| YouTube Channel

कुशण्डिका (kuzaNDikA)

 
Monier Williams Cologne
English
कुशण्डिका
f.
consecration of the sacred fire,
Jyot.
Aufrecht Catalogus Catalogorum
English
कुशण्डिका śr. Stein 14.
कुशण्डिका Sv. Ulwar 295. Extr. 82.
कुशण्डिका śr. Bd. 99. Lz. 125.
--from the Daśakarmapaddhati. Peters. 5, 18.
Edgerton Buddhist Hybrid
English
kuśaṇḍikā (see BR 〔5.1313〕
BHS goes against Aufrechtʼs em. reported pw 〔6.300〕, kuśa-kaṇḍikā), something used for a seat, prob. some kind of reed or grass, or a seat made thereof: Sādh 〔11.18〕 pallavopaviṣṭaḥ kuśaṇḍikopaviṣṭo vā.
Schmidt Nachtrage zum Sanskrit Worterbuch
German
कुशण्डिका ist nach Aufrecht aus कुशकण्डिका entstanden.
शब्दकल्पद्रुमः
Sanskrit
कुशण्डिका,
स्त्री,
(कुशैः कण्डिका इव कुशकण्डिकापृषोदरात् कस्य लोपः ।) सर्व्वहोमार्थाग्निसंस्का-रकक्रिया तत्र सर्व्वेषामाहुतियुक्तकर्म्मणां कुश-ण्डिकासंस्कृताग्निसाध्यत्वात् सैव प्रथममभिधीयते ।तत्र हस्तप्रमाणं चतुरस्रं स्थण्डिलं शर्कराङ्गारास्थि-केशतुषादिरहितं पूर्व्वोत्तरप्लवं समं वा छाया-मण्डपसहितं गोमयेनोपलिप्य स्नातः शुचिरा-चान्तः प्राङ्मुखः कुशसहितासनोपविष्टः कर्त्ताउत्तरस्यां दिश्यभ्युक्षणार्थं कुशकुसुमसहितजल-पात्रं निधाय दक्षिणं जानु भूमौ पातयित्वाउत्तराग्रकुशोपरि सव्यहस्तप्रादेशमुत्तानं वह्नि-स्थापनपर्य्यन्तं भूमौ निधाय दक्षिणहस्तानामि-काङ्गुष्ठगृहीतकुशमूलेन स्थण्डिलदक्षिणप्रान्ते द्वा-दशाङ्गुलप्रमाणां प्राङ्मुखीं रेखामुल्लिख्य रेखेयंपृथ्वीदेवताका पीतवर्णा इति ध्यायेत् तन्मूलतःप्रभृत्येकविंशत्यङ्गुलप्रमाणां उत्तराभिमुखीं रेखा-मुल्लिख्य रेखेयं अग्निदेवताका लोहितवर्णा इतिध्यायेत् ततः प्रथमरेखायाः उत्तरतः सप्ताङ्गुला-न्तरितां प्रादेशप्रमाणां पूर्व्वाभिमुखीं रेखामुल्लिख्यरेखेयं प्रजापतिदेवताका कृष्णवर्णा इति ध्यायेत् ।