| YouTube Channel

कुशादिक (kuzAdika)

 
वाचस्पत्यम्
Sanskrit
कुशादिक मावप्रकाशोक्ते तैलभेदे यथाकुशाग्निमन्थशैरीयनलदर्भेक्षुगोक्षुराः कपोतवङ्कावसुक-वसिरेन्दीवरीशराः धातक्यरलुवन्दाकाः कर्णपूराश्म-भेदकाः एषां कल्ककषायाभ्यां सिद्धं तैलं प्रयोजयेत् ।पानाभ्यञ्जनयोगेन वस्तिनोत्तरवस्तिना शर्कराश्मरिरोगेषुमूत्रकृच्छ्रे दारुणे प्रदरे योनिशूले शुक्रदोषेतथैव वन्ध्यागर्भकरं प्रोक्तं तैलमेतत् कुशादिकम्”