ठमरुत्कफान्” भावप्र० । तद्भेदास्तत्रैवोक्ता-यथा “उक्तं पुष्करमूलं तु पौष्करं पुष्करं च तत् । पद्म-पत्रञ्च काश्मीरं कुष्ठभेदमिमं जगुः” । अयञ्च सुश्रुते ए-लादिकगणे एलातगरकुष्ठेत्यादिना, मुस्तकादिकगणे चमुस्ताहरिद्रेत्युपक्रमे विभीतककुष्ठेत्यादिना उक्तः । “रोग-भेदे तत्स्वरूपनिदानभेदादि भावप्र० दर्शितं यथा“विरोधीन्यन्नपानानि द्रवस्निग्धगुरूणि च । भजतामा-गताञ्छर्द्दिवेगांश्चान्यान् प्रतिघ्नताम् । व्यायाममग्निता-पञ्चाप्यतिभुक्त्वानिषेविणाम् । शीतोष्णलङ्घनाहारान् क्रमंभुक्त्वा निषेविणाम् । वर्म्म श्रममयार्त्तानां द्रुतं शीताम्बु-सेविनाम् । अजीर्णाध्याशिनां चापि पञ्च कर्म्मापचारि-णाम् । नवान्नदधिमत्स्यादिलवणाम्लनिवेविणाम् ।माषमूलकपिष्टान्नतिलक्षीरगुडाशिनाम् । व्यवायं चाप्य-जीर्णेऽत्ने दिवा निद्रानिषेविणाम् । विप्रान् गुरून् धर्ष-यतां पापं कर्म्म च कुर्वताम् । वातादयस्त्रयो दोषास्त्व-ग्रक्नं मांसमम्बुच । दूषयन्ति स कुष्ठानां सप्तको द्रव्य-संग्रहः । अतः कुष्ठानि जायन्ते सप्तधैकादशैवच” । विरोधीन्यन्नपानानि क्षीरमत्स्यादीनि व्याया-ममित्यादि । अतिभुक्त्वा व्यायामम्, अग्निसन्तापम्अग्निरुपलक्षणं सूर्य्यादिसन्तापञ्च निषेविणामिति ।कृदत्तस्य योगे षष्ठी प्राप्ता द्वितीया तु मुनिवचगात् ।एवभग्रेऽपि “शीतोष्णं लङ्घानाहारानित्यादिष्वपि द्वि-तीया । क्रमं--विधिं, वर्मेत्यादि । घर्म्मार्त्तत्वेसति द्रुतमविश्रम्य पाने स्नाने शीताम्बु मेविनाम् ।अजीर्णाध्याशिनां भुक्तेऽजीर्णे भुक्तवताम् । पञ्च-कर्म्मापचारिणां पञ्चकर्म्माणि वमनविरेकशल्यनिरु-हानुवासनानि तेषु कृतेषु अपचारिणाम् । नवान्नदधि-मत्स्यादि आहारादि सेविनाम् । व्यवायमित्यादि । अन्नेअजीर्ण विदग्धादिरूपे सति । व्यवायंमैथुनं निषेविणाम् ।दिपानिद्रानिषेविण्णामिति भिन्नो हेतुः । घर्षयर्ताम् अ-भिभवताम् । दोषदुष्यसंग्रहार्थमाह । वातादय इयादि-शन्देन त्रिष्वपि प्रतीतेषु त्रय इति पदं सर्वेषु कुष्ठेषुत्रयाणामपि वातादोनां दुष्टत्वबोधनार्थम् । त्वक्, रस, अम्बु, लसीका । अथ संख्यामाह । अतः कुष्ठानामित्या-दि । अतः पूर्व्वोक्तदोषदूष्यसमुदायात् । सप्तधैकादश-धेति संख्याविच्छेदपाठेन सप्तानां महाकुष्ठत्वमेकादशानांक्षुद्रकुष्ठत्वं बोधयति । तत्र महाकुष्ठान्याह “पूर्वं त्रिकंतथा सिध्मं ततः काकणकं तथा । पुण्डरीकर्क्षजिह्वाकेमहाकुष्ठानि सप्त च” । पूर्वत्रिकं कपालौदुम्बरमण्डला-ख्यम् । सिध्मशब्दोऽकारान्तो नपुंसकः । ननु कथंसिध्मस्य महाकुष्ठेषु गुणना सुश्रुतेन क्षुद्रकुष्ठेषु उक्तत्वात्घातुप्रविष्टं सिध्मं तु स्यान्महाकुष्ठनेव च । एवं विधखसिध्मस्य चरकेण महाकुष्ठेषु दर्शितत्वात् । एषां महाकु-ष्ठत्वञ्च शीघ्रमुत्तरोत्तरधात्यवगाहनात् उल्वणदोषजन्यत्वात्चिकित्सावाहुल्याच्च । अथ क्षुद्रकुष्ठान्वाह “एककुष्ठंस्मृतं पूर्बंगजचर्म ततः स्मृतम् । ततश्चर्मदलं प्रोक्तं तत-श्चापि विचर्चिका । विपादिकाभिधा सैव पामाकच्छूस्ततःपरम् । दद्रूविस्फोटकिटिभालसकानि च वेष्टितम् । क्षूद्र-कुष्ठानि चैतानि कथितानि भिषग्वरैः” । नमु दद्रूः कथंक्षुद्रकुष्ठेषु गणिता? सुश्रुतेन महाकुष्ठेषूक्तत्वात् । उच्यतेअसितावगाढमूला दद्रूः सुश्रुतेन महाकुष्ठेषु उक्ता । असि-नेतराऽनवगाढमूला ददूः क्षुद्रकुष्ठमेव । एवं विधायादद्रवाश्चरकेण क्षुद्रकुष्ठेषु दर्शितत्वात् । कुष्ठानां त्रिदो-षजत्वेनैकत्वेऽपि दोषस्योल्वणतया सप्तधात्वमाह ।“कुष्ठानि सप्तधा दोषैः पृथग्द्वन्द्वैः समागतैः ।सर्वेषु च त्रिदोषेषु व्यपदेशोऽधिकस्ततः” । सर्वेष्वपित्रिदोषेषु व्यपदेशः कषालादिसंज्ञास्वेषामष्टाद-शरूपं यदधिकत्वं ततः कुष्ठानि सप्तधा, दोषैः कथं-भूतैः पृथग्द्वन्द्वैः समागतैःसङ्गतैः संमिलितैरिति या-वत् । अस्यायमर्थः । किमपि कुष्ठं वातोल्वणं, किमपिपित्तोल्वणं, किमपि कफोल्वणं, किमपि वातश्चेष्मोल्वणं, किमपि पित्तश्लेष्मोल्वणम्, किमपि वातपित्तोल्वलं, किमपित्रेदोषोल्वणमिति । पूर्बरूपमाह “अतिश्लक्ष्णः स्वरस्पर्शःस्वेदास्वेदविवर्णता । दाहः कण्डूस्त्वचिस्वापस्तोदःकोठोन्नतिः क्लमः । व्रणानामधिकं शूलं शीव्रोत्पत्तिश्चि-रस्थितिः । रूढानामतिरूक्षत्वं निमित्तेऽल्पेऽपि कोप-नम् । रोमहर्षोऽसृजः कार्स्न्यं कुष्ठलक्षणमग्रजम्” ।अतिश्लक्ष्णः अतिमृदुः । अथवा घर्मादिप्रसङ्रेऽपि स्वेदा-भावः । त्वचिस्वापः स्पर्शाज्ञता । शीघ्रोत्पत्तिः व्रणा-नाम् । “दूषयन्ति श्लथीकृत्य निश्चलत्वादितस्ततः । त्वचःकुर्वन्ति वैवर्ण्यं दोषाः कुष्ठमुशन्ति तम्” । येनोल्वणेनयत्कुष्ठमुत्पद्यते तदाह । “वातेन कुष्ठं कापालं पित्ते-नौदुम्बरं कफात् । मण्डलाख्यं विचर्ची च ऋक्षाख्यंवातपित्ततः । चर्मैककुष्ठकिटिभं सिध्मालसविपादिकाः ।वातश्लेष्मोद्भवाः पित्तकफाद्दद्रूशतारुषी । सपुण्डरीकवि-स्फोदपामाचर्मदलं तथा । सर्वैरेवोल्वणैर्दोषैराहुः काक-णकं बुधाः” । विचर्ची च कफादित्यन्वयः । पुण्डरीकंसविस्फोटं पामा चर्मदलं तथा पित्तकफादित्यन्वयः ।