ततः सप्ताङ्गुलान्तरितां प्रादेशप्रमाणां पूर्व्वभि-मुखीं रेखामुल्लिख्य रेखेयं इन्द्रदेवताका नीलवर्णाइति ध्यायेत् ततोऽपि सप्ताङ्गुलान्तरितां प्रादे-शप्रमाणां पूर्व्वाभिमुखीं रेखामुल्लिख्य रेखेयंसोमदेवताका शुक्लवर्णा इति ध्यायेत् ततःक्रमेण दक्षिणहस्ताङ्गुष्ठानामिकाभ्यां रेखासूत्करंगृहीत्वा प्रजापतिरृषिस्तृष्टुप्छन्दोऽग्निर्द्देवतारेखासूत्करनिरसने विनियोगः ओँ निरस्तःपरावसुरित्यैशान्यां दिशि अरत्निमात्रान्तरितेदेशे प्रक्षिपेत् ततः पूर्व्वस्थापितजलेन रेखा-भ्युक्षणं कृत्वा दक्षिणदिक्स्थकांस्यपात्रस्थाग्नेर्नव-शरावस्थाग्नेर्व्वा ज्वलदिन्धनं गृहीत्वा प्रजापति-रृषिस्तृष्टुप्छन्दः अग्निर्द्देवताग्निसंस्कारे विनि-योगः ओँ क्रव्यादमग्निं प्रहिणोमि दूरं यम-राज्यं गच्छतु रिप्रवाहः अनेन दक्षिणपश्चिम-कोणे प्रक्षिपेत् ततोऽपरमग्निं गृहीत्वा प्रजा-पतिरृषिर्वृहतीच्छन्दः प्रजापतिर्द्देवता अग्नि-स्थापने विनियोगः ओँ भूर्भुवः स्वरोम् इत्य-नेनाग्निमात्माभिमुखं तृतीयरेखोपरि स्थापयेत्ततो वामहस्तमुत्तोल्याञ्जलिं बद्ध्वा पठेत् प्रजा-पतिरृषिस्तृष्टुप्छन्दोऽग्निर्द्देवताग्निस्थापने विनि-योगः ओँ इहैवायमितरो जातवेदा देवेभ्योहव्यं वहतु प्रजानन्
ततोऽग्ने ! त्वं विश्वरूप-नामासि इति नाम कृत्वा ध्यात्वाऽऽवाह्य विश्व-रूपनाम्ने अग्नये नमः इति पाद्यादिनाभ्यर्च्च्य ओँसर्व्वतः पाणिपादान्तः सर्व्वतोऽक्षिशिरोमुखः ।विश्वरूपो महानग्निः प्रणीतः सर्व्वकर्म्मसु
इतिपठेत्
ततः प्रादेशप्रमाणां घृताक्तां समिधंतूष्णीमग्नौ हुत्वा ब्रह्मस्थापनं कुर्य्यात् समाग्र-पञ्चाशत्कुशपत्ररचितं द्विर्दक्षिणावर्त्तमूर्द्ध्वमुखं दर्भ-वटुं अधीतवेदं ब्राह्मणं वा छत्रमुत्तरासङ्गं वाकमण्डलुं वा ब्रह्मत्वेन परिकल्प्य धारासहित-मुदकपात्रं गृहीत्वा अग्नेरुत्तरतः प्रभृति दक्षि-णावर्त्तेन दक्षिणदेशं गत्वा अरत्निमात्रान्तरितेदेशे पूर्व्वाभिमुखीं वारिधारां दत्त्वा तदुपरिप्रागग्रान् कुशानास्तीर्य्य पश्चिमाभिमुखोऽनुपवि-ष्टस्तिष्ठेत् वामहस्तानामिकाङ्गुष्ठाभ्यामास्तीर्ण-कुशपत्रमेकं गृहीत्वा प्रजापतिरृषिरनुष्टुप्छन्दो-ऽग्निर्देवता तृणनिरसने विनियोगः ओँ निरस्तःपरावसुरित्यनेन दक्षिणपश्चिमकोणे प्रक्षिपेत् ।ततोऽप उपस्पृश्य दक्षिणपादेन सव्यपादमवष्टभ्यउत्तराभिमुखीभूय आस्तीर्णकुशानद्भिरभ्युक्ष्य प्रजा-पतिरृषिरनुष्टुप्छन्दः अग्निर्देवता ब्रह्मोपवेशनेविनियोगः ओँ आवसोः सदने सीद इति ।