कुशिक (kuzika)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
शब्दसागरः
EnglishYates
EnglishHelp us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Wilson
EnglishApte
Englishकुशिक [kuśika], Squint-eyed.
कः of the father or the grand-father of विश्वामित्र.
A plough-share.
(pl. ) Descendants of Kuśika
9.15.6.
Sediment of oil.
Apte 1890
EnglishMonier Williams Cologne
EnglishMonier Williams 1872
Englishकुशिक कुशिक, अस्, आ, अम्, squint-eyed
(अस्),
m., N. of the father of Viśvā-mitra
N. of the father of
Gāthin or Gādhi or Gādhin, the latter being sometimes
identified with Indra, who is called Kauśika or Kuśi-
kottama
(according to the Mahā-bhārata and Rāmā-
yaṇa, Viśvā-mitra is son of Gādhi and grandson of
Kuśika)
(आस्), m. pl. the descendants of Kuśika
N. of
a people
(अस्), m. a ploughshare (in this sense more
properly n.)
the sediment of oil
the plant Shorea
Robusta
also Terminalia Bellerica (विभीतक)
also
Vatica Robusta (अश्व-कर्ण).
—कुशिकन्-धर, अस्,
m., N. of a Muni.
Apte Hindi
Hindiकुशिक
वि* - कुश - ठन्
भैंगी आँख वाला
कुशिकः
- कुश - ठन्
विश्वामित्र के दादा का नाम
कुशिकः
- कुश - ठन्
फाली
कुशिकः
- कुश - ठन्
तेल की गाद
Shabdartha Kaustubha
Kannadaकुशिक
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ಕುಶಮಹಾರಾಜನ ಮಗ /ಚಂದ್ರವಂಶದ ಒಬ್ಬ ದೊರೆ /ವಿಶ್ವಾಮಿತ್ರನ ತಾತ /ಗಾಧಿಯ ತಂದೆ
निष्पत्तिः - > "ठन्" (५-२-११५)
व्युत्पत्तिः - > कुशः जनकत्वेनास्त्यस्य
प्रयोगाः - > "कुशपुत्र बभूवुर्हि चत्वारो देववर्चसः । कुशिकः कुशनाभश्च कुशाश्वो मूर्तिमान् तथा ॥"
कुशिक
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ನೇಗಿಲ ಗುಳ
कुशिक
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ಸರ್ಜವೃಕ್ಷ /ಮತ್ತಿಮರ
कुशिक
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ತಾರೆ ಗಿಡ
विस्तारः - > "कुशिको मुनिभेदे स्यात्फले सर्जे बिभीतके" - हेम० ।
L R Vaidya
EnglishWordnet
Sanskrit कुशिक, केकर, गोकुलिक, टगर, टेराक्ष, दूरितेक्षण, वलिर, विषमदृष्टि
यस्य कनीनिका तिर्यक् वर्तते।
"कुशिकः पुरुषः कुत्र पश्यति एतद् ज्ञातुं बहु कठिनम् अस्ति।"
अभिधानचिन्तामणिः
Sanskritनिरीषे कुटकं फाले कृषकः कुशिकः फलम् ॥ ८९१ ॥
निरीष (क्ली), कुटक (क्ली), फाल (पुं), कृषक (पुं), कुशिक (पुं), फल (क्ली)
अभिधानरत्नमाला
Sanskritफाल
फाल, कुशिक
हलं स्याल्लाङ्गलं सीरः फालः कुशिक उच्यते ।
verse 2.1.1.575
page 0065
Mahabharata
EnglishKuśika, an ancient king. § 22 (Pramadvarā): I, 8, 961.-§ 223 (Vāsishṭha): I, 175, 6651 (father of king Gādhi in Kānyakubja and grandfather of Viśvāmitra).--§ 267 (Yamasabhāv.): II, 8, 321 (in the palace of Yama).--§ 370 (Tīrthayātrāp.): III, 84, 8109 (ºsyāśramaṃ, a tīrtha).-§ 562 (Bhagavadyānap.): V, 83, 2946 (among the ṛshis who worshipped Kṛshṇa).--§ 574 (Jambūkh.): VI, 9, 315. --§ 638b (Rāmopākhyāna): XII, 49, 1717 (son of Balākāśva and father of Gādhi).--§ 721b (Viśvāmitrop.): XIII, 4, 204 (son of Vallabha and grandson of Balākāśva), 205 (father of Gādhi).--§ 745c (Cyavana-Kuśikasaṃv.): XIII, 52, 2722 (Cyavanasya ca saṃvādaṃ Kºsya ca), 2725, (2726), 2728, 2734, 2738, 2741, 2747
53, 2768, 2769, 2780, 2813, 2818, 2821
54, 2827, 2848, 2849, (2863)
55, (2868), (2901)
56, 2919 (the relations of Cyavana and K.). Cf. Kuśikarshi.
Kuśika, pl. (ºāḥ), a family, the descendants of Kuśika. § 152 (Pūruvaṃś.): I, 94, 3723 (descended from Jahnu).-§ 223 (Vāsishṭha): I, 174, 6639 (the family of Viśvāmitra). --§ 745c (Cyavana-Kuśikasaṃv.): XIII, 52, 2724 (kulaṃ …Kºānāṃ)
55, 2879 (cikīrshan Kºocchedaṃ, sc. Cyavana)
56, 2924 (Bhṛgūnāṃ Kºānāñ ca abhisambandhakāraṇaṃ).