अथ महाकुष्ठानां मध्ये कपालस्य लक्षणमाह । “कृष्णा-रुणं कपालाभं यद्रूक्षं परुषं तनु । कपालं तोदब-हुलं तत् कुष्ठं विषमं स्मृतम्” । किञ्चित्कृष्णाः किञ्चि-दरुणाः ये कपालाः स्फुटितमृत्पात्रखण्डाः ‘खपरा’ इतियावत् तद्वर्णं, परुषं खरस्पर्शम् । तनु तनुत्वक् कपा-लम् कपालसंज्ञं, विषमं दुश्चिकित्स्यम् । औदुम्बरमाह“उदुम्बरफलाभासं कुषमौदुम्बरं वदेत् । रुग्दाहराग-कण्डूभिः परीतं रोमपिञ्जरम्” । औदुम्बरफलाकारम् ।मण्डलमाह “श्वेतरक्तं स्थिरं स्त्यानं स्निग्धमुत्सन्नम-ण्डलम् । कृच्छ्रमन्योन्यसंसक्तं कष्ठं मण्डलमुच्यते ।श्वेतरक्तं किञ्चिच्छेतं किञ्चिद्रक्तम् । स्थिरं चिकित्सांविना अविनाशि, स्न्यानम् आर्द्रं स्निग्धं सस्वेदम् ।उत्सन्नमण्डलम् उद्गतमण्डलम् । कृच्छ्रं कष्टसाध्यम् ।अन्योन्यसंसक्तं परस्परमिलितम् । अथ सिध्ममाह“श्वेतताम्नञ्च तनु यत् रजोघृष्टं विमुञ्चति । प्रायेणोरसितत् सिध्ममलाबूकसुमोपमम्” । श्वेतताम्रं श्वेतं ताम्रम् ।तनु तनुत्वक् । प्रायेणोरसि प्रायशब्दादन्यत्रापि बोद्ध्यव्यम्काकणमाह “यत्काकणन्तिकावर्णमपाकं तीव्रवेदनम् ।त्रिदोषलिङ्गं तत् कुष्ठं काकणं नैव सिव्यति । काकणन्तिका गुञ्जा । गुञ्जावर्ण्णत्वेन मध्ये कृष्णमन्तेरक्तम् ।अथवा मध्येरक्तं मध्यान्ते कृष्णम् । अपाकं स्वभावात् ।त्रिदोषलिङ्गम्--सर्व्वेषां कुष्ठानां त्रिदोषजत्वेऽपि उल्व-णदोषत्रयलिङ्गम् । पुण्डरीकमाह “तत् श्वेतं रक्तपर्य्यन्तंपुण्डरीकदलोपमम् । सरागञ्चैव सोत्सेधं पुण्डरीकंकफोल्वणम्” पुण्डरीकदलोपमं पुण्डरीकं श्वेतकमलंतत्पत्रोपमम् सरागञ्चैव । अत एव श्वेतं, रक्तपर्य्यन्तंअन्तेरक्तम् । सरागमिति अन्ते लोहित्याधिक्यबोधनार्थम् । सोत्सेधम् उद्गतम् । ऋक्षजिह्वकमाह“कर्कशं रक्तपर्य्यन्तमन्तःश्यावं सवेदनम् । यदृक्षजिह्वा-संस्थानमृक्षजिह्वं तदुच्यते” । रक्तपर्य्यन्तं अन्तेरक्तम्अन्तःश्यावं मध्येधूववर्णम् । ऋक्षजिह्वासंस्थानम्ऋक्षो भल्लूकस्तस्य जिह्वाकृति । अथ क्षुद्रकुष्ठानां मध्येएककुष्ठगजचर्म्मणोर्लक्षणमाह “अस्वेदनं महावासंयन्मत्स्यशकलोपमम् । तदेककुष्ठं चर्म्माख्यं बहुलङ्ग-जचर्म्मवत्” । महावासं महास्थानम् । मत्स्यशक-लोपमम् अत्र शकलशब्देन लक्षणया त्वगुच्यते ।