| YouTube Channel

कुष (kuSa)

 
शब्दसागरः
English
कुष r. 9th cl. (कुष्णाति)
1. To expel, to force or draw out, to extract.
2.
To test, to assay.
3. To shine. With अव to prove, to display
with
निर to extract.
Wilson
English
कुष r. 9th cl. (कुष्णाति)
1 To expel, to force or draw out, to extract
2 To test, to assay.
3 To shine.
With अव, to prove, to display
with निर्, to extract.
Shabdartha Kaustubha
Kannada
कुष - निष्कर्षे (क्र्या० पर० सक० से०) कुष्णाति
पदविभागः - > धातुः
कन्नडार्थः - > ಇಷ್ಟೆಂದು ನಿಶ್ಚಯಿಸು
कुष - निष्कर्षे (क्र्या० पर० सक० से०) कुष्णाति
पदविभागः - > धातुः
कन्नडार्थः - > ಹೊರಕ್ಕೆ ತಳ್ಳು /ಹೊರಕ್ಕೆ ಹೊರಡಿಸು
प्रयोगाः - > "ततोऽकुष्णाद्दशग्रीवः क्रुद्धः प्राणान् वनौकसान्"
उल्लेखाः - > भट्टि० १७-८०
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
कुष्
मूलधातुः:
कुष
धात्वर्थः:
निष्कोषे (अन्तर्गतस्य बहिः निस्सारणम्)
गणः:
क्र्यादिः
कर्मकत्वं:
सकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
परस्मैपदी
रूपम्:
कुष्णाति
धातुप्रदीपः
Sanskrit
कुषँ कुष निष्कर्षे
- कुष्णाति चुकोष निष्कोषिता निष्कोष्टा निष्कोषिष्यति निष्कोक्ष्यति निरकोषीत् निरकुक्षत् निश्चुकोषिषति निश्चुकुक्षति निष्कुषितम् कुष्यति पादः स्वयमेव कुष्यते पादः स्वयमेव 49
शब्दकल्पद्रुमः
Sanskrit
कुष निष्कर्षे इति कविकल्पद्रुमः (क्र्यां --परं -- सकं -सेट् ।) कुष्णाति चुकोष निष्कर्षइयत्तापरिच्छेदः तूलैरवकुष्णातीति वोपदेवः
निष्कर्षोऽन्तःप्रकाशनमिति गोविन्दभट्टः
“ततो-ऽकुष्णाद्दशग्रीवः क्रुद्धः प्राणान् वनौकसाम्” इतिभट्टौ अनेकार्थत्वांन्निष्कोषणार्थः इति दुर्गादासः
वाचस्पत्यम्
Sanskrit
कुष निष्कर्षे क्र्यादि०
पर०
सक०
सेट् कुष्णाति अकोषीत् ।निरस्तु वेट् निरकोषीत् निरकुक्षत् चुकोष निष्कर्षश्चेहइयत्तापरिच्छेदः, मध्यस्थितस्य, वस्तुनो बहिर्निःसार-णञ्च “शिवाः कुष्णान्ति मांसानि” “ततोऽकुष्णात् दश-ग्रीवः क्रुद्धः प्राणान् वनौकसाम्” भट्टिः क्त्वा सेट्कित् “कुषित्वा जगतां सारम्” भट्टिः कर्म्मकर्त्तरिसार्व धातुके श्यन् वा प० कुष्यति ते वा पादः आ-र्द्धधातुके तु परैस्मपदम् श्यन्सन्नियोमशिष्टत्वात्कोषिषीष्ट पादः ।