पुराणम्
Englishकुशिक १ / KUŚIKA I. A very famous monarch in the puru dynasty. He was the grandfather of viśvāmitra and father of gādhi. 1) Genealogy. Descended from Mahāviṣṇu thus
brahmā-atri-candra-budha-purūravas-ĀyusNahuṣa-yayāti-puru-janamejaya-PrācinvānPravīra-namasyu-vītabhaya-śuṇḍu-BahuvidhaSaṁyāti-rahovādī-raudrāśva-matināra-santurodha-duṣyanta-bharata-suhotra-BṛhatputraAj mīḍha-jahnu-balākāśva-kuśika.2) indra as son. kuśika began tapas for a son who would be equal to indra and could not be killed by others. Pleased with his tapas indra voluntarily took birth as Kuśika's son. gādhi was that son
in fact he was an incarnation of indra. (śānti Parva, Chapter 49).
कुशिक २ / KUŚIKA II. A sage who came to see pramadvarā who died of snake poison (Ādi Parva, Chapter 8, Verse 25). On his way to hastināpura he saw śrī kṛṣṇa. (Udyoga Parva, Chapter 83, Verse 27).
Vedic Reference
EnglishKuśika is the probably mythical forefather^1 of the Kuśikas,
and especially the father of the most important member of
that family, Viśvāmitra.^2 The Kuśikas are repeatedly referred
to in the third Maṇḍala of the Rigveda, ^3 and figure in the
legend of Śunaḥśepa in the Aitareya Brāhmaṇa.^4 They were
clearly a family of priests who attached themselves to the
service of the princes of the Bharatas. They were especially
devoted to the worship of Indra
hence he is styled Kauśika
even in the Rigveda.^5
1) Nirukta, ii. 25.
2) Rv. iii. 33, 5.
3) iii. 26, 1
29, 15
30, 20
33, 5
42, 9
50, 4
53, 9. 10.
4) vii. 18
Sāṅkhāyana Srauta Sūtra,
xv. 27.
5) i. 10, 11, with Sāyaṇa's note.
Cf. Maitrāyaṇī Saṃhitā, iv. 5, 7
Śatapatha Brāhmaṇa, iii. 3, 4,
19
Taittirīya Āraṇyaka, i. 12, 4
Macdonell, Vedic Mythology, pp. 62, 63.
Cf. Weber, Indische Studien, i, 38
Muir, Sanskrit Texts, 1^2, 342 et seq.
Ludwig, Translation of the Rigveda,
3, 101, 121
Macdonell, Sanskrit Litera-
ture, 155
Oldenberg. Zeitschrift der
Deutschen Morgenländischen Gesellschaft,
42, 209.
शब्दकल्पद्रुमः
Sanskritकुशिकः, (कुशः कुशसंज्ञको महीपालो जनकत्वे-नास्त्यस्य । कुश + ठन् ।) स्वनामख्यातनृपविशेषः ।(स तु विश्वामित्रपितामहः गाधेः पिता । एत-द्विवरणन्तु महाभारते १३ । भीष्मयुधिष्ठिरसंवादे५२ अध्यायमारभ्य द्रष्टव्यम् ॥
) फालः । सर्जवृक्षः ।विभीतकवृक्षः । इति हेमचन्द्रः ॥
अश्वकर्णवृक्षः ।इति राजनिर्घण्टः ॥
तैलशेषः । इति विश्वः ॥
केकरे त्रि । इति शब्दमाला ॥
वाचस्पत्यम्
Sanskritकुशिक कुशः कुशनामा नृपः जनकत्वेनास्त्यस्य ठन् । गाधिनृपजनके विश्वामित्रपितामहे नृपभेदे तत् कथा यथा“कान्यकुब्जे महानासीत् पार्थिवो भरतर्षभ! ! । गाधी-ति विश्रुतो लोके कुशिकस्यात्मसम्भवः । तस्य धर्म्मात्मनःपुत्रः समृद्धबलवाहनः । विश्वामित्र इति ख्यातो बभूवरिपुमर्द्दनः । भा० आ० १७४ अ०“कुशवंशप्रसुतोऽस्मि कौशिको रघुनन्दन!” रामा० आ०“कुशिकस्यात्मजः श्रीमान् गाधिर्नाम जनेश्वरः । भा० आ० ४ अ०“कुशपुत्रा बभूबूर्हि चत्वारोदेववर्च्चसः । कुशिकः कुशना-भश्च कुशाश्वो मूर्त्तिमांस्तथा” कुशिकस्तु तपस्तेपे” इत्यु-पक्रमे “स गाधिरभवद्राजा भगवान् कौशिकः स्वयम्”हरिवं० २७ । अ० कुशिकचरितं च भा० आनु० ५२ अध्या-याबधि ५६ अ० पर्य्यन्ते“अत्राप्युदोहरन्तीममितिहासं पुरातनम् । च्यवनस्य चसंवादं कुशिकस्य च भारत! । एतं दोषं पुरा दृष्ट्वाभार्गवश्च्यवनस्तदा । आगामिनं महाबुद्धिः स्ववंशे मु-निसत्तमः । निश्चित्य मनसा सर्वं गुणदोषं बलाबलम् ।