तेन चक्राकारमभ्रकपत्रसदृशं भवति । एककुष्ठमितिक्षुद्रकुष्ठेषु मुख्यत्वात् । चर्म्माख्यं गजचर्म्माख्वम् बहुलंस्थूलम् गजचर्म्मवत् रूक्षं कृष्णं च । अथ चर्म्मदल-माह “रक्तं सशूलं कण्डूमत् सस्फोटं दलयत्यपि । त-च्चर्म्मदलमाख्यातं स्पर्शस्यासहनञ्च यत्” । दलयत्यपिविदारयत्यपि चर्मेति शेषः । विचर्च्चिकामाह “सकण्डूःपिडका श्यावा बहुस्तावा विचर्च्चिका” । पिडका क्षुद्रपि-डका । ननु क्षुद्रकुष्ठानां कथमेकादशत्नं विपादिकाया-द्वादशत्वसम्भवात् उच्यते । विचर्च्चिकैव पादयोर्भवन्तीविपादिका तेन संख्यानबिरेकः । अतएव भोजः “दाल्यतेत्वक् वरा रूक्षपाण्योर्ज्ञेया विचर्च्चिका । पादे विपादिकाक्षेया स्थामनेदाद्विचर्ञ्चिका” । दाल्यते विदार्य्यते ।केचिद्विचर्च्चिकातो विपादिकां भिन्नामाहुः । विपादिका-माह “वैपादिकं पाणिपादस्फुटनं तीव्रवेदनम्” । पाणि-पादस्फुटनं पाण्योः पादयोश्च स्फुटनं विदारणं येन तत् ।पामामाह “सूक्ष्मा बाह्याः स्रावयन्त्यः प्रदाहाः पामे-त्युक्ताः पिडकाः कण्डुमत्यः” । पिडकाः पीडयन्तीतिपिडका इति क्षिवकादित्वात् निपात्यतेः कच्छुमाह“सैत्र स्फोटैजीवदाहैरुपेता ज्ञेया पाण्योः कच्छुरुग्रा-स्फिचोश्च” । सैव पामा स्फोटैः महद्भिः, स्फिचौ--प्रोथौ ।ददूमाह “सकण्डुरागपिडकं दद्रूमण्डलमुद्गतम्” । ददू-मण्डलरूपेणोत्पत्तिमत्, उद्गतम् उच्छ्रूनम् । विस्फोटमाह“स्फोटाः श्यावारुणाभासा विस्फोटाः स्युस्तनुत्वचः” ।किटिभमाह “श्यामं किणस्परस्पर्शपरुषं किटिभंस्मृतम् ।किणखरस्पर्शम् किणः शुष्कव्रणस्थानं तद्वत्कर्क्कशस्पर्शम् । परुषं रूक्षम् । अलसकमाह “कण्डू-मद्भिः सरागैश्च गण्डैरलसकं चितम्” गण्डैः महापि-डकाभिः चितं वेष्टितम् । शतारुराह “रक्तश्यावं स-दाहार्त्ति शतारुः स्यात् बहुव्रणम्” । अथ सप्तधातुगतानांकुष्टानां लक्षणान्याह तत्र रसगतस्य लक्षणमाह“त्वक्स्थे वैवर्ण्यमङ्गेषु कुष्ठे रौक्ष्यञ्च जायते । त्वक्स्वापोरोमहर्षश्च स्वेदस्यातिप्रवर्त्तनम्” । त्वक्शब्देनात्र रसउच्यते धातुप्रस्तावात् । त्वक्स्थत्वाच्च त्वक्स्वापः स्प-र्शाज्ञत्वम् । त्वक्स्वाष इत्यादिकं केचिद्रक्तगतस्य लिङ्गंमन्यन्ते । रुधिरगतमाह “कण्डूर्बिपूयकश्चैव कुष्ठे शो-णितसम्भवे” । विपूयकः विशेषेण पूयः । अथ मांस-गतमाह “बाहुल्यं वक्रशोषश्च कार्कश्यं पिडकोद्गमः ।तोदः स्फोटः स्थिरत्वञ्च कुष्ठे मांससमाश्रिते” । बाहुल्यंकुष्ठस्य पुष्टिः । पिडकोद्गमः क्षुद्रपिडकोद्गमः स्फोटःवृहत्पिडका । स्थिरत्वम् असञ्चारित्वम् । मेदोगत-माह “कौण्यङ्गतिक्षयोऽङ्गानां सम्भेदः क्षतसर्पणम् ।क्षतप्रसारो लिङ्गानि पूर्वमुक्तानि यानि च । मेदःस्थानगते लिङ्गं प्रागुक्तानि तथैव च” । कौण्यं हस्तनाशः ।