| YouTube Channel

कुशलं (kuzalaM)

 
Hindi
Hindi
कल्याण
शब्दकल्पद्रुमः
Sanskrit
कुशलं,
क्ली,
(कुश् + वृषादित्वात् कलन् यद्वा कुंपापं तस्मात् शलति गच्छति पृथक्त्वं प्राप्नोतीत्यर्थः ।कु + शल् + अच् ।) कल्याणम् (यथा, रघुः ५८ ।“प्रप्रच्छ कुशलं राज्ये राज्याश्रममुनिं मुनिः”
*
समागमे विहिते अभिवादकमवरवयस्कं स-मानवयस्कमनभिवादकमपि ब्राह्मणं कुशलमितिशब्दविशेषोच्चारणेनैव कल्याणप्रश्नं पृच्छेत् य-दुक्तं मनौ १२७ ।“ब्राह्मणं कुशलं पृच्छेत् क्षत्त्रबन्धुमनामयम् ।वैश्यं क्षेमं समागम्य शूद्रमारोग्यमेव च”
)पर्य्याप्तिः पुण्यम् (तद्वति, त्रि ।यथा, गीतायाम् १८ १० ।“नद्वेष्ट्यकुशलं कर्म्म कुशले नानुषज्जते”
कौ पृथिव्यां शलति श्लाघा प्राप्नोतीति शल+ अच् ।) शिक्षिते, त्रि इत्यमरः ।२०३
(यथा, मनुः १५७ ।“समुद्रयानकुशला देशकालार्थदर्शिनः ।स्थापयन्ति तु यां वृद्धिं सा तत्राधिगमं प्रति”
कुशं लाति गृह्णाति कुश + ला + कः कुश-ग्राहकः इति व्युत्पत्तिलब्धोऽर्थः
)