दग्धुकामः कुलं सर्व्वं कुशिकानां तपोधनः । च्यवनःसमनुप्राप्य कुशिकं वाक्यमब्रवीत् । वस्तुमिच्छा समुत्पन्नात्वया सह ममानध! ।कुशिक उवाच । भगवन् सह धर्म्मोऽयं पण्डितैरिहधार्य्यते । प्रदानकाले कन्यानामुच्यते च सदा बुधैः ।यत्तु तावदतिक्रान्तं धर्म्मद्वारं तपोधनम् । तत् कार्य्यंप्रकरिष्यामि तदनुज्ञातुमर्हसि । भीष्म उवाच । अथा-सनमुपादाय च्यवनस्य महामुने! । कुशिको भार्य्ययासार्द्धमाजगाम यतो मुनिः । प्रगृह्य राजा भृङ्गारंपाद्यमस्मै न्यवेदयत् । कारयामास सर्व्वाश्चक्रियास्तस्य महात्मनः । ततः स राजा च्यवनंमधुपर्कं यथाविधि । ग्राहयामास चाव्यग्रो महात्मानियतव्रतः । सत्कृत्य तं तथा विप्रमिदं पुनरथाब्रवीत् ।भगवन्! परवन्तौ स्वो ब्रूहि किं करवावहै । यदि राज्यंयदि धनं यदि गाः संशितव्रत! । यज्ञदानानि च तथाब्रूहि सर्व्वं ददामि ते । इदं गृहमिदं राज्यमिदंधर्म्मासनञ्च ते । राजा त्वमपि शाध्युर्वीं योऽहं स प-रवांस्त्वयि । एवमुक्ते ततो वाक्ये च्यवनो भार्गवस्तदा ।कुशिकं प्रत्युवाचेदं मुदा परमया पुनः । न राज्यंकामये राजन्न धनं न च योषितः । न च गा न च वैदेशान्न यज्ञं श्रूयतामिदम् । नियमं कञ्चिदारप्स्येयुवयोर्यदि रोचते । परिचर्य्योऽस्मि यत्ताभ्यां युवाभ्या-मविशङ्कया । एवमुक्ते तदा तेन दम्पती तौ जहर्षतुः ।प्रत्यब्रूताञ्च तमृषिमेवमस्त्विति भारत । ।अथ तं कुशिको हृष्ट प्रावेशयदनुत्तमम् । गृहोद्देशंततस्तस्य दर्शनीयमदर्शयत् । इयं शय्या भगवतो यथा-काममिहोष्यताम् । प्रयतिष्यावहे प्रीतिमाहर्त्तुं ते तपो-षन! । अथ सूर्य्योऽतिचक्राम तेषां संवदतां तथा । अ-थर्षिर्नोदयामास पानमन्नं तथैव च । तमपृच्छत्ततो राजाकुशिकः प्रणतस्तदा । किमन्नजातमिष्टन्ते किमुपस्थापयाम्यहम् । ततः स परया प्रीत्या प्रत्युवाच नराधि-पम् । औपपत्तिकमाहारं प्रयच्छस्वेति भारत! । त-द्वचः पूजयित्वा तु तथेत्याह स पार्थिवः । यथोपप-न्नमाहारं तस्मै प्रादाज्जनाधिप! । ततः स भुक्त्वा भ-गवान् दम्पती प्राह धर्म्मवित् । सप्तुमिच्छाम्यहं निद्राबाधते मामिति प्रभो! । ततः शय्यागृहं प्रार्थ्य भगवा-नृषिसत्तमः । संविवेश नरेशस्त सपत्नीकः स्थितोऽभवत् ।न प्रबोध्योऽस्मि संसुप्त इत्युवाचाथ भार्गवः । संवाहि-तव्यौ मे पादौ जागृतव्यञ्च तेऽनिशम् । अविशङ्कस्तुकुशिकस्तथेत्येवाह धर्म्मवित् । न प्रबोधयतान्तौ चतं तथा रजनीक्षये । यथा तथा महर्षेस्तु शुश्रूषापरमौतदा । बभूवतुर्म्महाराज! प्रयतावथ दम्पती । ततः सभगवान् विप्रः समादिश्य नराधिपम् । सुष्वापैकेन पा-र्श्वेन दिवसानेकविशतिम् । स तु राजा निराहारःसभार्य्यः कुरुनन्दन! । पर्य्युपासत तं हृष्टश्च्यवनाराधनेरतः । भार्गवस्तु समुत्तस्थौ स्वयमेव तपोधनः । अ-किञ्चिदुक्त्वा तु गृहान्निश्चक्राम महातपाः । तमन्वगच्छ-तां तौ तु क्षुधितौ श्रमकर्षिदौ । भार्य्यापती मुनिश्रेष्ठ-स्तावेतौ नावलोकयन् । तयोस्तु प्रेक्षतोरेव यार्गवा-णां कुलोद्वहः । अन्तर्हितोऽभूठ्राजेन्द्र! ततो राजाऽपतत्क्षितौ । स मुहूर्तं सनाश्वास्य सह देव्या महाद्युतिः ।