ब्राह्मणब्रह्मपक्षे तु ब्राह्मण एव सीदामीतिब्रूयात् अनेन कुशोपरि पूर्व्वाग्रं कुशब्राह्मणंब्राह्मणब्रह्मपक्षे तु उत्तराभिमुखं स्थापयित्वातदुपरि कुशान् दत्त्वा अद्भिरभ्यक्ष्य कुशकुसुमै-रर्च्चयेत् ततस्तेनैव पथा प्रत्यावृत्यासने पूर्व्वा-भिमुख उपविष्टो भूमिजपादिकं कुर्य्यात् यदितु ब्रह्मत्वेनारोपितो ब्राह्मणः अयज्ञीयवाचं वदे-त्तदा इमं मन्त्रं जपेत् प्रजापतिरृषिर्गायत्री-च्छन्दो विष्णुर्देवता अयज्ञीयवाग्वचननिमित्तजपेविनियोगः ओँ इदं विष्णुर्विचक्रमे त्रेधा निदधेपदं समूढमस्य पांशुले इति जपेत् कुशादि-ब्रह्मपक्षे तु कर्म्मकर्तुरेव कृताकृतावेक्षणादिब्रह्म-कार्य्यकर्तृत्वादयज्ञीयवाग्वचननिमित्तं एवजपेत् यदि प्रकृते कर्म्मणि चरुहोमोऽस्ति तदाअस्मिन्नेव समये चरुं श्रपयित्वा तदुपरि घृतंदत्त्वा अग्नेरुत्तरतः कुशोपरि संस्थाप्य भूमि-जपादिकं कुर्य्यात् दक्षिणजानु भूमौ पातयित्वादक्षिणहस्तोपरिभावेन अधोमुखौ हस्तौ भूमौनिधाय परमेष्ठी ऋषिरनुष्टुप्छन्दोऽग्निर्देवताभूमिजपे विनियोगः ओँ इदं भूमेर्भजामहइदं भद्रं सुमङ्गलम् परास्रपत्नान् बाधस्वान्येषांविन्दते धनम् इति जप्त्वा रात्रौ चेत् कर्म्म तदाधनमितिस्थाने वस्विति प्रयोक्तव्यम् ततोदक्षिणहस्तेन कुशान् गृहीत्वा अग्नेरुत्तरतःप्रभृति दक्षिणावर्त्तेन तृणादिकमनेन मन्त्रेणपरिशोधयेत् त्रयाणां मन्त्राणामृष्यादयः साधा-रणाः कौत्सऋषिर्जगतीच्छन्दोऽग्निर्द्देवता पृष्ठस्यषडहस्य षष्ठेऽहन्यग्निमारुते शस्ते परिसमूहनेविनियोगः ओँ इमं स्तोममर्हते जातवेद-रथमिव सम्महे मा मनीषया भद्रा हि नः प्रम-तिरस्य संसद्यग्ने सख्ये मा रिषामा वयन्तव ।ओँ भरामेध्मं कृणवामा हवींषि ते चितयन्तःपर्व्वणा पर्व्वणा वयम् जीवातवे प्रतरां साधयाधियोऽग्ने सख्ये मा रिषामा वयन्तव ओँ शकेमत्वा समिधं साधया धियस्ते देवा हविरदन्त्या-हुतं त्वमादित्यानावहतां ह्युश्मस्यग्ने सख्ये मारिषामा वयन्तव ततस्तान् कुशान् ऐशान्यांदिशि प्रक्षिपेत् ततोऽग्नेः पूर्व्वतः उत्तरान्ताद्द-क्षिणान्तं यावत् उपमूललूनान् एकपत्रीकृतान्कुशान् अग्रेण मूलमाच्छादयन् वारत्रयमास्त-रेत् एवं दक्षिणस्यां पूर्व्वान्तात् पश्चिमान्तंयावत् प्रतीच्याञ्च