अङ्गानां सम्भेदः अङ्गभङ्गः, क्षतसर्पणं क्षतप्रसरणं, पू-र्वोक्तानि रक्तमांसगतलिङ्गानि । अस्थिमज्जागतमाह“नासाभङ्गोऽक्षिरागश्च क्षतेषु क्रिमिसम्भवः । स्वरोप-घातः पीडा च भवेत् कुष्ठेऽस्थिमज्जगे” । शुक्रगतमाह“दम्पत्योः कुष्ठबाहुल्याद् दुष्टशोणितशुक्रयोः । यदपत्यंतयोर्जातं ज्ञेयं तदपि कुष्ठितम्” । ननु शुद्धशोणित-शुक्रयोरेव दम्पत्योर्गर्भसम्भवः दुष्टशोणितशुक्रयोःकथम् अपत्योत्पत्तिः? यत आह शुश्रुतः “का-मान्मिथुनसंयोगे शुद्धशोणितशुक्रजः । गर्मः सञ्जायतेनार्य्याः स जातो बाल उच्यते” अथान्यच्च “वातादि-दुष्टरेतसोऽपत्योत्पादनेऽसमर्थाः” इति । उच्यते । गर्भो-ऽत्र शुद्धो बोद्धव्यः । अशुद्धगर्भोऽपि दुष्टशोणितशुक्र-योरपि भवति गतकर्णान्धबधिरादीनां सम्भवात् ।शोणितमार्त्तवम् । कुष्ठितं कुष्ठं सञ्जातमस्येति तार-कादित्वादितच् । शुक्रार्त्तवगतं कुष्ठमपत्येन व्यज्यतेइति तात्पर्य्यम् । कुष्ठेषु उल्वणवातादिदोषलिङ्गमाह“स्वरं श्यावारुणंरूक्षं वातात् कुष्ठं सवेदनम् । पित्तात्प्रकुपितं दाहरागस्रावान्वितं मतम् । कफात् क्लेदं घनंस्रिग्धं सकण्डूशैत्यगौरवम् । द्विलिङ्गं द्वन्द्वजं कुष्ठं त्रि-लिङ्गं सान्निपातिकम्” । स्वरं कर्कशम् । श्यावारुणंश्यावं वा अरुणं वा । प्रकुपितं पूतिक्लेदबहुलम् ।क्लेदम् आर्द्रतायुक्तम् घनं पुष्टम् । साध्यत्वादिकमाह“साध्यं त्वग्रक्तमांसस्थं वातश्लेष्माधिकञ्च यत् । मेदोगंद्वन्द्वजं जाप्यं वर्ज्यं मज्जास्विसंश्रितम् । क्रिमिक्वद्दाहमन्दा-ग्निसंयुक्तं यत् त्रिदोषजम्” । वातश्लेष्माधिकञ्च यत्एतेन सिध्मैककुष्ठगजचर्म्मविपादिकाकिटिभालसकानिसाध्यानि । मज्जागतं शुक्रगतमप्यसाध्यस् । कृमि-र्बाह्योऽपि वर्ज्य इत्यन्वयः । अथारिष्टमाह “प्रभिन्नंप्रस्रुताङ्गञ्च रक्तनेत्रं हतस्वरम् । पञ्चकर्म्मगुणातीतंकुष्ठं हन्तीह कुष्ठिनम्” । प्रभिन्नं विदीर्णम् । हतस्वरंघर्घरस्वरम् । पञ्चकर्म्मगुणातीतम् असञ्जातवमनादिपञ्च-कर्म्मगुणम् । अथ त्वग्दुष्टिसाम्यात् कुष्ठमेदत्वाच्चात्रैव श्वि-त्रमाह “कुष्ठैकसम्भवं श्वित्रं किलासं चारुणं भवेत् ।निर्द्दिष्टमपरिस्रावि त्रिधातूद्भवसंश्रयम्” । कुष्ठैकसम्भवंकुष्ठेन सहैकः समानः सम्भवो निदानं यस्व तत् । अथश्वित्रस्य भेदमाह किलासञ्चारुणं भवेत् । श्वित्रमेव रक्तमां-साश्रयात्किलासमरुणञ्च भवेदित्यर्थः । ननु कुष्ठस्य श्वित्र-स्य च को भेद इत्यत आह निर्द्दिष्टमपरिस्वावीति श्वित्रम-परिस्रावि भवति कुष्ठन्तु स्रावि अथ च त्रिधातूद्भवसं-श्रयमिति । त्रयोधातवो वातपित्तकफास्तेभ्यःपृथग्भू-तेभ्य उद्भवो यस्य तत् श्वित्रम् । अथ वा त्रयोधातवो र-क्तमांसमेदांसि संश्रयोऽधिष्ठानं यस्य तत् । कुष्ठन्तु सा-न्निपातिकं सर्वधातुगतं भवतीति भेदः । दोषभेदेन लक्ष-णभेदानाह “वाताद्रूक्षारुणं, पित्तात् तानं कमलपत्र-वत् । सदाहं रोमविध्वंसि, कफात् श्वेतं घनं गुरु ।