पुनरन्वेषणे यत्नमकरोत् परमं तदा” ५२ अ०युधिष्ठिर उवाच । तष्मिन्नत्तर्हिते विप्रे राजा किम-करोत्तदा । भार्य्या चास्य महाभागा तन्मे ब्रूहिपितामह! । भीष्म उवाच । अदृष्ट्वा स महीपालस्तमृषिंसह भार्य्यया । परिश्रान्तो निववृते व्रीडितोनष्टचेतनः । स प्रविश्य पुरीं दीनो नाभ्य-भाषत किञ्चन । तदेव चिन्तवामास च्यवनस्यविचेष्टितम् । अथ शून्येन मनसा प्रविश्य स्वगृहंनृपः । ददर्श शयने तस्मिच्छयानं भृगुनन्दनम् । वि-स्मितौ तावृषिं दृष्ट्वा तदाश्चर्य्यं विचिन्त्य च । दर्शना-त्तस्य तु तदा विश्रान्तौ सम्बभूबतुः । यथास्यानन्तु तौस्थित्वा भूयस्तं संववाहतुः । अथापरेण पार्श्वेन सुष्वापस महामुनिः । तेनैव च स कालेन प्रत्यबुध्यत् स वी-र्य्यवान् । न च तौ चक्रतुः किञ्चिद्विकारं भयशङ्किता ।प्रतिबुद्धस्तु स मुनिस्तौ प्रोवाच विशांपते! । तैलाभ्यङ्गोदीयतां मे स्नास्येऽहमिति भारत! । तौ तथेति प्रतिश्रुत्य क्षुधितौ श्रमकर्षितौ । शतपाकेन तैलेन महार्हे-णोपतस्थतुः । ततः सुखासीनमृषिं दम्पती संववाह-तुः । न च पर्य्याप्तमित्याह भार्गवः सुमहातपाः । यदातौ निर्विकारौ तु लक्षयामास भार्गवः । तत उत्थाथसहसा स्नानशालां विवेश ह । कॢप्तमेव तु तत्रासीत् स्नानीयं पार्थिवोचितम् । असत्कृत्य च तत् सर्वं तत्रैवान्तरधीयत । स मुनिःपुनरेवाथ नृपतेः पश्यतस्तदा । नासूया-ञ्चक्रतुस्तौ च दम्पती भरतर्षभ! । अथ स्नातः स भगवान्सिंहासनगतः प्रभुः । दर्शयामास कुशिकं सभार्य्यंकुरुनन्द्रन! । स हृष्टवदनो राजा सभार्य्यः कुशिकोमुनिम् । सिद्धमन्नमिति प्राज्ञा निर्विकारो न्यवेदयत् ।आनीयतामिति मुनिस्तञ्चोवाच नराधिपम् । स रा-जा समुपाजह्रे तदन्नं सह भार्य्यया । मांसप्रकारा-न् विविधांञ्छाकानि विविधानि च । रसालापूपकांश्चि-त्रान्मोदकानथ खाण्डकान् । रसान् नानाप्रकारांश्च वत्यञ्चमुनिभोजनम् । फलानि च विचित्राणि राजभोग्यानिभूरिशः । वदरेङ्गुदकाश्मर्य्यभल्लातकफलानि च । गृह-स्थानाञ्च यद्भोग्यं यच्चापि वनवासिनाम् । सर्वमाहा-रयामास राजा शापभयात्ततः । अथ सर्वमुपन्यस्तम-ग्रतश्च्यवनस्य तत् । ततः सर्वं सभानीय तच्च शय्यासनंमुनिः । वस्त्रैः शुभैरवच्छाद्य भोजनोपस्करैः सह ।सर्वमादीपयामास च्ययनो भृगुनन्दनः । न च तौ चक्रतुक्रौधं दम्पती सुमहामती । तयोः सम्प्रेक्षतोरेव पुन-रन्तर्हितोऽभवत् । तथैव च स राजर्षिस्तस्थौ तांरजनीं तदा । सभार्य्यो वाग्यतः श्रीमान्न कोपं ससमाविशत् । नित्यं संस्कृतमन्नन्तु विविधं राजवेश्मनि ।शयनानि च मुख्यानि परिषेकाश्च पुष्कलाः । वस्तञ्चविविधाकारमभवत् समुपार्ज्जितम् । न शशाक ततोद्रघुमन्तरं च्यवनस्तदा । पुनरेव च विप्रर्षिः प्रोवाचकुशिकं नृपम् । सभार्य्यो मां रथेनाशु वह यत्र ब्रवी-म्यहम् तथेति च प्राह नृपो निर्विशङ्कसापोधनम् ।क्रीडारथोऽस्तु भगवन्नुत सांग्रामिको रथः । इत्युक्तःस मुनी राज्ञा तेन हृष्टेन तद्वचः । च्यवनः प्रत्युवाचेदंहृष्टः परपुरञ्जय! । सज्जीकुरु रथं क्षिप्रं यस्तेसांग्रामिको रथः । सायुघः सपताकश्च शक्तीकनकयष्टि-मान् । किङ्किणीस्वननिर्घोषो युक्तस्तोरणकल्पनैः ।जाम्बूनदनिबद्धैश्च परमेषुशतान्वितः । ततः स तत्त-थेत्युक्त्वा कल्पयित्वा महारथम् । भार्य्यां वामे धुरि तदाचात्मानं दक्षिणे तथा । त्रिदण्डं वज्रसूच्यग्रं प्रतोदंतत्र चादधत् । सर्वमेतत्ततो दत्त्वा नृपो वाक्यमथाब्रवीत्भगवन्! क्व रथोयातु ब्रवीतु भृगुनन्दन! । यत्र वक्ष्यसिविप्रर्षे! तत्र यास्यति ते रथः । एवमुक्तस्तु भगवान् प्रत्यु-वाचाथ तं नृपम् । इतः प्रभृति यातव्यं पदकं पदकंशनैः । श्रमो मम यया न स्यात्तथा मे च्छन्दचारिणौ ।सुसुखञ्चैव वोढव्यो जनः सर्वश्च पश्यतु । नोत्सार्य्याः प-थिकाः केचित्तेभ्यो दास्ये वसु ह्यहम् । ब्राह्मणेभ्यश्च येकामानर्थयिष्यन्ति मां पथि । सर्वन्दास्याम्यशेषेण धनं र-त्नानि चैव हि । क्रियतां निखिलेनैतन्मा विचारय पा-र्थिव! । तस्य तद्वचनं श्रुत्वा राजा भृत्यानथाब्रवीत् । य-द्यद्ब्रूयान्मुनिस्तत्तत् सर्वं देयमशङ्कितैः । ततोरत्नान्यनेका-नि स्त्रियो युग्यमजाविकम् । कृताकृतञ्च कनकं गजेन्द्राश्चा-चलोपमाः । अन्वगच्छन्त तमृषिं राजामात्याश्च सर्वशः ।