दक्षिणादुत्तरान्तं यावत् एव-मुत्तरस्यां पश्चिमान्तात् पूर्व्वान्तं यावत् क्रमेणास्त-रेत् ततो घृताक्तस्वस्तिकान् दशदिक्षु पूर्व्वादि-क्रमेण दद्यात् ओँ इन्द्राय लोकपालायस्वाहा एवं अग्नये इत्यादि ततः प्रादेशद्वय-प्रमाणां धवखदिरपलाशोडुम्बराणामन्यतमस्यविंशतिकाष्ठिकां मध्ये घृतस्रुवं दत्त्वा प्रजापतिंमनसा ध्यात्वा तूष्णीमग्नौ जुहुयात् ततः स्तरण-कुशादेव समाग्रकुशपत्रद्वयं गृहीत्वा प्रजापतिं-रृषिः पवित्रे देवते पवित्रच्छेदने विनियोगः ।ओँ पवित्रे स्थो वैष्णव्यौ इति मन्त्रेण प्रादेश-प्रमाणं कृत्वा कुशान्तरेण वेष्टयित्वा नखव्यति-रेकेण छित्वा प्रजापतिरृषिः पवित्रे देवते पवित्र-मार्ज्जने विनियोगः ओँ विष्णोर्म्मनसा पूतेस्थः इत्यनेनाभ्यक्ष्य ताम्रादिपात्रे पवित्रमुत्तराग्रंनिधाय तत्र होमार्थं घृतं निःक्षिपेत् ततस्तत्कुश-पत्रद्वयमग्रे दक्षिणहस्तानामिकाङ्गुष्ठाभ्यां मूले चवामहस्तानामिकाङ्गुष्ठाभ्यां गृहीत्वा दक्षिण-हस्तोपरिभावेनाधोमुखव्यस्तपाणिः प्रजापति-रृषिराज्यं देवता आज्योत्पवने विनियोगः ओँदेवस्त्वा सवितोत्पुनात्वछिद्रेण पवित्रेण वसोःसूर्य्यस्य रश्मिभिः स्वाहा इत्यनेन कुशपत्रद्वय-मध्येन घृतमग्नौ सकृज्जुहुयात् तूष्णीं वारद्वयम् ।ततस्तत्कुशपत्रद्वयमद्भिरभ्युक्ष्याग्नौ निःक्षिपेत् ।ततस्तस्याज्यपात्रस्योदकेनानुमार्ज्जनमग्नेरुपरि नि-धानं उत्तरस्यां दिश्यवतारणं इत्थमेव वारत्रयंसंस्कुर्य्यात् इत्याज्यसंस्कारः ततो धवखदिर-पलाशोडुम्बराणामन्यतमस्य अरत्निमात्रं भ्रमि-ताङ्गुष्ठपर्व्वविलं नासारन्ध्रवन्मध्यस्थितमर्य्यादं स्रुवंइत्थमेव वारत्रयं संस्कुय्यादिति स्रुवसंस्कारः ।एवं स्रुङ्मेक्षणादिकं संस्कुर्य्यात् ततो दक्षिणंजानु भूमौ पातयित्वा उदकाञ्जलिं गृहीत्वाप्रजापतिरृषिरदितिर्द्देवता उदकाञ्जलिसेके वि-नियोगः ओँ अदिते अनुमन्यस्व इत्यनेनाग्ने-र्द्दक्षिणतः पश्चिमान्तात् पूर्व्वान्तं यावदुदकाञ्ज-लिना सिञ्चेत् ततः प्रजापतिरृषिरनुमतिर्द्देवताउदकाञ्जलिसेके विनियोगः ओँ अनुमते अनु-मन्यस्व इत्यनेनाग्नेः पश्चिमतो दक्षिणान्तादुत्त-रान्तं यावदुदकाञ्जलिना सिञ्चेत् ततः प्रजा-पतिरृषिः सरस्वती देवता