| YouTube Channel

कुवेरः (kuveraH)

 
Apte 1890
English
कुबे(वे)रः [कुत्सितं बे(वे)रं शरीरं यस्य सः] The god of riches and treasure and the regent of the northern quarter
कुबेरगुप्तां दिशमुष्णरश्मौ गंतुं प्रवृत्ते समयं विलंघ्य Ku. 3. 25 (vide Malli. thereon.). [Kubera is the son of Viśravas by Iḍaviḍā and thus the halfbrother of Rāvaṇa. Besides being the lord of riches and regent of the north, he is the king of the Yakṣas and Kinnaras, and a friend of Rudra. His abode is Kailāsa. He is represented as being deformed in body-having three legs, only eight teeth, and a yellow mark in place of one eye].
Comp.
अद्रिः.
अचलः an epithet of mountain Kailāsa.
दिश् f. the north.
Apte Hindi
Hindi
कुवेरः
पुं*
- कुत्सितं बे (वे) रं शरीरं यस्य सः
"धन दौलत और कोश का स्वामी, उत्तर दिशा का स्वामी"
शब्दकल्पद्रुमः
Sanskrit
कुबे(वे)रः,
पुं,
(कुम्बतीति कुब कि आच्छादने“कुम्बेर्नलोपश्च” उणां ६० इति एरक् ।नलोपश्च यद्वा कुत्सितं वेरं शरीरं यस्य पिङ्गलनेत्रत्वात्तथात्वम् ।) यक्षराजः इति सिद्धान्त-कौमुद्यामुणादिवृत्तिः
(स विश्रवस ऋषेरिलविलायां जातः तु त्रिपात् अष्टदन्तःकेकराक्षश्च यथा, वायुपुराणे ।“कुत्सायां क्वितिशब्दोऽयं शरीरं वेरमुच्यते ।कुवेरः कुशरीरत्वात् नाम्ना तेनैव सोऽङ्कितः”
तथा काशीखण्डे देवीदत्तशापोक्तौ ।“कुवेरो भव नाम्ना त्वं मम रूपेर्ष्यया सुत !”
)
कुवेरः,
पुं,
(कुत्सितं वेरं शरीरमस्य ।) तथा वायु-मार्कण्डेयपुराणे ।“कुत्सायां क्विति शब्दोऽयं शरीरं वेरमुच्यते ।कुवेरः कुशरीरत्वात् नाम्ना तेनैव सोऽङ्कितः”
इत्यमरटीकायां भरतः
देवताविशेषः तुविश्रवोमुनेरिडविडाभार्य्यायां जातः धनयक्षो-त्तरदिशां पतिश्च इति श्रीभागवतम्
त्रिच-रणोऽष्टदंष्ट्रोऽयं जातः तत्पर्य्यायः त्र्यम्बकसखः २यक्षराट् गुह्यकेश्वरः मनुष्यधर्म्मा धनदः ६राजराजः धनाधिपः किन्नरेशः वैश्र-वणः १० पौलस्त्यः ११ नरवाहनः १२ यक्षः१३ एकपिङ्गः १४ ऐलविलः १५ श्रीदः १६ पुण्य-जनेश्वरः १७ इत्यमरः ७१ -- ७३ हर्य्यक्षः१८ अलकाधिपः १९ इति जटाधरः
*
नन्दीवृक्षः इति मेदिनी
अर्हदुपासकविशेषः ।इति हेमचन्द्रः
कुवेरः, त्रि, (कुत्सितं वेरं क्षेपणं दानादिकं गति-र्वा यस्य ।) मम्दः इति धरणी
(कुत्सितं वेरंशरीरं यस्य ।) कुशरीरः इति त्रिकाण्डशेषः