हाहाकृतञ्च तत् सर्वमासीन्नगरमार्त्तवत् । तौ तीक्ष्णा-पेण सहसा प्रतोदेन प्रतोदितौ । पृष्ठे विद्धौ कटे चैवनिर्विकारौ तमूहतुः । वेपमानौ निराहारौ पञ्चाशद्रा-त्रिकर्षितौ । कथञ्चिदूहतुर्वीरौ दम्पती तौ रथोत्तमम् ।वहुशो भृशविद्धौ च वहन्तौ च क्षतोद्भवम् । ददृशाते महा-राज! पुष्पिताविव किंशुकौ । तौ दृष्ट्वा पौरवर्गस्तु भृशं शो-कसमाकुलः । अभिशापभयत्रस्तो न च किञ्चिदुवाच ह ।द्वन्द्वशश्चाब्रुवन् सर्वे पश्यध्वं तपसो बलम् । क्रुद्धा अपिमुनिश्रेष्ठं वोक्षितुं नेह शक्नुमः । अहो भगवतो वीर्यंमहर्षेर्भावितात्मनः । राज्ञश्चापि मभार्य्यस्य धैर्य्यं पश्यतयादृशम् । श्रान्तावपि हि कृच्छ्रेण रथमेतं समूहतुः ।न चैतयोर्विकारं वै ददर्श भृगुनन्दनः ।“भीष्म उवाच । ततः स निर्विकारौ तु दृष्ट्वा भृगुकुलो-द्भहः । बहु विश्राणयामास यथा वैश्रवणस्तथा । त-त्रापि राजा प्रीतात्मा यथादिष्टमथाकरोत् । ततोऽस्यभगवान् प्रीतो बभूव मुनिसत्तमः । अवतीर्य्य रथश्रेष्ठात्दम्पती तौ मुमोच ह । विमोच्य चैतौ विधिवत्ततोवाक्यमुवाच ह । स्निग्धगम्भोरया वाचा भार्गवः सुप्र-सन्नया । ददानि वां वरं श्रेष्ठं तं ब्रूतामिति भार-त! । सुकुमारौ च तौ विद्धौ कराभ्यां मनिसत्तमः ।पस्पर्शामृतकल्पाभ्यां स्नेहाद्भरतसत्तम! । अथाब्रवीन्नृपोवाक्यं श्रमो नास्त्यावयोरिह । विश्रान्तौ च प्रभावात्तेऊचतुस्तौ च भार्गवम् । अथ तौ भगवान् प्राह प्रहृ-ष्टश्च्यवनस्तदा । न वृथा व्याहृतं पूर्व्वं यन्मया तद्भ-विष्यति । रमणीयः समुद्देशो गङ्गातीरमिदं शुभम् ।किञ्चित्कालं व्रतपरो निवत्स्यामीह पार्थिव! । गम्यतांस्वपुरं पुत्त्र! विश्रान्तः पुनरेष्यसि । इहस्थं मा सभा-र्य्यस्त्वं द्रष्टासि श्वो नराधिष! । न च मन्युस्त्वया कार्य्यःश्रेयस्ते समुपस्थितम् । यत् काङ्क्षितं हृदिस्थं ते तत्सर्वं हि भविष्यति । इत्येवमुक्तः कुशिकः प्रहृष्टेना-न्तरात्मना । प्रोवाच मुनिशार्द्दूलमिदं वचनमर्थवत् ।न मे मन्युर्म्महाभाग! पूतौ स्वो भगवंस्त्वया । संवृत्तौयौवनस्थौ स्वो वपुष्मन्तौ बलान्वितौ । प्रतोदेनव्रणा ये मे सभार्य्यस्य त्वया कृताः । तान्न पश्यामिगात्रेषु स्वस्थोऽस्मि सह भार्य्यया । इमां च देवींपश्याभि वपुषाऽप्सरसोपमाम् । श्रिया परमया युक्तांयथा दृष्टा पुरा मया । तव प्रसादात्सं वृत्तमिदं सर्वंमहामुने! । नैतच्चित्रन्तु भगवंस्त्वयि सत्यपराक्रम! ।इत्युक्तः प्रत्युवाचैनं कुशिकं च्यवनस्तदा । आगच्छे-थाः सभार्य्यश्च त्वमिहेति नराधिप । इत्युक्तःसमनुज्ञातो राजर्षिरभिवाद्य तम् । प्रययौ वपुषा युक्तोनगरीं देवराजवत् । तत एनमुपाजग्मुरमात्याः सपुरो-हिताः । बलस्था गणिकायुक्ताः सर्वाः प्रकृतयस्तथा ।तैर्वृतः कुशिको राजा श्रिया परमया ज्वलन् । प्रवि-वेश पुरं हृष्टः पूज्यमानोऽथ वन्दिभिः । ततः प्रविश्यनगरं कृत्वा पूर्बाह्णिकीः क्रियाः । भुक्त्वा सभार्य्यो रज-नीमुवास स महाद्युतिः । ततस्तु तौ नवमभिवीक्ष्य यौ-वनं परस्परं विगतरुजाविवामरौ । ननन्दतुः शयनगतौवपुर्धरौ श्रिया युतौ द्विजवरदत्तया तदा ।अथाप्यृषिर्भृगुकुलकीर्त्तिबर्द्धनस्तपोधनो वनमभिराम-मृद्धिमत् । मनीषया बहुविधरत्नभूषितं ससर्ज यन्नोनगरे शतक्रतोः” इति ५३ अ०“भीष्म उवाच । ततः स राजा रात्र्यन्ते पतिबुद्धो म-हामनाः । कृतपूर्बाह्णिकः प्रायात् सभार्य्यस्तद्वनं प्रति ।