उदकाञ्जलिसेकेविनियोगः ओँ सरस्वत्यनुमन्यस्व इत्यनेनाग्ने-रुत्तरतः पश्चिमान्तात् पूर्व्वान्तं यावदुदकाञ्जलिनासिञ्चेत् ततः प्रजापतिरृषिः सविता देवताअग्निपर्य्युक्षणे विनियोगः ओँ देव सवितःप्रसुवयज्ञं प्रसुवयज्ञपतिं भगाय दिव्यो गन्धर्व्वःकेतपूः केतन्नः पुनातु वाचस्पतिर्वाचन्नः स्वदतुइत्यनेनोदकाञ्जलिना दक्षिणावर्त्तेनाग्निं वेष्टयेत् ।ततो दक्षिणं जानूत्थाप्य उपर्य्यधःस्थितदक्षिण-वाममुंष्टिभ्यां फलपुष्पकुशान् गृहीत्वा विरूपाक्ष-जपं कुर्य्यात् परमेष्ठी ऋषी रुद्ररूपोऽग्निर्द्देवताविरूपाक्षजपे विनियोगः ओँ भूर्भुवः स्वरोम्महान्तमात्मानं प्रपद्ये विरूपाक्षोऽसि दन्ताञ्जि-स्तस्य ते शय्या पर्णे गृहान्तरीक्षे विमितं हिर-ण्मयं तद्देवानां हृदयान्ययस्मये कुम्भेऽन्तः सन्नि-हितानि तानि बलभृच्च बलसाच्च रक्षतोऽप्रमणीअनिमिषत्तत् सत्यं यत्ते द्वादशपुत्त्रांस्ते त्वा संव-त्सरे संवत्सरे कामप्रेण यज्ञेन याजयिंत्वा पुन-र्ब्रह्मचर्य्यमुपयन्ति त्वं देवेषु ब्राह्मणोऽस्म्यहं मनु-ष्येषु ब्राह्मणो वै ब्राह्मणमुपधावत्युपधावामिजपन्तं मा मा प्रतिजापीर्ज्जुह्वन्तं मा मा प्रति-हौषीः कुर्व्वन्तं मा मा प्रतिकार्षीस्त्वां प्रपद्ये त्वयाप्रसूत इदं कर्म्म करिष्यामि तन्मे राध्यतां तन्मेसमृद्ध्यतां तन्म उपपद्यतां समुद्रो मा विश्वव्यचाब्रह्माऽनुजानातु तुथो मा विश्ववेदा ब्रह्मणः पुत्त्रो-ऽनुजानातु श्वात्रो मा प्रचेता मैत्रावरुणोऽनुजा-नातु तस्मै विरूपाक्षाय दन्ताञ्जये समुद्राय विश्व-व्यचसे तुथाय विश्ववेदसे श्वात्राय प्रचेतसे सह-स्राक्षाय ब्रह्मणः पुत्त्राय नमः इति जपित्वागृहीतकुशान् प्रागुदीच्यां दिशि क्षिपेत् फल-पुष्पे ब्रह्मणे निवेदयेत्
*
अथ काम्यकर्म्मार्थंकुशण्डिका तदा प्राणान् संयम्य प्रथमं पुटाञ्जलिः ।ओँ तपश्च तेजश्च श्रद्धा ह्रीश्च सत्यञ्चाक्रोधश्चत्यागश्च घृतिश्च धर्म्मश्च सत्वञ्च वाक् मन-श्चात्मा ब्रह्म तानि प्रपद्ये तानि मामवन्तु ।इति जपित्वा पश्चात् विरूपाक्षजपं कुर्य्यात् ।इति सामवेदिनां सर्व्वसाधारणी कुशण्डिकासमाप्ता इति भवदेवभट्टः
*
अन्यत् रघु-नन्दनभट्टाचार्य्यकृतसंस्कारतत्त्वे द्रष्टव्यम्
