| YouTube Channel

कुवलाश्वः (kuvalAzvaH)

 
शब्दकल्पद्रुमः
Sanskrit
कुवलाश्वः,
पुं,
(कौ पृथिव्यां वलते विचरणसमर्थोभवति यद्वा कुं भूमिं पृथिवीं वा वलते व्याप्नोतीव ।वल् + अच् कुवलः वेगगमनेन भूवलयभ्रमणक्षमःअश्वो यस्य ।) धुन्धुमारराजः इति हेम-चन्द्रः
(यथा, विष्णुपुराणे १२ “श्राव-स्तस्य वृहदश्वस्तस्यापि कुवलाश्वः योऽसावुतङ्कस्यमहर्षेरपकारिणं धुन्धुनामानमसुरं वैष्णवेन तेज-साऽऽप्यायितः पुत्त्रसहस्रैरेकविंशतिभिः परिवृतोजघान धुन्धुमारसंज्ञामवाप च”
अयमेव कुवल-याश्व इति नाम्नापि विश्रुतः
)