ततो ददर्श नृपतिं प्रासादं सर्वकाञ्चनम् । मणिस्तम्भस-हस्राद्यं गन्धर्वनगरोपमम् । तत्र दिव्यानमिप्रायान्ददर्श कुशिकस्तदा । पर्व्वतान् रूप्यसानूंश्च नलिनीश्चसपङ्कजाः । तत्र शालाश्च विविधास्तोरणानि च भार-त! । शाद्वलोपचितां भूमिं यथाकाञ्चनकुट्टिमाम् ।सहकारान् प्रफुल्लांश्च केतकोद्दालकान् धवान् । अशो-कान् सहकुन्दांश्च फुल्लांश्चैवातिमुक्तकान् । चम्पकांस्ति-लकान् भव्यान् पनसान् वञ्जुलानपि । पुष्पितान् कर्णि-कारांश्च तत्र तत्र ददर्श ह । श्यामान् वारणपुष्पांश्च तथा-ऽष्टपादिका लताः । तत्र तत्र परिकॢप्ता ददर्श स मही-पतिः । वृक्षान् पद्मोत्पलधरान् सर्वर्त्तुकुसुमांस्तथा । वि-मानप्रतिमांश्चापि प्रासादाञ्छैलसन्निभान् । शीतलानिच तोयानि कचिदुष्णानि भारत! । आसनानि विचि-त्राणि शयनप्रवराणि च । पर्य्यङ्कान् रत्नसौवर्णान्परार्द्ध्यास्तरणावृतान् । भक्ष्यभोज्यमनन्तञ्च तत्रतत्रोपकल्पितम् । वीणानादाञ्छुकांश्चैव सारिकान्भृङ्गराजकान् । कोकिलाञ्छतपत्रांश्च सकोयष्टिककु-क्कुभान् । मयूरान् कूक्कुटांश्चापि दात्यूहान जीव-जीवकान् । चकोरान् वानरान् हंसान् सारसांश्चक्रसा-ह्वयान् । समन्ततः प्रमुदितान् ददर्श सुमनोहरान् ।क्कचिदप्सरसां संघान् गन्धर्वाणाञ्च पार्थिव! । कान्ताभिर-परांस्तत्र परिष्वक्तान् ददर्श ह । न ददर्श च ताम् भूयो दद-र्श च पुनर्नृपः । गीतध्वनिं सुमधुरं तथैवाध्यापनध्वनिम् ।हंसान् सुमधुरांश्चापि तत्र शुश्राव पार्थिवः । तं दृष्ट्वाऽ-त्यद्भुतं राजा मनसाऽचिन्तयत्तदा । खप्नोऽयं चित्तविभ्रंशउताहो सत्यमेव तु । अहो सह शरीरेण प्राप्तोऽस्मिपरमाङ्गतिम् । उत्तरान् वा कुरून् पुण्यानय वाऽप्यमरा-वतीम् । किञ्चेदं महदाश्चर्य्यं संपश्यामीत्यचिन्तयत् । एवंसञ्चिन्तयन्नेव ददर्श मुनिपुङ्गवम् । तस्मिन् विमाने सौवर्णेमणिस्तम्भसमाकुले । महार्हे शयने दिव्ये शयानं भृगु-नन्दनम् । तमप्ययात् प्रहर्षेण नरेन्द्रः सह मार्य्यया ।अन्तर्हितस्ततो भूयश्च्यवनः शयनञ्च तत् । ततोऽन्यस्मिन्वनोद्देशे पुनरेव ददर्श तम् । कौश्यां वृष्यां समासीनंजपमानं महाव्रतम् । एवं योगबलाद्विप्रो मोहयामासपार्थिवम् । क्षणेन तद्वनञ्चैव ते वै चाप्सरसां गणाः ।गन्धर्वाः पादपाश्चैव सर्वमन्तरधीयत । निःशब्दमभवच्चाप्रिगङ्गाकूलं पुनर्नृप! । कुशबल्मीकभूयिष्ठं बभूव च यथापुरा । ततः स राजा कुशिकः सभार्य्यस्तेन कर्म्मणा ।विस्मयं परमं प्राप्य तद्दृष्ट्वा महदडुतम् । ततः प्रोवाचकुशिको भार्य्यां हर्षसमन्वितः । पश्य भद्रे! यथा मावाश्चित्रा दृष्टाः सुदुर्लभाः । प्रसादाद्भृगुमुख्यस्य किमन्यत्रतपोबलात् । तपसा तदवाप्यं हि यत्तु शक्यं मनोरथैः ।त्रैलोक्यराज्यादपि हि तप एव विशिष्यते । तपसा हिसुतप्तेन शक्यो मोक्षस्तपोवलात् । अहो प्रभावो ब्रह्मर्षे-श्च्यवनस्य महात्मनः । इच्छयैष तपोवीर्य्यादन्यान् लो-कान् सृजेदपि । ब्राह्मणा एव जायेरन् पुण्यवाग्बुद्धि-कर्मणः । उत्सहेदिह कृत्वैव कोऽन्यो वै च्यवनादृते ।ब्राह्मण्यं दुर्लभं लोके राज्यं हि सुलभं नरैः ।ब्राह्मणस्य प्रभावाद्धि रथे युक्तौ स्व धुर्य्यवत् । इत्येवंचिन्तयानः स विदितश्च्यवनस्य वै । सम्प्रेक्ष्योवाच नृप-तिं क्षिप्रमागम्यतामिति । इत्युक्तः सहभार्य्यस्तु सोऽभ्य-गच्छन्महामुनिम् । शिरसा वन्दनीयन्तमवन्दत च पा-र्थिवः । तस्याशिषः प्रयुज्याथ स मुनिस्तं नराधिपम् ।