यजु-र्व्वेदिनां कुशण्डिका पशुपतिकृतदशकर्म्मपद्धतौऋग्वेदिनां कुशण्डिका कालेशिकृतदशकर्म्मपद्धतौच द्रष्टव्या
*
*
अथ कुशण्डिकानन्तरं प्रकृतंकर्म्म कर्त्तव्यम् तत्र प्रथमं प्रादेशप्रमाणां घृताक्तांसमिधं तूष्णीमग्नौ हुत्वा महाव्याहृतिहोमंकुर्य्यात् प्रजापतिरृषिर्गायत्रीच्छन्दोऽग्निर्देवतामहाव्याहृतिहोमे विनियोगः ओँ भूः स्वाहा ।प्रजापतिरृषिरुष्णिक्छन्दो वायुर्देवता महाव्या-हृतिहोमे विनियोगः ओँ भुवः स्वाहा प्रजा-पतिरृषिरनुष्टुप्छन्दः सूर्य्यो देवता महाव्याहृति-होमे विनियोगः ओँ स्वः स्वाहा इति स्रुवे-णाज्याहुतित्रयन्दद्यात् यदि प्रकृते कर्म्मणिचरुहोमोऽस्ति तदा आज्यतन्त्रोपक्रमविहितत्वात्महाव्याहृतिहोमस्य प्रथमं महाव्याहृतिहोमोन कर्त्तव्योऽन्ते तु कर्त्तव्य एव विहितत्वात् ततःप्रकृतं कर्म्म समाप्य पुनर्महाव्याहृतिहोमं कृत्वाप्रादेशप्रमाणां समिधं तूष्णीमग्नौ हुत्वा शाट्या-यनहोमादिवामदेव्यगानान्तं उदीच्यं साधारणंकर्म्म करणीयम् तदभिधीयते तत्र प्रथमं ओँअद्येत्यादि अत्रामुककर्म्मणि यत्किञ्चिद्वैगुण्यं जातंतद्दोषप्रशमनाय शाट्यायनहोममहं कुर्व्वीयइति सङ्कल्पं कृत्वा अग्ने त्वं विधुनामासि इतिनाम कृत्वा संपूज्य पुनर्घृताक्तां प्रादेशप्रमाणांसमिधं तूष्णीमग्नौ हुत्वा महाव्याहृतिहोमञ्चपूर्व्ववत् कृत्वा प्रायश्चित्तहोमं कुर्य्यात् प्रजापतिरृषिरग्निर्द्देवता प्रायश्चित्तहोमे विनियोगः ।ओँ पाहि नोऽग्न एनसे स्वाहा प्रजापतिरृषि-र्विश्वेदेवा देवताः प्रायश्चित्तहोमे विनियोगः ।ओँ पाहि नो विश्ववेदसे स्वाहा प्रजापतिरृषि-र्व्विभावसुर्देवता प्रायश्चित्तहोमे विनियोगः ।ओँ यज्ञं पाहि विभावसो स्वाहा प्रजापतिरृ-षिः शतक्रतुर्देवता प्रायश्चित्तहोमे विनियोगः ।ओँ सव्यं पाहि शतक्रतो स्वाहा प्रजापतिरृषि-रनुष्टुप्छन्दोऽग्निर्देवता प्रायश्चित्तहोमे विनि-योगः ओँ पाहि नो अग्न एकया पाह्युतद्वितीयया पाहि गीर्भिस्तिसृभिरुर्जांपते पाहिचतसृभिर्वसो स्वाहा प्रजापतिरृषिर्गायत्री-च्छन्दोऽग्निर्देवता प्रायश्चित्तहोमे विनियोगः ।