| YouTube Channel

कुशाग्रीयमतिः (kuzAgrIyamatiH)

 
शब्दकल्पद्रुमः
Sanskrit
कुशाग्रीयमतिः, त्रि, (कुशाग्रीया कुशानां अग्रवत्सूक्ष्मा मतिर्यस्य ।) तीक्ष्णबुद्धिः (यदुक्तं शिष्टैः ।“अहञ्च भाष्यकारश्च कुशाग्रीयधियाबुभौ ।नैव शब्दाम्बुधेः पारं किमन्ये जडबुद्धयः”
)तत्पर्य्यायः सूक्ष्मदर्शी तत्कालधीः प्रत्युत्पन्न-मतिः इति हेमचन्द्रः
सूक्ष्मायां बुद्धौ कर्म्म-धारयस्तत्र स्त्री