अनु + सादृश्येन बर्निस्मारणे तूलेनानुकुष्णातिअभि + आभिमुख्येन निःसारणे “न बालकर्ण्णनासास्रोतोदशनविवराण्यभिकुष्णोयात्” सुश्रुतःअव + अधोनिःसारणे तूलैरवकुष्णाति सि० कौ० ।निर् + निष्कासने निरकुक्षत् निरकोषीत् “निष्क्रोष्टा नि-ष्कोषिता “निष्कोषितव्यान्निष्कोष्टु प्राणान् दशमु-खात्मजात् आदाय परिधं तस्थौ बलान्निष्कुषित-द्रुमः” भट्टिः “कीटनिष्कुषितं धनुः” भट्टिः “उपान्तयोर्निष्कुषितं विहङ्गैः” रघुः आर्षे तु गणव्यत्ययोऽपिक्वचित् दृश्यते “यमपुरुषा अयस्मयैरग्नितप्तैः संदंशंस्त्वचिनिष्कुषन्ति” भाग० २६ १९
क्षीरतरङ्गिणी
Sanskrit
कुषँ कुष निष्कर्षे
-(अर्थविवरणम्) निष्कर्षो बहिष्करणम्
कुष्णाति कर्मकर्तरि कुषिरजोः प्राचां श्यन् परस्मैपदं (3190)-कुष्यति पादः स्वयमेव निरः कुषः (7246) इड् वा-निष्कोषिता निष्कोष्टा, निरकोषीत् निरकुक्षत् इण् निष्ठायाम् (7247)-निष्कुषितः मृडमृद (127) इति क्त्वा कित्-कुषित्वा हनिकुषि (उ0 22) इति क्थन्-कुष्ठम् उषिकुषि (उ0 24) इति थन्-कोष्ठम् उदरम् बाहुलकात् (331) प्रकोष्ठो विस्तृतकरः उचिकुसिकुषिभ्यः कितन् (दश0 उ0 621 कपाठः) कुषितम् प्लुषिशुषिकुषिभ्यः क्सिः (दश0 उ0111) कुक्षिः कुठिकुषिभ्यामं काकुः (दस0 उ0 1150 कपाठः) कुषाकुः 45
धातुवृत्तिः
Sanskrit
कुषँ कुष (अर्थः) निष्कर्षे
(अर्थविवरणम्) निष्कर्षो बहिर्निःसारणम्
(कुष्णतिकुष्णासि कुष्णामि कुष्णीवः) "ष्टुना ष्टुः'' इति ष्टुत्वं, "रषाभ्याम्'' इति णत्वम्, ( चुकोष चुकुषतुः चुकोषिथ चुकुषिव निष्कोषिता निष्कोष्टा निष्कोषिष्यति निष्कोक्ष्यति कुष्णातु कुषाण अकुष्णात् कुष्णीयात् ) आशिषि ( कुष्यात् निरकोषीत् निरकुक्षत् "निरः कुष'' इति वलाद्यार्धधातुके इङ्विकल्पः अनिष्पूर्वत्वे तु नित्यमिडेव, लुङ्यनिट्पक्षे "शलइगुपधात्'' इति क्सः ( निष्चुकोषिषति निषचुकुक्षति ) पूर्ववदिड्विकल्पः इटि "रलो व्युपधात्'' इति कित्त्वविकल्पः ( कुष्यति पादः स्वयमेव कुष्यते वा अकुष्यत् पादः स्वयमेव कुष्यतु कुष्यतां वा पादः स्वयमेव ) "कुषिरञ्जोः प्राचांश्यन् परस्मैपदं च'' इति श्यन् परस्मैपदे सार्वधातुके अन्यत्र कोषिष्यते पादः स्वयमेव अकोषि पादः स्वयमेवेत्यादि (निष्कुषितम् ) "इण् निष्ठायाम्'' इति नित्यमिट् ( कुष्ठः) "हनिकुषि'' इत्यादिना कथन् ( कुक्षिः ) "प्लुषिकुषिशुषिभ्यः क्सिः'' इति क्सिप्रत्ययः सर्वत्र "तितुत्र'' इतीण्निषेधः ( कौक्षेयकः ) "कुलकुक्षिग्रीवाभ्यः श्वास्यङ्कारेषु'' इति असावभिधेये शैषिकष्ठक् अन्यत्र ( कोक्षः कोक्षेयः ) "दृतिकुक्षि'' इत्यादिना भवार्थे ढञ् 46