ओँ पुनरूर्ज्जा निवर्त्तस्व पुनरग्न इषायुषा पुनर्नःपाह्यंहसः स्वाहा प्रजापतिरृषिर्गायत्रीच्छन्दो-ऽग्निर्देवता प्रायश्चित्तहोमे विनियोगः ओँ सहर्ज्जानिवर्त्तस्वाग्ने पिनुस्व धारया विश्वप्स्याः विश्वतःपरि स्वाहा प्रजापतिरृषिरनुष्टुप्छन्दोऽग्निर्दे-वता प्रायश्चित्तहोमे विनियोगः ओँ आज्ञा-यदनाज्ञातं यज्ञस्य क्रियते मिथः अग्ने तदस्यकल्पय त्वं हि वेत्थ यथायथं स्वाहा प्रजापति-रृषिः पङ्क्तिच्छन्दः प्रजापतिर्देवता प्रायश्चित्त-होमे विनियोगः ओँ प्रजापते त्वदेतान्यन्योविश्वा जातानि परिता बभूव यत्कामास्तेजुहुमस्तन्नोऽस्तु वयं स्यामः पतयो रयीणां स्वाहा ।ततः पूर्व्ववदेव महाव्याहृतिहोमः समित्प्रक्षे-पश्च प्रजापतिरृषिर्गायत्रीच्छन्दोऽग्निर्देवतामहाव्याहृतिहोमे विनियोगः ओँ भूः स्वाहा ।प्रजापतिरृषिरुष्णिक्छन्दो वायुर्देवता महाव्या-हृतिहोमे विनियोगः ओँ भुवः स्वाहा प्रजा-पतिरृषिरनुष्ठुप्छन्दः सूर्य्यो देवता महाव्याहृति-होमे विनियोगः ओँ स्वः स्वाहा
*
ततोनवग्रहहोमः ओँ आकृष्णेन रजसा वर्त्त-मानो निवेशयन्नमृतं मर्त्त्यञ्च हिरण्ययेन सवितारथेना देवो याति भुवनानि पश्यन् स्वाहा ओँआप्यायस्व समेतु ते विश्वतः सोमवृष्ट्यं भवावाजस्य सङ्गथे स्वाहा ओँ अग्निर्मूर्द्धा दिवःककुत् पतिः पृथिव्या अयं अपां रेतांसिं जिन्वतिस्वाहा ओँ अग्ने विवस्वदुषसश्चित्रं राधोऽमर्त्यआदाशुषे जातवेदो वहा त्वमद्याँ देवाँ उषर्वुधःस्वाहा ओँ वृहस्पते परिदीया रथेन रक्षोहा-ऽमित्राँ अपबाधमानः प्रभञ्जत्सेनाः प्रमृणो युधाजयन्नस्माकमेध्यविता रथानां स्वाहा ओँ शुक्र-न्तेऽन्यद्यजन्तेऽन्यद्विषुरूपेऽहनी द्यौरिवासि ।विश्वा हि माया अवसि स्वधावन् भद्रा ते पूषन्निहरातिरस्तु स्वाहा ओँ शन्नो देवी रभीष्टये शन्नोभवन्तु पीतये शंयोरभिस्रवन्तु नः स्वाहा ।ओँ कयानश्चित्र आभुवदूती सदावृधः सखाकया सचीष्टया वृता स्वाहा ओँ केतुं कृन्वन्नके-तवे पेशो मर्य्या अपेशसे समुशद्भिरजायथाःस्वाहा
*
ततः इन्द्राद्यष्टलोकपालहोमं प्रत्यक्ष-देवताहोमञ्च कृत्वा घृताक्तां प्रादेशप्रमाणां समिधंतूष्णीमग्नौ हुत्वा उदकाञ्जलिसेकं कुर्य्यात् प्रजा-पतिरृषिः सविता देवताग्निपर्य्युक्षणे विनियोगः ।