निषीदेत्यब्रवीद्धीमान् सान्त्वयन् पुरुषर्षभ! । ततः प्रकृति-मापन्नो भार्गवो नृपतेर्नृप! । उवाच श्लक्ष्णया वाचातर्पयन्निव भारत! । राजन्! सम्यग् जितानीह पञ्च पञ्च-स्वयं त्वया । मनःषष्ठानीन्द्रियाणि कृच्छान्मुक्तोऽसि तेनवै । सम्यगाराधितः पुत्त्र! त्वया प्रवदतां वर । । न हिते वृजिनं किञ्चित् सुसूक्ष्ममपि विद्यते । अनुजानीहिमां राजन्! गमिष्याभि यथागतम् । प्रीतोऽस्मि तवराजेन्द्र! वरश्च प्रतिगृह्यताम् ।कुशिक उवाच । अग्निमध्यगतेनेव भगवन् सन्निधौ मया ।वर्त्तितं भृगुशार्द्दूल! यन्न दग्वोऽस्मि तद्वहु । एष एववरो मुख्यः प्राप्तो मे भृगुनन्दन! । यत्प्रीतोऽसि मयाब्रह्मन्! कुलं त्रातञ्च मेऽनघ! । एष मेऽनुग्रहो विप्र!जीविते च प्रयोजनम् । एतद्राज्यफलञ्चैव तपसश्च फलंमम । यदि त्वं प्रीतिमान् विप्र! मयि वै भृगुनन्दन! ।अस्ति मे संशयः कश्चित्तन्मे व्याख्यातुमर्हसि । ५४ अ०“च्यवन उवाच । वरश्च गृह्यंतां मत्तो यश्च ते संशयोहृदि । तं प्रब्रूहि नरश्रेष्ठ । सर्व्वं सम्पादयामि ते ।कुशिक उवाच । यदि प्रीतोऽसि भगवंस्ततो मे वद भा-र्गव! । कारणं श्रोतुमिच्छामि मद्गृहे वासकारितम् ।शयनञ्चैकपार्श्वेन दिवसानेकविंशतिम् । अकिञ्चिदुक्त्वागमनं बहिश्च मुनिपुङ्गव! । अन्तर्द्धानमकस्माच्च पुनरेव चदर्शनम् । पुनश्च शयनं विप्र! दिवसानेकविंशतिम् ।तैलाभ्यक्तस्य गमनं भोजनञ्च गृहे मम । समुपानीयविविधं यद्दग्धं जातवेदसा । निर्याणञ्च रथेनाशु सह-सा यत् कृतं त्वया । धनानाञ्च विसर्गश्च वनस्यापि चदर्शनम् । प्रासादानां बहूनाञ्च काञ्चनानां महामुने! । म-णिविद्रुमपादानां पर्य्यङ्कानाञ्च दर्शनम् । पुनश्चादर्शनं तस्यश्रोतुमिच्छामि कारणम् । अतीव ह्व्यत्र सुह्यामि चिन्तयानोभृगूद्वह! । नचैवात्राधिगच्छामिसर्व्वस्यास्य विनिश्चयम् ।एतदिच्छामि कात्र्स्न्येन सत्यं श्रोतुं तपोधन!च्यवन उवाच । शृणु सर्वमशेषेण यदिदं येन हेतुना ।न हि शक्यमनाख्यातुमेवं पृष्टेन पार्थिव! । पितामहस्यवदतः पुरा देवसमागमे । श्रुतवानस्मि यद्राजंस्तन्मे नि-गदतः शृणु । ब्रह्मक्षत्त्रविरोधेन भविता कुलसङ्करः ।पौत्त्रस्ते भविता राजस्तेजोवीर्य्यसमन्वितः । ततस्तेकुलनाशार्थ महं त्वां समुपागतः । चिकीर्षन् कुशिकोच्छेदंसन्दिधक्षुः कुलन्तव । ततोऽहमागम्य पुरे त्वामवोचंमहीपते! । नियमं कञ्चिदारप्स्ये शुश्रूषा क्रियतामिति ।न च ते दुष्कृतं किञ्चिदहमासादयं गृहे । तेन जीवसिराजर्षे । न भवेथास्त्वमन्यथा । एवं बुद्धिं समास्थाय दिव-सानेकविंशतिम् । सुप्तोऽस्मि यदि मां कश्चिद्बोधयेदितिपार्थिव! । यदा त्वया सभार्य्येण संसुप्तो न प्रवीधितः ।अहन्तदैव ते प्रीतो मनसा राजसत्तम! । उत्थाय चास्मिनिष्क्रान्तो यदि मां त्वं महीपते! । पृच्छेः क यास्यसी-त्येवं शपेयं त्वामिति प्रभो! । अन्तर्हितः पुनश्चास्मि पुनरेवच ते गृहे । योगमास्थाय संसुप्तो दिवसानेकविंशतिम् ।क्षुधितो मामसूयेथाः श्रमाद्वेति नराधिप! । एवं बुद्धिंसमास्थाय कर्षितौ वां क्षुधा मया । न च तेऽभूत् सु-सूक्ष्मोऽपि मन्युर्म्मनसि पार्थिव! । सभार्ष्यस्य नरश्रे-ष्ठ! तेन ते प्रीतिमान हम् । भोजनञ्च समानाय्य यत्तदादीपिसं मया । क्रुध्येथा यदि मात्सर्य्यादिति तन्मर्षि-तञ्च मे । ततोऽहं रथमारुह्य त्वामवोचं नराधिप! ।सभर्य्यो मां बहस्वेति तच्च त्वं कृतवांस्तथा । अविशङ्कोनरपते । प्रीतोऽहञ्चापि तेन ह । धनोत्सर्गेऽपि च कृते नत्वां क्रोधः प्रधर्षयेत् । ततः प्रीतेन ते राजन्! पुतरेतत्कृतं तव । सभार्य्यस्य वनं भूयस्तद्विद्धि मनुजाधिप्!प्रीत्यर्यं तव चैतन्मे स्वर्गसन्दर्शनं कृतम् । यत्ते वनेऽ-स्मिन्नपते! दृष्टं दिव्यं निदर्शनम् । स्वर्गोद्देशस्त्वया राजन्!स्वशरीरेण पार्थिक । । मुहूर्त्तमनुभूतोऽसौ सभार्य्येणनृषोत्तम! । निदर्शतार्थं तपसो धर्म्मस्य च नराधिप! ।