कृदन्तरूपमाला
Sanskrit
1 {@“कुष निष्कर्षे”@} 2 निष्कर्षः = बहिर्निस्सारणम्।
कोषकः-षिका, कोषकः-षिका, 3 चुकुषिषकः-चुकोषिषकः-षिका, 4 निश्चुकुषिषकः-निश्चुकोषिषकः-षिका, निश्चुकुक्षकः-क्षिका, चोकुषकः-षिका
कोषिता, त्री, 5 निष्कोषिता, त्री, निष्कोष्टा-ष्ट्री, त्री, कोषयिता-त्री, चुकुषिषिता-चुकोषिषिता-त्री, निश्चुकुषिषिता-निश्चुकोषिषिता-निश्चुकुक्षिता-त्री, चोकुषिता-त्री
6 कुष्णन्-ती, कोषयन्-न्ती, चुकुषिषन्-चुकोषिषन्-न्ती
निश्चुकुषिषन्-निश्चुकोषिषन्-निश्चुकुक्षन्-न्ती
-- 7 कोषिष्यन्-न्ती-ती, निष्कोषिष्यन्-न्ती-ती, निष्कोक्ष्यन्-न्ती-ती, कोषयिष्यन्-न्ती-ती, चुकुषिषिष्यन्-चुकोषिषिष्यन्-न्ती-ती
निश्चुकुषिषिष्यन्-निश्चुकोषिषिष्यन्-निश्चुकुक्षिष्यन्-न्ती-ती
-- कोषयमाणः, कोषयिष्यमाणः, चोकुष्यमाणः, चोकुषिष्यमाणः
कुड्-कुट्-कुषौ-कुषः
-- -- -- कुषितम्-तः, 8 निष्कुषितम्- 9 तः, कोषितः, चुकुषिषितः-चुकोषिषितः, निश्चुकुषिषितः-निश्चुकोषिषितः निश्चुकुक्षितः, चोकुषितः-तवान्
कुषः, कोषः, चुकुषिषुः, चुकोषिषुः, निश्चुकुषिषुः निश्चुकोषिषुः निश्चुकुक्षुः चोकुषः
कोषितव्यम्, निष्कोषितव्यम्, निष्कोष्टव्यम्, कोषयितव्यम्, चुकुषिषितव्यम्-चुकोषिषितव्यम्-निश्चुकुषिषितव्यम्-निश्चुकोषिषितव्यम्, निश्चुकुक्षितव्यम्, चोकुषितव्यम्
कोषणीयम्-कोषणीयम्, चुकुषिषणीयम्-चुकोषिषणीयम्, निश्चुकुषिषणीयम्, निश्चुकोषिषणीयम्, निश्चुकुक्षणीयम्, चोकुषणीयम्
कोष्यम्, कोष्यम्, चुकुषिष्यम्-चुकोषिष्यम्, निश्चुकुषिष्यम्-निश्चुकोषिष्यम्, निश्चुकुक्ष्यम्, चोकुष्यम्
ईषत्कोषः-दुष्कोषः-सुकोषः
-- -- कुष्यमाणः, कोष्यमाणः, चुकुषिष्यमाणः-चुकोषिष्यमाणः-निश्चुकुषिष्यमाणः-निश्चुकोषिष्यमाणः-निश्चुकुक्ष्यमाणः, चोकुष्यमाणः
कोषः, कोषः, चुकुषिषः-चुकोषिषः-निश्चुकुषिषः-निश्चुकोषिषः-निश्चुकुक्षः, चोकुषः
कोषितुम्, निष्कोष्टुम्, निष्कोषितुम्, कोषयितुम्, चुकुषिषितुम्-चुकोषिषितुम्-निश्चुकुषिषितुम्-निश्चुकोषिषितुम्-निश्चुकुक्षितुम्, चोकुषितुम्
10 कुष्टिः, कोषणा, चुकुषिषा-चुकोषिषा-निश्चुकुषिषा-निश्चुकोषिषा-निश्चुकुक्षा, चोकुषा