ओँ देव सवितः प्रसुवयज्ञं प्रसुवयज्ञपतिं भगायदिव्यो गन्धर्व्वः केतपूः केतन्नः पुनातु वाचस्पति-र्व्वाचन्नः स्वदतु अनेनोदकाञ्जलिना दक्षिणा-वर्त्तेनाग्निं वेष्टयेत् प्रजापतिरृषिरदितिर्देवताउदकाञ्जलिसेके विनियोगः ओँ अदितेऽन्व-मंस्थाः अनेनाग्नेर्दक्षिणतः पश्चिमान्तात् पूर्व्वान्तंयावदुदकाञ्जलिना सिञ्चेत् प्रजापतिरृषिरनु-मतिर्देवता उदकाञ्जलिसेके विनियोगः ओँअनुमतेऽन्वमंस्थाः अनेनाग्नेः पश्चिमतो दक्षिणा-न्तादुत्तरान्तं यावदुदकाञ्जलिना सिञ्चेत् प्रजा-पतिरृषिः सरस्वती देवता उदकाञ्जलिसेके वि-नियोगः ओँ सरस्वत्यन्वमंस्थाः अनेनाग्नेरुत्त-रतः पञ्चिमान्तात् पूर्व्वान्तं यावदुदकाञ्जलिनासिञ्चेत् तत उत्तानहस्तद्वयेन कतिपयास्तरण-कुशान् गृहीत्वा प्रजापतिरृषिर्व्वयो देवता दर्भ-तृणाभ्यञ्जने विनियोगः ओँ अक्तं रिहा णाव्यन्तुवयः अनेनाग्रमध्यमूलानि घृतेनाभ्यनक्ति वार-त्रयं मन्त्रश्च वारत्रयमेव पठनीयः ततस्तान्कुशानद्भिरभ्युक्ष्य प्रजापतिरृषिरनुष्टुप्छन्दो रुद्र-रूपोऽग्निर्देवता दर्भजुटिकाहोमे विनियोगः ।ओँ यः पशूनामधिपती रुद्रस्तस्तिचरो वृषा ।पशूनस्माकं मा हिंसीरेतदस्तु हुतन्तव स्वाहा ।अनेनाग्नौ क्षिपेत् तत अग्ने त्वं मृडनामासीतिनाम कृत्वा गन्धमाल्यवस्त्रताम्बूलैरग्निमभ्यर्च्च्यप्रजापतिरृषिर्व्विराट्छन्द इन्द्रो देवता यशस्का-मस्य यजनीयप्रयोगे विनियोगः ओँ पूर्णहोमंयशसे जुहोमि योऽस्मै जुहोति वरमस्मै ददातिवरं वृणे यशसा भामि लोके स्वाहा अनेनपूर्णाहुतिं दद्यात् ततो ब्रह्मणे पूर्णपात्रादिदक्षिणां दत्त्वा होमदक्षिणां कुर्य्यात् ततः प्रद-क्षिणेन दक्षिणं देशं गत्वा ब्रह्मग्रन्थिं मुक्त्वा प्रत्या-वृत्यासने पुनरुपविश्य कुशकुसुमसहितजलपात्रेहस्तं निधाय महावामदेव्य ऋषिर्व्विराडगाय-त्रीच्छन्द इन्द्रो देवता शान्तिकर्म्मणि जपे विनि-योगः ओँ कया श्चित्र आभुवदूती सदावृधः सखा कया सचीष्टया वृता ओँ कस्त्वासत्यो मदानां मंहिष्ठो मत्सदन्धसः दृढाचिदारुजेवसु ओँ अभीषुणः सखीनामविता जरितॄणांशतम्भवास्यूतये ओँ स्वस्ति इन्द्रो वृद्धश्रवाःस्वस्ति नः पूषा विश्ववेदाः स्वस्ति नस्तार्क्ष्योऽरिष्ट-नेमिः स्वस्ति नो वृहस्पतिर्दधातु
“एता ऋचोगीत्वा शान्तिं कुर्य्यात् गानाशक्तौ एता एवऋचस्त्रिरावृत्त्या पठेदिति ततो दक्षिणां दत्त्वाअच्छिद्रावधारणं कुर्य्यात् इति सर्व्वकर्म्मसा-धारणमुदीच्यं कर्म्म समाप्तम्