| YouTube Channel

कुलिशं (kulizaM)

 
शब्दकल्पद्रुमः
Sanskrit
कुलिशं,
क्ली,
पुं,
(कुलौ हस्ते शेते अवतिष्ठते कुल +शी + डः यद्वा कुलिनः पर्व्वतान् श्यति दारय-तीति शो + डः “आतोनुपसर्गे कः” ।इति को वा ।) वज्रम् इत्यमरभरतौ
(यथा, कुमारे २० ।“क्रुद्धेऽपि पक्षच्छिदि वृत्रशत्रा-ववेदनाज्ञं कुलिशक्षतानाम्”
कु ईषत् कुत्सितं वा लिशति कु + लिश अल्पी-भावे गतौ + कः ।) मत्स्यविशेषः तत्पर्य्यायः ।कण्टकाष्ठीलः इति त्रिकाण्डशेषः
(यथा, सुश्रुते सूत्रस्थाने ६४ अध्याये ।“तिमिमिङ्गिलकुलिशापाकमस्त्यनिरालकनन्दिवा-रलकमकरगर्गरकचन्द्रकमहामीनराजीवप्रभृतयःसामुद्राः”
कौ भूमौ लिशति अल्पीभवतिकुंभूमिं लिशति गच्छति ह्रस्वतया प्राप्नोति वा ।)अस्थिसंहारवृक्षः इति रत्नमाला