सकण्डूकं क्रमाद्रक्तमांसमेदःसु चादिशेत् । वर्णेनैवेदृगुभयंकुष्ठं तच्चोत्तरोत्तरम्” । अरुणमीषल्लोहितम् । कमल-पत्रवदित्यनेन भध्ये श्वेतमन्तेलोहितं बोधयति । घनंपुसम् । क्रमाद्रक्तमांसमेदःसु चादिशेत् । तथा च चरकः“अरुणं रक्तमेवान्ते ताम्रं पित्ते पलङ्गते । श्वेतं श्लेष्मणिमेदःस्थे श्वित्रं कुष्ठं परापरमिति” उभयं द्विविधमपिश्वित्रं वर्णेन ईट्टगेव । अरुणं ताम्रं श्वेतञ्च दोषभेदात् ।द्विविधं दोषजं व्रणजं च । तथा च भोजः “श्वित्रं तु द्वि-विधं विद्याद्दोषजं व्रणजं तथेति” । श्वित्रं साध्यमसाध्य-ञ्चाह “अशुक्लरोमबहुलमसृग्युक्तमथो नवम् । अनग्नि-दग्धजं साध्यं श्वित्रं वर्ज्यमतोऽन्यथा” । अबहुलंतनु । अन्यच्च “गुह्यपाणितलौष्ठेषु जातमप्यचिरन्त-नम् । वर्ज्जनीयं विशेषेण किलासं सिद्धिमिच्छता” ।गुह्यं मेहनम् भगञ्च तलमत्र पदतलं, तत्र जातं सुश्रुते-नान्तेजातमिति सामान्यतो निर्द्दिष्टत्वात् । अप्यचिरन्त-नम् नवमपि । कुष्ठस्य संसर्गजत्वप्रसङ्गेनान्यानपि संसर्ग-जान् रोगानाह “प्रसङ्गाद्गात्रसंस्पर्शान्निःश्वासात् सहभोजनात्” । प्रसङ्गोमैथुनम् । “एकशय्याशनाच्चापि वस्त्र-माल्यानुलेपनात् । कण्डूकुष्ठोपदंशश्च भूतोन्मादव्रणज्वराः ।औपसर्गिकरोगाश्च संक्रामन्ति नरान्नरम् । म्रियते यदिकुष्ठेन पुनर्जातस्य तद्भवेत् । अतो निन्दितरोगोऽयं कुष्ठंकष्टं प्रकीर्त्तितम्” । एतावता कुष्ठिनां कुष्ठ सर्वथा प्रती-करणीयं न तु उपेक्षणीयम्” ।ऐतेषां मध्ये केषाञ्चित् महापातकचिह्नत्वं केषाञ्चि-दतिपातकचिह्नत्वं केषांचिच्चोपपातकचिह्नत्वं स्पृत्यादौप्रसिद्धम् । अष्टादशानां मध्ये अष्टानामेव पापरोगतयास्मृतौ तद्युक्तस्यादाह्यत्वादिकमुक्तं तच्च शु० त० निर्ण्णार्तं यथाभविष्यपुराणीयमध्यतन्त्रस्य षष्ठाध्याये “शृणु कुष्ठगणंविप्र! उत्तरोत्तरतोगुरुम् । विचर्च्चिका तु दुश्चर्म्मा चर्च्च-रीयस्त तीयकः । विकर्च्चुर्व्रणताम्रौ च कृष्णश्वेते तथाष्ट-कम् । एषां मध्ये तु यः कुष्ठी गर्हितः सर्वकर्म्मसु । व्रण-वत् सर्वगात्रेषु गण्डे भाले तथा नसि” । तथा “मृते चप्रोथथेत्तीर्थे अथ वा तरुमूलके । न पिण्डं नोदकं कुर्य्या-न्नच दाहक्रियाञ्चरेत् । षण्भासीयस्त्रिमासीयोमृतः कुष्ठीकदा चन । यदि स्नेहाच्चरेद्दाह यतिचान्द्रायणं चरेत्” ।