तत्तवासोत् स्पृहा राजं स्तच्चापि विदितं मया । ब्र-ह्मण्यं काङ्क्षसे हि त्वं वपश्च पृथिवीपते! । अवमन्य नरे-न्द्रत्वं देवेन्द्रत्वं नराधिप! । एवमेतद्यथात्थ त्वं ब्राह्मण्यंतात! दुर्ल्लभम् । ब्राह्मणे सति चर्पित्वं ऋषित्वे च तप-खिता । भविष्यत्येष ते कामः कौशिकात् कौशिको द्वि-जः । तृतीयं पुरुषं तुभ्यं ब्राह्मणत्वं गमिष्यति । वंश-स्ते पार्थिवश्रेष्ठ! भृगूणामेव तेजसा । पौत्त्रस्ते भविताविप्रस्तपस्वी पावकद्युतिः । यः सदेवमनुष्याणां भयमु-त्पादयिग्यति । त्रयाणामेब लोकानां सत्यमेतद्व्रवीमिते । वरं गृहाण राजर्षे! यत्ते मनसि वर्त्तते । तीर्थ-यात्रां गमिष्यामि पुरा कालोऽभिवर्तते ।कुशिक उवाच । एष एव वरो मेऽद्य यम्त्वं प्रीतो महा-मुने! । भवत्वेतत् यथात्थ त्वं भवेत् पौत्त्रो ममानथ! ।ब्राह्मण्यं मे कुलस्यास्तु भगवन्नेष मे वरः । पुनश्चा-ख्यातुमिच्छामि भगवन्! विस्तरेण वै । कथमेष्यति बिप्रत्यंकुलं मे भृगुनन्दन । कथासौ भविता बन्धुर्मम् कश्चापिसम्मतः । ५५ अ०च्यवन उवाच । अवश्यं कथनीयं मे तवैतन्नरपुङ्गव! ।यदर्थं त्वाहमुच्छेत्तुं संप्राप्तो मनुजाधिप! । भृगूणांक्षत्त्रिया याज्या नित्यमेतज्जमाधिप! । ते च भेदं गमि-ष्यन्ति दैवयुक्तेन हेतुना । क्षत्त्रियाश्च भृगून् सर्वान्वधिष्यन्ति नराधिप! । आ गर्भादनुकृन्तन्तो दैवदण्डनि-पीडिताः । तत उत्पत्स्यतेऽस्माकं कुलगोत्रविवर्द्धनः ।जर्यो नाम महातेजा ज्वलनार्कसमद्युतिः । स त्रैलो-क्यविनाशाय कोपाग्निं जनयिष्यति । महीं सपर्वत-वनां यः करिष्यति भस्मसात् । कञ्चित् कालन्तु वह्निञ्चस एव शमयिष्यति । समुद्रे वडवावक्त्रे प्रक्षिप्य सुमि-सत्तमः । पुत्त्रं तस्य महाराज! ऋचीकं भृमुनन्दनम् ।साक्षात् कृत्स्नो धनुर्वेदः समुपस्थास्यतेऽनव! । क्षत्त्रिया-याणामभावाय दैवयुक्तेन हेतुना । स तु तं प्रतिमृ-ह्यैव पुत्त्रे संक्रामयिष्यति । जमदग्नौ महाभागे तपसाभावितात्मनि । स चापि भृगुशार्द्दूलस्तंवेदं धारयिष्यति ।कुलात्तु तव धर्म्मात्मन् कन्यां सोऽधिगमिष्यति ।उद्भावनार्थं भवतो वंशस्त्र भरतर्षभ! । गाधेर्दुहितरंप्राप्य पौत्रीं तव महातपाः । ब्राह्मणं क्षत्रधर्म्माणंपुत्रमुत्पादयिष्यति । क्षत्रियं विप्रकर्माण वृहत्पतिमिवौ-जसा । विश्वामित्रं तव कुते गाधेः पुत्त्रं सुधार्मिकम् ।तपसा महता युक्तं प्रदास्यति महाद्युते! । स्त्रियौ तुकारण तत्र परिवर्त्ते भविष्यतः । पितामहनियो-गाद्वै नान्थथैतद्भविष्यति । तृतोये पुरुषे तुभ्यं ब्राह्मण-त्वमुपैष्यति” ।“भीष्म उवाच ॥
कुशिकस्तु मुनेर्वाक्यं च्यवनस्य महा-त्मनः । श्रुत्वा हृष्टोऽभवद्राजा वाक्यञ्चेदमुवाच हएवमस्त्विति धर्मात्मा तदा भरतसत्तम! । च्यवनस्तु म-हातेजाः पुनरेव नराधिपम् । वरार्थं नोदयामास तमु-वाच स पार्थिवः । वाढमेवं करिष्यामि कामं त्वत्तोमहामुने! । ब्रह्मभूतं कुलं मेऽस्तु धर्म्मे चास्य मनोभवेत् । एवमुक्तस्तथेत्येवं प्रत्युक्त्वा च्यवनो मुनिः ।अभ्यनुज्ञाय नृपतिं तीर्थयात्रां ययौ तदा । एतत्ते क-थितं सर्वमशेषेण मया नृप! । भृगूणां कुशिकानाञ्चअभिसम्बन्धकारणम् । यथोक्तमृषिणा चापि तदा तदभव-न्नॄप!” ५६ अ० । कुशिकस्थापत्यम् अण् । कोशिक तद-पत्ये पुंस्त्री० स्त्रियां ङीप् हेमच० मुनिभेदार्थकता-मालोक्य जमदग्निपित्रर्थकतोक्तिः कल्पद्र मे तन्मूला-न्यत्रोक्तिश्च चिन्त्या । २ सर्ज्जवृक्षे हेमच० । ३ विभीतकवृक्षेपु० विश्वः ४ केकरे ५ अश्वक्वर्ण्णवृक्षे राजनि० ६ तैलशेषेपु० शब्दमा० कुशी + स्वार्थे क । कुशिका ७ फाले स्त्री
Grassman
GermanBurnouf
FrenchNo entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