कोषणम्, कोषणम्, चुकुषिषणम्-चुकोषिषणम्-निश्चुकुषिषणम्- निश्चुकोषिषणम्-निश्चुकुक्षणम्, चोकुषणम्
11 कुषित्वा, 12, कोषयित्वा, चुकुषिषित्वा-चुकोषिषित्वा, चोकुषित्वा
निकुष्य 13 विकुष्य निष्कोष्य, संचुकुषिष्य-संचुकोषिष्य-निश्चुकुषिष्य-निश्चुकोषिष्य-निश्चुकुक्ष्य, निश्चोकुष्य
कोषम् २, कुषित्वा २, कोषम् २, कोषयित्वा २, चुकुषिषम् २, चुकोषिषम् २, चुकुषिषित्वा २, चुकोषिषित्वा २, चोकुषम्
चोकुषित्वा २। निश्चुकुषिषम् २, निश्चुकोषिषम् २, निश्चुकुक्षम् २, --
प्रासङ्गिक्यः
01
=>
(२३३)
02
=>
(९-क्र्यादिः-१५१८। सक। सेट्। पर।)
03
=>
[[१। ‘रलो व्युपधात्--’ (१-२-२६) इति सनः कित्त्वविकल्पः। तेन गुणः कदाचित्, कदाचिन्न भवति। एवं सन्नन्ते सर्वत्र ज्ञेयम्।]]
04
=>
[[२। ‘निरः कुषः’ (७-२-४६) इति ‘निर्’ पूर्वकात् कुषेः परस्य वलादेरार्धधातुकस्य इड्विकल्पः। इट्पक्षे कित्त्वं वैकल्पिकम्। तेन रूपद्वयम्। इडभावपक्षे ‘हलन्ताच्च’ (१-२-१०) इत्यनेन कित्त्वात् गुणाभावे ‘निश्चुकुक्षकः’ इति रूपम्। एवं निर्पूर्वके सर्वत्र सन्नन्ते रूपत्रयस्योपपत्तिः।]]
05
=>
[[३। ‘निरः कुषः’ (७-२-४६) इति ‘निर्’ पूर्वकात् कुषेरार्धधातुकस्येड्विकल्पः। एवं तव्यदादिष्वपि ज्ञेयम्।]]
06
=>
[[४। ‘कयादिभ्यः श्ना’ (३-१-८१) इति श्ना विकरणप्रत्ययः। ‘श्नाऽभ्यस्तयोरातः’ (६-४-११२) इत्याकारलोपः। श्नाप्रत्ययस्य सार्वधातुकत्वेन ङिद्वद्भावादङ्गस्य गुणो न। ‘रषाभ्यां--’ (८-४-१) इति णत्वम्।]]
07
=>
[पृष्ठम्०२२२+ १६]
08
=>
[[१। ‘यस्य विभाषा’ (७-२-१५) इति इण्णिषेधे प्राप्ते ‘इण्णिष्ठायाम्’ (७-२-४७) इति नित्यमिट्।]]
09
=>
[[आ। ‘निष्कोषितव्यान् निष्कोष्टुं प्राणान् दशमुखात्मजात्। आदाय परिघं तस्थौ बनान्निष्कुषितद्रुमः।।’ भ। का। ९-३०।]]
10
=>
[पृष्ठम्०२२३+ २२]
11
=>
[[१। क्त्वायां ‘रलो व्युपधात्--’ (१-२-२६) इति प्राप्तं वैकल्पिकं कित्त्वं बाधित्वा, ‘मृडमृदगुधकुष--’ (१-२-७) इति नित्यं कित्त्वम्।]]
12
=>
[[आ। ‘बभूव याऽधिशैलेन्द्रं मृदित्वेवेन्द्रगोचरम्। कुषित्वा जगतां सारं सैका शङ्के कृता भुवि।।’ भ। का। ७-९५।]]
13
=>
[[B। ‘तद्ग्रन्थनं परिहरन् गतिभिर्विकुथ्य पृष्ठे करोन्मृदितपुच्छमकर्षदेनम्। भूयो निपात्य मृडितस्वजनः गुध्नन् दन्तौ विकुष्य गजमुत्क्षुभितं व्यनभ्नात्।।’ धा। का। ३-१०।]]