यतिचान्द्रायाशक्तौ पादोनधेनुचतुष्टयं देयम् । अतिपा-तकशेषफलत्वादप्येवं युक्तं यथाह विष्णुः “अथ न-रकानुभूतदुःखानां तिर्य्यक्त्वमुत्तीर्णानां मानुष्ये लक्ष-णानि भवन्ति कुध्यतिपातकी, ब्रह्महा यक्ष्मा, सुरापःश्याबदन्तकः, सुवर्णहारी कुनखी, गुरुतल्पगोदुश्चर्म्मा, इत्यादि । श्यावदन्तकः स्वभावकृष्णदन्तकः प्रधानदन्तद्वय-मध्यवर्त्तिक्षुद्रदन्तः । प्रधानदन्तोपरि दन्तान्तरमितिकेचित् । कुनखी सङ्कुचितनखः, दुश्चर्मा स्वभावतः अ-नावृतमेद्रः, । अत एव महारोगिणोयावज्जीवमशौच-माह कूर्मपुराणम् “क्रिधाहीनख मूर्स्पस्य महारोगिणएव च । यथेष्टाचरणस्याहुर्मरणान्तमशौचकम्” । क्रि-याहीनस्य नित्यनैमित्तिकक्रियाननुष्ठायिनः । मूर्खस्यगायत्रीरहितस्य । सार्थगायत्रीरहितस्येति रुद्रधरः ।महारोगिणः पापरोगाष्टकान्यतमरोगवतः ते च उ-न्मादस्त्वगदोषो राजयक्ष्माश्वासोमधुमेहोभगन्दरः उद-रोऽश्मरी इत्यष्टौ पापरोगानारदोक्ताः । यथेष्टाचारणस्यद्यूतवेश्याद्यासक्तस्य । एवञ्च भविष्यपुराणोक्तं यति-चान्द्रायणप्रायश्चित्तमकृतप्रायश्चित्तानां कुष्ठ्यादीनां दाहेबोद्धव्यम् अन्यथैषां प्रायश्चित्तोपदेशोविफलःस्याद् । यथाहविष्णुः ‘कुनखी श्यावदन्तश्च द्वादशरात्रं कृच्छ्रं चरित्वो-द्धरेयातां तद्दन्तनखौ’ इति अत्र द्वादशरात्रं पराकरूपंतत्र पञ्च धेनवः नतु प्राजापत्यं तद्दाहकर्चुर्यतिचान्द्रा-यणेन विषमशिष्टत्वात् अत्र बहूनाषेकघर्माणामिति वच-नादाकाङ्क्षितत्वाच्च कुष्ठ्यादीनामपि प्रायश्चित्तम् । अतएवप्रायश्चित्तविवेकेऽप्युक्तमेवं दुश्चर्मादिष्वप्यूह्यमिति । महा-पातकादतिपातकस्य गुरुत्वात् तच्छेषेऽपि प्रायश्चित्तं द्विगु-णम् । कर्मविपाके शातातपः “महापातकजं चिह्नंसप्तजन्मसु जायते । बाधते व्याधिरूपेण तस्य कृच्छ्रा-दिभिः शमः । कुष्ठञ्च राजयक्ष्मा च प्रमेहोग्रहणीतथा” । अत्र कुष्ठपदमल्पकुष्ठपरमिति पूर्वेणाविरोधः” ।
Capeller
GermanBurnouf
Frenchकुष्ठ कुष्ठ (कु
स्था) sorte de poison.
Lèpre.
Costus speciosus, bot.
कुष्ठघ्न (हन्) plante antilépreuse nommée
हितावलि। -- कुष्ठघ्नी solanum indicum, et figuier à
feuilles opposées [employées contre la lèpre].
कुष्ठनाशन (नश्) moutarde blanche et esp. d'igname,
employés contre la lèpre.
कुष्ठनाशिनी (नश्) psoralea corylifolia, bot.
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
